________________
उद्देशक : १, मूलं- ६, [भा. १२२१]
३२५
एवंविधं यत् पूर्वमजानता सूत्रमधीतं तस्यार्थं सम्यगवगम्य हीनं प्रतिपूरयति अधिकं परित्यजति । जिनकल्पिकसूत्रं यथा
तेगिच्छं नाभिनंदिज्जा, संचिक्खऽत्तगवेसए । एवं खु तस्स सामन्नं, जं न कुज्जा न कारवे ॥
स्थविरकल्पिकसूत्रं यथा-भिक्खू अ इच्छिज्जा अन्नयरिं तेगिच्छि आउंटित्तए । अथवा जिनकल्पिक-स्थविरकल्पिकयोः सामान्यसूत्रमिदम्- “संसट्टकप्पे चरिज भिक्खू"
आर्यासूत्रं यथा-"कप्पइनिग्गंधीणं अंतोलित्तं घडिमत्तयं धारित्तए’"कालि' त्तिकालविषयं किमपि सूत्रं भवति, यथा अनागतं कालमङ्गीकृत्य "न या लभेजा निउणं सहायं, गुणाहियंवा गुणओ समं वा । इत्यादि ।
“वयणाई’ति ‘वचनम्’एक-द्वि-बहुवचनादिकं षोडश धा यथा पीठिकायाम तव्प्रतिपादकं सूत्रं यथा आचाराङ्गे भाषाध्ययने- एगवयणं वयमाणे एगवयणं वएज्जा, दुवयणं वयमाणे दुवयणं वएज्जा, बहुवयणं वयमाणे बहुवयणं वएज्जा, इत्थीवयणं वयमाणे इत्थीवयणं वएज्जा । इत्यादि । आदिशब्दाद् भयसूत्रादिपरिग्रहः । इत्थमनेकधा सूत्राणां सम्भवे तदर्थश्रवणमन्तरेण न शक्यते “कीध्शम् ?” इति विवेकः कर्त्तुमिति कर्त्तव्यमर्थग्रहणम् ॥ अथ ते शिष्या ब्रूयुः - 'यः कण्ठतः सूत्रे निबद्धोऽर्थस्तेनैव वयं तुष्टाः किमस्माकं दुरधिगमत्वाद् बहुपरिक्लेशेन "मज्जण निसिज्ज अक्खा" इत्यादिप्रक्रियापुरस्सरमर्थग्रहणप्रयासेन ?' इति, ते इत्थंब्रुवाणाः प्रज्ञापयितव्याः । कथम् ? इत्याह
[भा. १२२२] जे सुत्तगुणा खलु लक्खणम्मि कहिया उ सुत्तमाईया । अत्थग्गणमराला, तेहिं चिय पन्नविनंति ॥
वृ-पीठिकायां लक्षणद्वारे ये सूत्रस्य गुणाः “निद्दोसं सारवंतं च" इत्यादिना कथिताः, यद्वा “सुत्तमाईय” त्ति " सुत्तं तु सत्तमेव उ" इत्यादिना प्रतिपादिताः, 'तैरेव' हेतुभिरर्थग्रहणे मरालाः- अलसाः शिष्याः प्रज्ञाप्यन्ते । यथा-भो भद्राः ! निर्दोष-सारवद्-विश्वतोमुखादयः सूत्रस्य गुणा भवन्ति, ते च यथाविधि गुरुमुखादर्थे श्रूयमाण एव प्रकटीभवन्ति । किञ्च यथा द्वासप्ततिकलापण्डितो मनुष्यः प्रसुप्तः सन्न किञ्चित् तासां कलानां जातीने एवं सूत्रमप्यर्थेनाऽबोधितं सुप्तमिव द्रष्टव्यम् । विचित्रार्थनिबद्धानि सोपस्काराणि च सूत्राणि भवन्ति, अतो गुरुसम्प्रदायादेव यथावदवसीयन्ते न यतस्ततः । इत्थं युक्तियुक्तैर्वचोभि प्रज्ञापितास्ते विनेयाः प्रतिपद्यन्ते गुरूणामुपदेशम्, गृह्णन्ति द्वादश वर्षाणि विधिवदर्थमिति ।। गतमर्थग्रहणद्वारम् । अधानियतवासद्वारम्-तत्रार्थग्रहणे समापिते सति यो विनेय आचार्यपदयोग्यः स नियमाद् द्वादश वर्षाणि देशदर्शनं कारयितव्यः । शिषयः पृच्छति तेन द्वादश वर्षाणि सूत्रग्रहणं कृतं द्वादशभिर्वर्षैरर्थ समग्रोऽपि गृहीतः, अतो देशदर्शनेन विना किमिवास्य न सिध्यति ? इति उच्यते
[भा.१२२३]जइ वि पगासोऽहिगओ, देसी भासाजुओ तहा वि खलु ।
उदय सियाय वीसुं, एरगमाई य पञ्चक्खं ॥
वृ-यद्यपि तेन 'प्रकाशः' अर्थ सूत्रस्य 'अधिगतः' सम्यग् विज्ञातस्तथापि 'खलु' निश्चयेनासौ विनेयो देशदर्शनेन देशीभाषायुतः कर्त्तव्यः । कुतः ? इत्याह-“उंदुय” इत्यादि । 'उन्दुकम्' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org