________________
उद्देशक : १, मूलं-६, [भा. १२०६ ]
३२१
दीयते तद् वृत्तिदानम्, यत् पुनः स्वनगरे भगवदागमननिवेदकाय नियुक्तायानियुक्ताय वा हर्षप्रकर्षाधिरूढमानसैर्दीयते तत् प्रीतिदानम्, एतद् द्वयमपि यथा चक्रवर्त्तयादयः प्रयच्छन्ति तथा प्रतिपादयन्नाह
[भा. १२०७] वित्ती उ सुवन्नस्सा, बारस अद्धं च सयसहस्साइं । तावइयं चिय कोडी, पीईदानं तु चक्कीणं ॥
वृ-वृत्तिदानं सुवर्णस्य 'द्वादश अर्द्धं च शतसहस्राणि' अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः । 'तावत्यं एव' अर्द्धत्रयोदशप्रमाणा एव सुवर्णस्य कोटयः प्रीतिदानम् । केषाम् ? इत्याहचक्रवर्त्तिनाम् ॥
[भा. १२०८] एतं चैव पमाणं, नवरं रययं तु केसवा दिंति ।
मंलियाण सहस्सा, वित्ती पीई सयसहस्सा ॥
वृ- एतदेव प्रमाणं वृत्ति-प्रीतिदानयोः, 'नवरं' केवलं 'रजतं' रूप्यं 'केशवाः' वासुदेवा ददति।‘मण्डलिकानां' राज्ञां सहस्राण्यर्द्धत्रयोदशप्रमाणानि रूप्यस्य वृत्तिदानम्, प्रीतिदानं पुनरर्द्धत्रयोदशशतसहस्राणि इति । किमेत एव महापुरुषाः प्रयच्छन्ति ? आहोश्चिदन्येऽपि ? इत्याह[भा. १२०९] भत्ति-विभवानुरूवं, अन्ने वि य दिंति इब्भमाईया | सोऊण जिनागमनं निउत्तमनिओइएसुं वा ।।
वृ- 'भक्ति-विभवानुरूपं' यावती यस्य भगवद्विषया भक्ति यावती च यस्य विभूति स तदनुमानेनेत्यर्थः, अन्येऽपि च ददति 'इभ्यादयः' इभमर्हतीति इभ्यः, यस्य सत्कसुवर्णादिद्रव्यपुञ्जेनान्तरितो हस्त्यपि न दृश्यते सः, अभ्यधिकद्रव्यो वेत्यर्थः, आदिशब्दाद् नगर-ग्रामभोगिकादयः । कदा? इत्याह श्रुत्वा 'जिनस्य' तीर्थकृत आगमनं नियुक्तेभ्योऽनियुक्तेभ्यो वा ॥ आह तेषामित्थं वृत्ति-प्रीतिदाने प्रयच्छतां के गुणाः ? इति उच्यते
[भा. १२१०] देवानुवित्ति भत्ती, पूया थिरकरण सत्तअनुकंपा । साओदय दानगुणा, पभावणा चेव तित्थस्स ॥
वृ-चक्रवत्यार्दिभिरित्थं प्रयच्छद्भिर्देवानामनुवृत्ति कृता भवति, देवा अपि भगवतः पूजां कुर्वन्तीति कृत्वा भगवति पूज्यमाने तेषामपि महान् परितोषो भवतीत्यर्थः । तथा भक्तिर्भगवतः कृता भवति । तीर्थकरपूजायां च स्थिरीकरणमभिनवश्राद्धानां भवति । सत्वानां भगवत्प्रवृत्तिनिवेदकानामनुकम्पा विहिता भवति । 'सातोदयं' सातवेदनीयं कर्म विशिष्टदिव्य-मानुप्यसुखोपभोगफलं बध्यते । एतेऽनन्तरोक्ता दानगुणाः । प्रभावना चैव तीर्थस्य कृता भवति - अहो ! अमीषां धर्म श्रेयान् यत्र स्वदेव- गुरुभक्तिसम्भारसुभगमीद्दशमौदार्यमिति ॥ गतं दानद्वारम् । अथ देवमाल्यद्वारम् । भगवान् प्थमां सम्पूर्णपौरुषीं धर्ममाचष्टे । अत्रान्तरे देवमाल्यं प्रविशति, बलिरित्यर्थः । आह कस्तं करोति ? इत्याह
[भा. १२११] राया व रायमच्चो, तस्सासइ पउर जनवओ वा वि ।
दुब्बलिकंडिय बलिछडिय तंदुलानाढगं कलमा ।।
वृ- 'राजा वा' चक्रवर्त्ति - माण्डलिकादि, 'राजामात्यो वा' राज्ञो मन्त्री । 'तस्य' राज्ञो
18 21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org