________________
उद्देशक : १, मूलं-६, [भा. ११९९]
३१९ "खयउवसमे वियतह"त्तिकर्मणां क्षयोपशमेऽपि सतिये दान-लाभादयः कार्यविशेषास्तेऽपि तथैव भगवतोऽनुत्तराः । 'क्षये त्रायिके पुनर्भाववर्तमानस्य भगवतः केवलज्ञानादिकं गुणसमुदयम् 'अविकल्पं' वर्णनादिकल्पातीतं सर्वोत्तमम् “आहंसु" ति आख्यातवन्तः श्रुतधरा इति ॥ ____ आह केवलिकालेऽप्यसाताद्याः प्रकृतयो नाम्नो वा याअशुभास्ताः कथं तस्य दुःस्वदान भवन्ति? इति अत्रोच्यते[भा.१२००]अस्सायमाइयाओ,जा विय असुहा हवंति पगडीओ।
निंबरसलवुव्व पए, न होंति ता असुहया तस्स ॥ वृ- 'असाताद्याः' असातवेदनीयादयो या अपि चाशुभा भवन्ति प्रकृतयस्ता अपि निम्बरसलव इव ‘पयसि' दुग्धे न भवन्ति अशुभदा असुखदा वा तस्य भगवत इति॥
अथ पृच्छाद्वारम् । आह उत्कृष्टरूपतया भगवतः किं प्रायोजनम् ? इति अत्रोच्यते[भा.१२०१] धम्मोदएण रूवं करेंति रूवस्सिणो विजइ धम्म ।
गज्झवओ य सरूवो, पसंसिमो रूवमेवं तु॥ वृ-धर्मस्य-पुण्यप्रकृतिरूपस्योदयेन रूपं भवतीतिपरिभाव्य श्रोतारोऽपिधर्मे प्रवर्त्तन्ते । तथा कुर्वन्ति 'रूपस्विनोऽपि' रूपवन्तोऽपि यदि धर्मं ततः शेषैः सुतरां कर्तव्य इति श्रोतृबुद्धिः प्रवर्तते । 'ग्राह्यवाक्च' आदेयवाक्यः सुरूपः पुरुषो भवति, चशब्दस्यानुक्तसमुच्चयार्थत्वात् श्रोतृणां रूपाद्यभिमानापहारीच।अतः प्रशंसामोवयंभगवतोरूपमेवमिति ।। गतरूप-पृच्छाद्वारे। अथ व्याकरणद्वारम् । भगवान् देव-नर-तिरश्चां प्रभूतसंशयिनां व्याकरणं कुर्वन् कथं संशयव्यवच्छित्तिं करोति ? इत्युच्यते-युगपदेकेनैव निर्वचनेन । आह यद्येकैकस्यैकैकं संशयं परिपाट्या व्यवच्छिन्द्यात् ततः को दोषः स्यात् ? इत्याह[भा.१२०२] कालेन असंखेण वि, संखाईयाण संसईणंतु।
मा संसयवोच्छित्ती, न होजकमवागरणदोसा ।। वृ-कालेन ‘असङ्ख्येयेनापि' पल्योपमादिना सङ्ख्यातीतानां संशयिनां संशयव्यवच्छित्तः क्रमव्याकरणदोषाद् न भवेत्, अत एतद् मा भूदिति भगवान् युपगद् व्यागृणातीति ॥
अथ युगपद्याकरणे गुणानाह[भा.१२०३] सव्वत्थ अविसमत्त, रिद्धिविसेसो अकालहरणं च ।
सव्वत्रुपच्चओ वि य, अचिंतगुणभूइओ जुगवं॥ वृ- 'सर्वत्र' सरवसत्त्वेषु ‘अविषमत्वं' युगपनिर्वचनेन तुल्यत्वं भगवतो भवति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपज्जिज्ञासतां कालभेदेन कथने राग-द्वेषगोचरचित्तवृत्तिसम्भावनाप्रसङ्गात्।ऋद्धिविशेषश्चायंभगवतः, ययुगपत् सर्वसंशयिनामशेषसंशयवयवच्छित्तिं करोति । तथा परिपाट्या कथने कस्यापि संशयिनोऽनिवृत्तसंशयस्यैव कालेन-मृत्युना हरणं स्यात्, अतोऽकालहरणं युगपनिर्वचने भवति । तथा सर्वज्ञप्रत्ययोऽपिच तेषामित्थमेव भवति, क्रमव्याकरणेतु कस्यचिदनपनीतसंशयस्य सर्वज्ञप्रतीतिरपि न स्यात्। तथा अचिन्त्या-अप्रमेया गुणभूति-गुणसम्पदियं भगवतः, यदेकहेलयैव सर्वेषामपि संशयव्यपनयनम्। एतैः कारणैर्भगवान् युगपत् कथयतीति । गतं व्याकरणद्वारम् । अथ श्रोतृपरिणामद्वारम् । तत्र यथा सा पारमेश्वरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org