________________
-
३२६
बृहत्कल्प-छेदसूत्रम् -१-१/६ स्थानम् । “सिय"त्ति स्याशब्दो भवत्यर्थे आशङ्कायां भजनायां वा । तत्र भवत्यर्थे सुप्रसिद्धः । आशङ्कायां यथा-"दव्वथओ भावथओ दव्वथओ बहुगुण त्ति बुद्धि सिया।" भजनायां यथा"सिय तिभागे सिय तिभागतिभागे" पत्र इत्यादि । “वीसुं" तिविष्वक् पृथगित्यर्थः । ‘एरका' गुन्द्रा भद्रमुस्तक इत्यर्थः एते आदिग्रहणात् पयः पिचं नीरमित्यदयश्च शास्त्रप्रसिद्धाः शब्दास्तेषु तेषुदेशेषुलोकेन तथातथा व्यवह्रियमाणादेशदर्शनं कुर्वता प्रत्यक्षम्' इतिप्रत्यक्षत उपलभ्यन्ते।। आह यद्यसौ तान् प्रत्यक्षतो नोपलभेत ततः का नाम न्यूनता भवेत् ? उच्यते[भा.१२२४] जो विपगासो बहुसो, गुणिओ पच्चक्खओ न उवलद्धो।
जच्चंधस्स व दंदो, फुडो वि संतो तहा स खलु ।। वृ-योऽपि 'प्रकाशः' अर्थो बहुशः 'गुणितः' स्भ्यस्तीकृतः परं न प्रत्यक्षत उपलब्धः स जात्यन्धस्येवचन्द्रः स्फुटोऽपिसन् ‘खलुः' अवधारणेतथैवास्फट एवमन्तव्यः । इदमत्र हृदयम्यथा चन्द्रः प्रकटोऽपि साक्षाद्दर्शनं विना जात्यन्धस्य न परिस्फुटाकारः प्रतिभासते एवमस्यापि शास्त्रानुसारतःप्रकटाअपिप्रत्यक्षदर्शनमन्तरेणनपरिस्फुटा व्यवहारोपयोगिनोऽर्थाप्रतिभासन्ते।। यतश्चैवंततः[भा.१२२५]आयरियत्तअभविए, भयणा भविओ परीइ नियमेणं ।
अप्पतइओ जहन्ने, उभयं किं चाऽऽरियं खेत्तं ॥ वृ- आचार्यत्वस्य-आचार्यपदस्य अभव्यः-अयोग्यस्तस्मिन् ‘भजना' अर्थग्रहणानन्तरं देशदर्शनं कार्यते वा न वा, यस्तु 'भव्यः' आचार्यपदयोग्यः स नियमेन ‘पर्येति' देसदर्शनाय पर्यटति । स चाऽऽत्मतृतीयो जघन्येनावश्यन्तया कृत्वा प्रेषणीयः । किञ्च 'उभयम्' इति किं ऋतुबद्धकालप्रायोग्यमिदं क्षेत्रम् ? उतवर्षावासयोग्यम् ? तथाकिमेतद् ‘आर्य सार्द्धपञ्चविंशतिजनपदमध्यवर्ति? आहोश्चिदनार्यम् ? एतत् सर्वमपि देशदर्शनं विदधानो जानाति ।।
अथ देशदर्शनस्यैव गुणान्तराभधित्सया द्वारगाथामाह[भा.१२२६]दसणसोही थिरकरण देस अइसेस जनवयपरिच्छा।
काउ सुयं दायव्वं, अविनीयाणं विवेगोय॥ वृ-देशदर्शनं कुर्वतोदर्शनशुद्धिरात्मनःस्थिरीकरणंचान्येषांभवति, "देस"त्तिनानादेशभाषासुकौशलम् ‘अतिशेषाः' अतिशयाः जनपदपरीक्षाचजायन्ते।तत एतानि दर्शनशुध्यादीनि कृत्वा विनीतेभ्यः श्रुतंदातव्यम्, अविनीतानां विवेकः परित्यागःकर्त्तव्यइतिद्वारगाथासमासार्थ।।
अथ विस्तरार्थं बिभणिपुराह[भा.१२२७]जम्मण-निखमणेसु य, तित्थयराणं महानुभावाणं ।
इत्थ किर जिनवराणं, आगाढं दंसणं होइ। वृ-जन्म-निष्क्रमणशब्दाभ्यां तदाधारभूता भूमयो गृह्यन्ते । जन्मभूमिषु अयोध्यादिषु, निष्क्रमणभूमिषु उज्जयन्तादिषु, चशब्दाद् ज्ञानोत्पत्तिभूमिषु पुरिमतालादिषु, निर्वाणभूमिषु सम्मेतशैल-चम्पादिषुतीर्थकराणां ‘महानुभावानां' सातिशया-ऽचिन्त्यप्रभावाणां सम्बन्धिनीषु विहरतः ‘अत्र किल भगवतां जिनवराणां जन्म जज्ञे, अत्र तु भगवन्तो दीक्षां प्रतिपन्नाः, इह केवलज्ञानमासादितवन्तः, इह पुनः परिनिर्वृताः' एवं बहुजनमुखेन श्रुत्वा स्वयं च दृष्ट्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org