________________
३२७
उद्देशकः १, मूलं-६, [भा. १२२७] निशङ्कितत्वभावाद् ‘आगाढम्' अतीवविशुद्धं 'दर्शनं' सम्यक्त्वं भवतीति ।।
गतं दर्शनशुद्धिद्वारम् । अथ स्थिरीकरणद्वारमाह[भा.१२२८] संवेगं संविग्गाण जनयए सुविहिओ सुविहियाणं ।
आउत्तो जुत्ताणं, विसुद्धलेसो सुलेस्साणं ।। कृ'संविग्नानां साधूनांसंवेगंजनयति, अहो! अयं भव्याचार्योऽवगाहितसमस्तसिद्धान्तसिन्धुरभ्यस्तचरणकरणसामाचारीक इत्थं देशदर्शनं करोति' इतिभावनया स्थिरीकरणंकरोतीत्यर्थः। स्वय ‘सुविहितः' शोभनविहितानुष्ठानस्तेषामपि सुविहितानाम्, स्वयम् ‘आयुक्तः' विकथानिद्रादिप्रमादैश्रप्रमत्तस्तेषामपि 'युक्तानाम्' अप्रमादिनाम्, स्वयं विशुद्धलेश्यः तेषामपि सुलेश्यानामिति ॥गतंस्थिरीकरणद्वारम्।अथदेशद्वारम्।अत्रचविशेषचूर्णिकृतादर्शनशुद्धिद्वारमेव विवृण्वतेयं गाथा गृहीता, संवेगस्य सम्यग्दर्शनलक्षणत्वात् संवेगजननेदर्शनशुद्धिः कृता भवतीति कृत्वा स्थिरीकरणद्वारंतुमूलतः एवनोपात्तम्। द्वारगाथायामपि "दंसणसोही देसप्पवेस अइसेस जणवयपरिच्छा" इत्येष एव पाठो गृहीतः, अतस्तदभिप्रायेण गतं दर्शनशुद्धिद्वारम्, अथ देशप्रवेशद्वारं व्याचष्टे[भा.१२२९] नाणादेसीकुसलो, नाणादेसीकयस्स सुत्तस्स ।
अभिलावअत्थकुसलो, होइ तओ नेन गंतव्वं ॥ वृ-नानाप्रकारा-मगध-मालव-महाराष्ट्र-लाट-कर्णाट-द्रविड-गौड-विदर्भादिदेशभवा या देशीभाषा तस्यां कुशलः सन् 'नानादेशीकृतस्य' नानादेशभाषानिबद्धस्य सूत्रस्य अभिलापेउच्चारणे अर्थकथने च कुशलो भवति, यत एवं ततोऽनेन देशदर्शनार्थं गन्तव्यम् ।। तथा[भा.१२३०]कहयति अभासियाण वि, अभासिए आवि पव्वयावेइ ।
सव्वेवि तत्थ पीई, बंधंति सभासिओ ने त्ति ॥ वृ-नञः कुत्सार्थत्वात् कुत्सिता-अव्यक्तवर्णविभागाभाषा येषां तेऽभाषिकास्तेषामप्यसौ धर्मंकथयति, निशेषदेशभाषानिष्णातत्वात्।अभाषिकाँश्चापितद्देशभाषयाप्रतिबोध्य प्रव्राजयति। सर्वेऽपिचशिष्याः 'तत्र' आचार्ये प्रीतिंबध्नन्ति,स्वभाषिकः 'मे' अस्माकम् अयमिति कृत्वा । तथा[भा.१२३१]पियधम्मऽवजभीरू, साहम्मियवच्छलो असढभावो।
संविग्गावेइ परं, परदेसपवेसणे साहू ॥ वृ-प्रियधर्मा' धर्मश्रद्धालुः, अवयं-पापकर्म तस्माद् भीरुरवद्यभीरु, साधर्मिकाःसाधवस्तेषांवत्सलोद्रव्यतो भक्त-पानादिना भावतस्तुस्खलितादिषु सारणादिना, 'अशठभावः' मातृस्थानरहितः, एवंविधोऽसौ साधुः परदेशप्रवेशने वर्तमानः ‘परम्' अनयं संयमयोगेषु सीदन्तमपि ‘संविग्नयति' सदुपदेशदानादिना संविग्नं करोतीति॥
गतं देशद्वारं देशप्रवेशद्वारं वा। अथातिशयद्वारमाह[भा.१२३२] सुत्त-ऽत्थथिरीकरणं, अइसेसाणं च होइ उवलद्धी।
- आयरियदंसणेणं, तम्हा सेविज आयरिए॥ वृ-आचार्याणां दर्शनेन-सेवनेनेति यावत् सूत्रार्थस्थिरीकरणमतिशयानां च अपूर्वाणाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org