________________
३३२
बृहत्कल्प-छेदसूत्रम् - १-१/६
[भा. १२५१]
वृ- स्नानादौ आदिशब्दाद् रथयात्रादौ 'समवसरणे' साधुमीलके "अट्ठे लोए” इति व्यञ्जनभेददूषितं सूत्रं परिवर्त्तयन्तं साधुं कमपि श्रुत्वा स प्रतिनोदनां करोति-"अट्ठे लोए" इति पठ । स प्राह- किम् ? इति । गीतार्थो ब्रूते-“अट्टे” इति अर्थो न मिलति । इतरः प्राह-किम् अस्यारथोऽप्यस्ति ? । (गीतार्थ प्राह-) बाढम् नमस्कारमादिं कृत्वा सर्वस्यापि श्रुतस्यार्थो विद्यते । स आह-यद्येवं तर्हि “अट्टि” त्ति पदस्य कोऽर्थ ? उच्यते- 'आर्ततश्चतुर्द्धा नाम-स्थापना- द्रव्यभावभेदात्, नाम-स्थापने सुगमे, द्रव्यतः सचित्तादिद्रव्यैरप्राप्तैः प्राप्तवियुक्तैर्वा य आर्त्तः स द्रव्यार्त्तः, क्रोधादिभिरभिभूतो भावार्त्तः, एवं प्रकारद्वयेनायं लोक आर्त्तो वर्त्तते ।' इत्याकर्ण्य प्रमुदितः स साधुश्चिन्तयति- 'अहो ! अस्य सूत्रलवस्यापी ग् हृदयङ्गमोऽर्थस्ततो यदि सर्वस्याधीतस्यार्थमवबुध्ये ततः सुन्दरं भवति' इत्यभिसन्धायाऽर्थग्रहमार्थं तस्यैव पार्श्वे उपसम्पदं प्रतिपद्यते । ततोऽसौ विधिना तस्यार्थे दीपनं करोति, अर्थं कथयतीत्यर्थः । एष द्वितीयः प्रकारः ॥ अथ तृतीयमपि
हाणाइ समोसरणे, परियट्टितं सुणित्तु सो साहुं । अट्ठत्ति पडियोयण, उवसंप दीवणा अत्थे ।
प्रकारमाह
[भा. १२५२ ] अहवा वि गुरुसमीवं, उवागए देसदंसणम्मि कए । उवसंपय साहूणं, होइ कयम्मी दिसाबंधे ॥
वृ- अथवा देशदर्शने कृते सति यदाऽसौ गुरूणां समीपमुपागतो भवति तदा गुरुभिराचार्यपदे प्रतिष्ठाप्य दिग्बन्धे 'कृते' अनुज्ञाते सतिविहारं कुर्वतोऽस्य पार्श्वे प्रतीच्छकसाधूनामुपसम्पद् भवतीति ।। व्याख्यातं त्रिभि प्रकारैरुपसम्पद्दारम् । अथ स्थिरत्वद्वारमभिधातुकाम आह[ भा. १२५३ ] आयपरोभयतुलणा, चउव्विहा सुत्तसारणित्तरिया । तिहऽट्ठा संविग्गे, इयरे चरणेहरा नेच्छे ॥
वृ- तत्रासावात्मपरोभयविषयां तुलनां करोति । सा च प्रत्येकं चतुर्विधा वक्तव्या । तथा ये केचित् तद्गुणावर्जिता अगारिणः प्रव्रजन्ति तेषामुपसम्पन्नानां चासौ सूत्रसारणां करोति, सूत्रं पाठयतीत्यर्थः; उपलक्षणं चैतत् तेनाऽऽ सेवनाशिक्षामपि ग्राहयति । तथा तेषामुभयेषामप्यसौ इत्वरां दिशं बध्नाति, यथा- यावदाचार्याणां सकाशं व्रजामस्तावदहमेवाचार्योऽहमेवोपाध्यायः, तत्रगतानामाचार्या ज्ञायका इति । "तिण्हट्ठा संविग्गि" त्ति ये संविग्नाः साधवस्ते 'त्रयाणां ' ज्ञानदर्शनचारित्राणामर्थाय उपसम्पद्यमानाः प्रत्येष्टव्याः । “इयरे चरणि "त्ति 'इतरे' पार्श्वस्थादयो यदि चरणार्थमुपसम्पद्यन्ते ततस्तेऽपि सङ्ग्राह्याः, “इहरा नेच्छे" त्ति इतरथा ज्ञान-दर्शननिमित्तम्, सूत्रार्थग्रहण- दर्शनप्रभावकशास्त्राध्ययनार्थमिति भावः, यद्युपसम्पद्यन्ते ततः 'नेच्छेत्' नोपसम्पदं ग्राहयेदित्यर्थः ।। अथ यदुक्तम् “आत्मपरोभयतुलना चतुर्विधा” इत तत्रात्मतुलनां तावद् भावयति[भा. १२५४] आहाराई दव्वे, उप्पाएउं सयं जइ समत्थो ।
Jain Education International
खेत्तओ विहारजोग्गा, खेत्ताविहतारणाईया ॥
वृ- इहाऽऽत्मतुलना चतुर्विधा- द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यत एषामुपसम्पन्नानां यद्येषणीयान्याहारादीनि स्वयमुत्पादयितुं समर्थ, आदिग्रहणात् उपधिशय्यापरिग्रहः । क्षेत्रत ऋतुबद्धविहारयोग्यानि वर्षावासयोग्यानि वा क्षेत्राण्युत्पादयितुं शक्नोमि न वा, "विहं" इत्यध्वा
For Private & Personal Use Only
www.jainelibrary.org