________________
३२४
बृहत्कल्प - छेदसूत्रम् - १-१/६ 'गवा' बलीवर्दन 'शालिकरणेन च' शालिक्षेत्रेण । तत्र गोद्दष्टान्तो यथा- कश्चिद् बलीर्द सकलमपि दिवसं वाहयित्वा हलाद् अरघट्टाद् वा मुक्तः सन् सुन्दरामसुन्दरां वा चारिं यां प्राप्नोति तां सर्वामनास्वादयन् चरत्येव । पश्चाद् ध्रातः सनुपविश्य प्राक् चीर्णं रोमन्थायते, रोमन्थायमानश्च तदा स्वादमुपलभते, ततोऽसौ नीरसं कचवरं परित्यजति । एवमयमपि गृहवासारघट्टाद् मुक्तः प्रथमं यत् किमपि सूत्रं चारिकल्पं गुरुसकाशादधिगच्छति तत् सर्वमर्थास्वादनविरहितं गृह्णाति । ततः सूत्रे गृहीतेऽर्थग्रहणं करोति । यदि पुनरर्थं न गृह्णीयात् तदा तत् सूत्रं निरास्वादमेव सञ्जायते । अर्थे तु श्रुते सम्यक् तदर्थमवबुध्यमानः सन्नसौ यथावदाचरत्युपदेशम्, परिहरति बिन्दुमात्राभेदादिदोषदुष्टान् कचवरकल्पानभिलापानिति ॥
शालिकरणदृष्टान्तः पुनरयम्-यथा कर्षकः शालीन् महता परिश्रमेण निष्पाद्य ततो लवनमलन-पवनादिप्रक्रियापुरस्सरं कोष्ठागारे प्रक्षिप्य यदि तैः शालिभिः खाद्य-पेयादीनामुपभोगं न करोति तत शालिसङ्गहस्तस्याफलः सम्पद्यते । अथासौ करोति तैः शालिभि यथायोगमुपभोगं ततः शालिसङ्ग्रहः सफलो जायते । एवं द्वादशवार्षिके सूत्राध्ययनपरिश्रमे कृतेऽपि यदि तदीयमर्थ शृणुयात् तदा स सर्वोऽपि परिश्रमो निष्फल एव भवेत् । अर्थे तु श्रुते समयगवधारिते च सफलः स्यात् ।। अत एवाह - उपभोगफलाः शालयः, सूत्रं पुनः 'अर्थकरणफलं' चरणकरमादिरूपसूत्रार्थाचरणफलम्, तच्च सूत्रोक्तार्थाचरणं श्रुत एवार्थे भवति नान्यथा ॥ अतः
[भा. १२२०] जइ बारस वासाई, सुत्तं गहियं सुणाहि से अहुणा । बारस चैव समाओष अत्थं नो नाहिसि न वा णं ॥
वृ-यदि द्वादश वर्षाणि त्वया सूत्रं गृहीतम्, अतः 'तस्य' सूत्रस्यार्थमधुना द्वादशैव 'समाः' वर्षाणि शृणु । ततोऽर्थं श्रण्वन् स्वज्ञानावारककर्मत्रयोपशमानुसारेण ज्ञास्यसि वा न वा "णं” इति 'तं' विवक्षितमर्तम् ॥ किञ्च
[भा. १२२१] सन्नाइसुत्त - ससमय, परसमय उस्सग्गमेव अववाए । हीना - Sहिय - जिन थेरे, अज्जा काले य वयणाई |
वृ- इह मौनीन्द्रप्रवचनेऽनेकधा सूत्राणि भवन्ति । तत्र किञ्चि संज्ञासूत्रम्, यथा- “जे छेए से सागारियं न सेवे ।” यः 'छेकः' पण्डितः सः 'सगारिकं' मैथुनं न सेवेत । अथवा - "सव्वामगंधं परिन्नायनिरामगंधो परिव्वए ।" आमम्- अविशोधिकोटिः, गन्धं विशोधिकोटि । तथा-"आरं दुगुणेणं पारं एगगुणेणं ।” 'आरं' संसारस्तं 'द्विगुणेन' राग-द्वेषयुगलेन 'पारं' निर्वाणं तद् 'एकगुणेन' राग-द्वेषपरिहारलक्षणेन जीवः प्राप्नोतीति गम्यते । आदिग्रहणाद् देशीभाषानियतं सूत्रं गृह्यते, यथा-“दिगिंछापरीसहे” । “दिगिंछा' इति बुभुक्षा ||
स्वसमयसूत्रं यथा-“करेमि भंते ! सामाइयं" इत्यादि ॥ परसमयसूत्रं यथा- पंच खंधे वयंतेगे, बाला उ खणजोइणो । उत्सर्गसूत्रं यता- “अभिक्खणं निव्विगई गया य" इत्यादि । अपवादसूत्रं यथा
तिण्हमन्नयरागस्स, निसिज्जा जस्स कप्पई । जराए अभिभूयस्स, वाहियस्सा तवस्सिणो ॥
'हीनम्' इति हीनाक्षरं यैरक्षरैर्विना सूत्रस्यार्थो न पूर्यते, 'अधिकम्' इत्यधिकाक्षरम्,
For Private & Personal Use Only
www.jainelibrary.drg
Jain Education International