SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-६, [भा. १२१४] ३२३ आह भगवानेव किमिति नाचष्टे ? किं तत्कथने केऽपि गुणाः सन्ति? उच्यते, सन्तीति ब्रूमः । के पुनस्ते? इत्याह[भा.१२१५]खेयविणोओ सीसगुणदीवणा पच्चओ उभयओ वि। सीसा-ऽऽयरियकमो विय, गणहरकहणे गुणा होति॥ वृ-भगवतः खेदविनोदो भवति, परिश्रमविश्राम इत्यर्थः । तथा 'अहो ! अस्य भगवतः शिष्या अप्येवंविधव्याख्यानलब्धिमन्तः' इति शिष्यगुणदीपनाकृता भवति।प्रत्ययश्चोभयतोऽपि श्रोतृणामुपजायते, यथा भगवताऽभ्यधायि तथा गणधरोऽप्यभिधत्ते, न शिष्या-ऽऽचार्ययोः परस्परंवचनविरोधइति; गणधरे वातदनन्तरं भगवदुक्तानुवादिनि प्रत्ययो भवतिभगवद्विषयः श्रोतृणां यथा नान्यथावादीति।तथा शिष्या-ऽऽचार्यक्रमोऽपिचदर्शितो भवति, आचार्यादुपश्रुत्य योग्यशिष्येण तदुक्तार्थव्याख्यानं कर्त्तव्यम् । एते 'गणधरकथने' गणभृतो धर्मदेशनायां गुणा भवन्तीति । आह स गणधरः क्व निषण्णः कथयति? इत्युच्यते[भा.१२१६] राओवणीय सीहासणोवविठ्ठो व पायवीढम्मि। जिट्ठो अन्नयरो वा, गणहारिकहेइ बीयाए॥ वृ-राज्ञा उपनीते-ढौकिते सिंहासने वा तदभावे भगवतः पादपीठे वा उपविष्टः 'ज्येष्ठः' प्रथमो गौतमस्वाम्यादिस्तदभावेऽन्यतरो वा गणं-स्वाध्वादिसमुदायं गुणसमुदयं वा धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति ॥ आह स कथयन् कथं कथयति? इत्युच्यते[भा.१२१७] संखाईए विभवे, साहइ जं वा परो उ पुच्छिज्जा । नयणं अनाइसेसी, वियाणई एस छउमत्थो ।। वृ-भगवान् गणधरः सङ्ख्यातीतानपि भवान् “साहइ"त्ति कथयति । इदमुक्तं भवतिअसङ्खयेयेषुभवेषु यद्बभूव भविष्यति वा तत्सर्वमपिकथयति । 'यद्वा वस्तुजातंदुरवगममपि परः पृच्छेत् तदशेषमपि कथयतीति, अनेनाऽशेषाभिलाप्यपदार्थप्रतिपादनशक्तिमाह । किं बहुना ? 'नच' नैव "गं" इति तं गणधरम् 'अनतिशयी' अवधि-मनःपर्यायाधतिशयरहितो विजानाति यथा 'एषः' गणधरःछद्मस्थः, किन्तु निशेषप्रश्नोत्तरदानसमर्थतया सर्वज्ञोऽयमिति मन्यत इति भावः ।। एवं तावत् समवसरणवक्तव्यता प्रसङ्गत उक्ता । अथ प्रकृतयोजनामाह[भा.१२१४] तित्थयरस्स समीवे, वक्खेवो तत्थ एवमाईहिं। सुत्तग्गहणं ताहे, करेइ सो बारस समाओ॥ वृ-तीर्थकरस्यसमीपे 'तत्र' समवसरणेएवमादिभिप्रकारैरध्ययनस्यव्याक्षेपोभवतीत्युक्ते स शिष्यः प्राह-'भगवन् ! सत्यमेवैतद् यद् आदिशत यूयं अत इहैव पठामि' इत्युक्त्वा सूत्रग्रहणं द्वादश समाः' वर्षाणि करोति, द्वादशभिर्वर्षे सकलस्यापि सूत्रस्याध्ययनं विदधातीत्यर्थः॥ गतं शिक्षापदद्वारम् । अथार्थग्रहणद्वारं विवरीषुराह[भा.१२१९] सुत्तम्मि य गहियम्मी, दिटुंतो गोण-सालिकरणेणं । उवभोगफला साली, सुत्तं पुण अत्थकरणफलं ।। वृ-सूत्रे गृहीतेसतिअवश्यंतस्यार्थ श्रोतव्यः। किं कारणम् ? इतिचे उच्यते-दृष्टान्तोऽत्र णणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy