________________
३२८
'उपलब्धि:' प्राप्तिर्भवति । यत एवं तस्मात् 'सेवेत' पर्युपासीताऽऽचार्यान् ॥
एतदेव व्याख्यानयति
[भा. १२३३] उभए वि संकियाई, पुव्विं जाई सि पुच्छमाणस्स । हो ओ सुत्थे, बहुस्सु सेवमाणस्स ॥
वृ- 'उभये' सूत्रेऽर्थे च यानि पूर्वं 'से' तस्य शङ्कितानि पदानि तानि आचार्याणां समीपे पृच्छतो निशङ्कितानि जायन्ते । एवं च बहुश्रुतान् सेवमानस्य 'जयः' सूत्रार्थविषयोऽभ्यासातिशयो भवति, अतो बहुश्रुतपर्युपानं विधेयम् ।। अपि च
बृहत्कल्प-छेदसूत्रम् -१-१/६
[भा. १२३४] भवियाइरिओ देसाण दंसणं कुणइ एस इय सोउं । अन्ने वि उज्जमंते, विणिक्खमंते य से पासे ॥
वृ- 'भव्याचार्य एष देशानां दर्शनं करोति' इति श्रुत्वा 'अन्येऽपि' पर्युपास्यमानाचार्यसम्बन्धिनः शिष्याः ‘उद्यच्छन्ते' सूत्रार्थग्रहणादी उद्यमं कुर्वन्ति । गृहिणोऽपि च तद्गुणग्रामरञ्जितमनसः 'विनिष्क्रामन्ति' दीक्षां प्रतिपद्यनते 'से' तस्य भविष्यदाचार्यस्य पार्श्वे इति ॥ अतिशयानामुपलब्धि कथं भवति ? इत्याह
[ भा. १२३५ ] सुत्तत्थे अइसेसा, सामायारी य विज-जोगाई | विज्जा जोगा य सुए, विसंति दुविहा अओ होंति ।।
वृ- इहातिशयास्त्रिविधाः, तद्यथा सूत्रार्थातिशयाः १ सामाचार्यतिशयाः २ विद्या-योगाः आदिशब्दा मन्त्राश्च ३ इति त्रयोऽतिशयाः । तत्र विद्या स्त्रीदेवताधिष्ठिता पूर्वसेवादिप्रक्रियासाध्या वा, योगाः पादलेपप्रभृतयो गगनगमनादिफलाः, मन्त्राः पुरुषदेवताधिष्ठिताः पठितसिद्धा वा । यद्वा विद्या योगाः चशब्दाद् मन्त्राश्च श्रुते एव 'विशन्ति' अन्तर्भवन्ति, अतो द्विविधा अतिशया भवन्ति-सूत्रार्थातिशयाः सामाचार्यतिशयाश्चेति । एषामतिशयानामुपलब्धिरपूर्वाचार्यपर्युपासनायां भवति ।। अथ सामाचार्या अतिशयं बिभावयिषुराह
[भा. १२३६] निक्खमणे य पवेसे, आयरियाणं महानुभावाणं । सामायारीकुसलो, अ होइ गणसंपवेसेणं ॥
वृ-स देशदर्शनं कुर्वाणस्तेषु तेषु नगरादिषु बहुश्रुतानामाचार्याणां महानुभावानां सम्बन्धी वो गणः - गच्छस्तन्मध्ये यः सम्यग् - एकीभावेन एकत्रावस्थानलक्षणेन प्रवेशस्तेन बहुशो गणान्तरेषु निष्क्रमणे प्रवेशे च सामाचारीकुशलो भवति ॥ कथम् ? इत्याह
[भा. १२३७] आगंतुसाहुभावम्मि अविदिए धन्नसालमाइठिया । उप्पत्तियाउ थेरा, सामायारीउ ठाविंति ॥
वृ- आगन्तुकाः- प्राधुणका उपसम्पन्ना वा तेषां साधूनां भावे 'अविदिते' 'कीदृशेनाभिप्रायेणाऽऽगताः ? के वाऽमी ?' इत्यपरिज्ञाते केचित् ' स्थविरा:' आचार्या धान्यशालायाम् आदिशब्दाद् घृतशालादिषु च स्थिताः 'औत्पत्तिकीः' अनुत्पन्नपूर्वा सामाचारीः स्थापयन्ति ॥ कथम् ? इत्याह
[भा. १२३८] सव्वे वि पडिग्गहए, दंसेउं नीह पिंडवायट्ठा । अहिमरमायासंका, पडिलेहेउं व पविसंति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org