SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३१८ बृहत्कल्प-छेदसूत्रम् - १-१/६ [भा. ११९५] जत्थ अपुव्वोसरणं, न दिट्ठपुवंव व जेण समणेणं । बारसहि जोयणेहिं, सो एइ अनागमे लहुगा ।। वृ-यत्र नगरादौ 'अपूर्वं समवसरणं' विवक्षिततीर्थकरापेक्षया अभूतपूर्वं येन वा श्रमणेन न दृष्टपूर्वं स द्वादशभ्यो योजनेभ्यो नियमतः 'एति' आगच्छति । यदि त्ववज्ञया नागच्छति तदा चत्वारो लघवः प्रायश्चित्तम् ॥ अथ रूपद्वारमाह [ भा. ११९६ ] सव्वसुरा जइ रूवं, अंगुट्ठपमाणयं विउव्विज्जा । जिनपायंगु पइ, न सोहए तं जहिंगालो | व की ग् भगवतो रूपम् ? इत्याह- 'सर्वसुराः ' वैमानिकादयः सम्भूय यदि सारसारतरसारतमान् पुद्गलान् गृहीत्वा अङ्गुष्ठप्रमाणकं रूप विकुर्वेयुः तथापि जिनपादाङ्गुष्ठं प्रति उपमीयमानं तद् न शोभते, यथाऽङ्गार इति । साम्प्रतं विनेयजनानुग्रहाय प्रसङ्गतो गणधरादीनामपि रूपसम्पदभिधित्सयाऽऽह [भा. ११९७ ] गणहर आहार अनुत्तरा य जाव वन चक्कि - वासु-बला । मंडलिया जा हीना, छट्टाणगया भवे सेसा ॥ वृ-तीर्थकररूपसम्पदः सकाशाद् अनन्तगुणहीना गणधरा रूपतो भवन्ति । गणधररूपाद् अनन्तगुणहीनाः खल्वाहारकदेहाः । आहारकदेहरूपाद् अनन्तगुणहीना अनुत्तरोपपातिनां देहाः । ततोऽप्यनन्तगुणहीना उपरितनोपरितनग्रैवेयकदेवदेहाः । एवं यावदीशानकल्पदेवरूपाद् अनन्तगुणहीनाः सौधर्मकल्पदेवदेहाः । तोत भवनपति - ज्योतिष्क- वनचर-चक्रवर्ति-वासुदेवबलदेव-महामण्डलिका अपि रूपतो यथाक्रममन्तगुणहीना द्रष्टव्याः । ततः शेषराजानो जनपदलोकाश्च षट्स्थानगताः परस्परं भवन्ति । तद्यथा-अनन्तभागहीना वा १ असङ्ख्येयभागहीना वा २ सङ्घयेयभागहीना वा ३ संख्येयगुणहीना वा ४ असङ्घयेयगुणहीना वा ५ अनन्तगुणहीना वा ६ || अथ भगवत एव रूपसौन्दर्यनिबन्धनं संहननादिकं वर्णयन्नाह [भा. ११९८] संघयण-रूव-संठाण - वन्न गइ सत्त-सार ऊसासा । एमादऽनुत्तराई, हवंति नामोदया तस्स ॥ वृ- 'संहननं' वज्रऋषभनाराचम्, 'रूपम्' अनन्तरोक्तरूपम्, 'संस्थानं' समचतुरस्रम्, 'वर्ण' देहच्छाया, 'गति' भद्रगजेन्द्रानुकारिणी सुललिता, 'सत्त्वं' धैर्यम्, सारो द्विधा बाह्य आभ्यन्तरश्च, बाह्यो गुरुत्वम्, आभ्यन्तरो ज्ञान - दर्शन - चारित्ररूपः, “ऊसास"त्ति उच्छव्सानिश्वाससौरभ्यम्, एवमादीनि वस्तूनि तस्य भगवतः 'अनुत्तराणि' अनन्यसामान्यानि भवन्ति, आदिशब्दाद् गोक्षीरगौरं रुधिरा ऽऽमिषं चर्मचक्षुषामगोचरावाहार-नीहारौ इत्यादि । एतानि च 'नामोदयाद्' नामनाम्नः कर्मणः शुभरूपस्योदयात् 'तस्य' भगवतोऽनुत्तराणि भवन्ति ॥ किञ्च[भा. ११९९]पयडीणं अन्नासऽवि, पसत्थ उदया अनुत्तरा होंति । खयउवसमे वि य तहा, खयम्मि अविगप्पमाहुंसु ॥ वृ- प्रकृतीनाम् 'अन्यासामपि' नामव्यतिरिक्तानां गोत्रादीनां प्रशस्ता उदया उच्चैर्गोत्रत्वादयो भवन्ति । अपिशब्दाद नाम्नोऽपि ये उक्तव्यतिरिक्ताः सौभाग्य-सौन्दर्य यशः कीर्त्तिप्रभृतस्तेऽपि रिगृह्यन्ते । एते च किमितरजनस्येव प्रशस्ताः ? उतन ? इत्यत आह- 'अनुत्तराः' अनन्यसध्शाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy