________________
३२२
बृहत्कल्प-छेदसूत्रम् -१-१/६
राजामात्यस्य वा 'असति' अभावे ‘पौरं' नगरनिवासिविशिष्टलोकसमुदायः 'जनपदो वा' ग्रामादिवास्तव्यजनसमुदायोदुर्बलिकयाकण्डितानां खण्डीकर्तुमशक्तत्वाबलवत्याच्छटितानां निशेषतुषापनयनात् तन्दुलानाम् ‘आढकम्' -
दो असईओ पसई, दो पसईओ य सेइआ होइ।
चउसेइओ उ कुडवो, चउकुडवो पत्थओ नेओ। एवंविधैश्चतुर्भि प्रस्थैरेक आढको निप्पद्यते, एवंपरिमाणं "कलम"त्ति आर्षत्वाद् विभक्तिव्यत्यये 'कलमानां' शालिविशेषाणां बलिं करोति ॥ किंविशिष्टानाम् ? इत्याह[भा.१२१२]भाइयपुणानियाणं, अखंड-ऽफुडियाण फलगसरियाणं ।
कीरइ बली सुरा विय, तत्थेव छुहंति गंधाई।। वृ-भाजिताश्च ते पुनरानीताश्च बाजितपुनरानतास्तेषाम् । तत्र भाजनम्-ईश्वरादिगृहेषु वीननार्थमर्पणम्, तेभ्यः प्रत्यानयनं पुनरानयनम् । तथा 'अखण्डा-ऽस्फुटितानाम्' अखण्डाःसम्पूर्णावयवाः अस्फुटिताः-राजीरहिताः, “फलकसरिताणं" फलकवीनितानाम्, एवम्भूतानां तन्दुलानांबलि क्रियते।सुरा अपिच 'तत्रैव' बलौ प्रक्षिपन्ति गन्धादीनिति ।। गतं देवमाल्यद्वारम्। अथमाल्यानयनद्वारम्।तमित्थं तन्दुलाढकपरिमाणंसिद्धं बलिमुपादाय राजादिस्त्रिदशगणपरिवृतो महता पटुपटहादितूर्यनिनादेन सकलमपिदिड्मण्डलमापूरयन्नागत्यपूर्वद्वारेणप्रवेशयति।आह चचूर्णिकृत्-तं आढगं तंदुलाणं सिद्धं देवमलं रायाव रायमच्चो वापउरंवा गामो वा जनवओव गहाय महया तूरियरवेणं देवपरिवुडो पुरच्छिमिल्लेणं दारेणं पविसइ त्ति । तस्मिश्च प्रवेश्यमाने भगवानपिधर्मदेशनामुपसंहरतीति । आह च[भा.१२१३]बलिपविसणसमकालं, पुव्वद्दारेण ठाइ परिकहणा।
तिगुणं पुरओ पाडण, तस्सद्धं अवडियं देवा ॥ वृ-पूर्वद्वारेण बलिप्रवेशनसमकालं तिष्ठति' उपरमते 'परिकथना' धर्मकथा। ततश्च स राजादिप्रविश्य बलिव्यग्रहस्तो भगवन्तं त्रि-प्रदक्षिणीकृत्य बलिं तत्पादान्तिके पुरतः पातयति। तस्य चार्द्धमपतितमेव देवा गृह्णन्ति । [भा.१२१४] अद्धद्धं अहिवइणो, तदद्ध मो होइ पागयजणस्स ।
सव्वामयप्पसमणी, कुप्पइ नऽन्नो य छम्मासे ॥ वृ-देवगृहीतोद्वरितस्यार्द्धस्यार्द्धमधिपतेर्भवति, राजादेलिस्वामिन इत्यर्थः । तदर्द्ध' चतुर्भागलक्षणं 'मो' पादपूरणे यद् बलेरास्ते तद् भवति 'प्राकृतजनस्य' प्रकृतिषु भवः प्राकृतो जनस्तस्य, इतरलोकस्येत्यर्थः । तस्य चायं प्रभावः-यदि तत एकमपि सित्थं शिरसि प्रक्षिप्यते ततः पूर्वोत्पन्नो रोगः सपदि विलीयते, अपूर्वश्च षण्मासान् यावन्न प्रादुर्भवतीति । आह च'सर्वामयप्रशमनः सर्वरोगोपशमनोऽयंबलि, गाथायांप्राकृतत्वात्स्त्रीत्वम्, कुप्यतिन 'अन्यश्च' अपूर्वो रोगः षण्मासान् यावदिति ॥ गतं माल्यानयनद्वारम् । अपरे त्वनन्तरोक्तं द्वारद्वयमप्येकद्वारीकृत्य व्याचक्षते तथाप्यविरोधः । इत्थंबलौ प्रक्षिप्ते भगवानुत्थाय प्रथमप्राकारन्तरादुत्तरद्वारेण निर्गत्य पूर्वस्यां दिशि स्फटिकमये देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठते । अथ 'उपरि तीर्थम्' इति द्वारम्-भगवत्युत्थिते उपरि-द्वितीयपौरुष्यांतीर्थ-प्रथमगणधरोऽपरोवाधर्ममाचष्टे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org