SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः १, मूलं-५, [भा. ११९०] ३१७ अपि प्रत्येकं मिश्रा वा भवन्ति । एवं समवसरणे विरचिते सति किं भवति? इत्याह[भा.११९१] सव्वं व देसविरई, सम्म घेच्छइ व होइ कहणा उ । इहरा अमूढलक्खो , न कहेइ भविस्सइन तं च ।। वृ-सर्वविरतिं वा देशविरतिं वा सम्यग्दर्शन वा कश्चिद् ग्रहीष्यतीति ज्ञात्वा भगवतः 'कथना' धर्मदेशना भवति । 'इतरथा' सम्यक्त्वग्रहणस्याप्यभावे मूढं-विपर्ययमुपगतं लक्ष्यंज्ञेयवस्तुयस्यसमूढलक्ष्योन तथाअमूढलक्ष्यो यथावस्थितवस्तुवेदीतिभावः, एवंविधो भगवान् 'नकथयति' न करोतिधर्मदेशनाम् । आह यद्येवंतर्हि समवसरणकरणप्रयासो विबूधानामपार्थकः प्राप्नोतीत्याह-भविष्यतिनतच्च तद् भगवत्यपि धर्मकथां कुर्वाणेऽन्यतमोऽप्यन्यमत् सामायिकं नप्रतिपद्यते, भगवतः सातिशयत्वात् । भविष्यत्कालनिर्देशस्त्रिकालोपलक्षणार्थ ॥ [भा.११९२] मनुए चउमन्नयरं, तिरिए तिन्नि व दुवे व पडिवजे । जइ नत्थि नियमसो च्चिय, सुरेसु सम्मत्तपडिवत्ती ।। वृ-मनुष्यश्चतुर्णां सामायिकानां सम्यक्त्व-श्रुत-देशविरति-सर्वविरतिरूपाणामन्यतरत् प्रतिपद्यते।तिर्यञ्चः त्रीणिवा' सम्यक्त्व-श्रुत-देशविरतिरूपाणि, द्वेवा सम्यक्त्व-श्रुतसामायिके प्रतिपद्यन्ते। यदि मनुष्य-तिरश्चां मध्ये कश्चित् प्रतिपत्ता नास्ति ततो नियमत एव ‘सुरेषु देवेषु कस्यापि सम्यक्त्वप्रतिपत्तिर्भवति ॥स च भगवानित्थं धर्ममाचष्टे[भा.११९३] तित्थपणमं काउं, कहेइ साहारणेण सद्देणं । सव्वेसिं सन्नीणं, जोयणनीहारिणा भगवं॥ वृ. 'नमस्तीर्थाय' इत्यभिधाय प्रणामं च कृत्वा सर्वेषां सुर-नरादीनां संज्ञिनां जीवानां 'साधारणेन' स्वस्वभाषापरिणमनसमर्थेन योजनीहारिणा योजनव्यापिना शब्देन भगवान् धर्म कथयति । किमुक्तं भवति?-भगवतो दिव्यध्वनिरशेषाणामपि समवसरणवर्त्तिनां संज्ञिजन्तूनां जिज्ञासितार्थप्रतिपत्तिनिबन्धनमुपजायते ।। आह कृतकृत्योऽपि भगवान् किमिति तीर्थप्रमाणं करोति? इति उच्यते[भा.११९४] तप्पुब्विया अरहया, पूइयपूया य विनयमूलं च । कयकिच्चो विजह कह, कहइ नमए तहा तित्थं ॥ वृ-'तीर्थं' श्रुतज्ञानंतपूर्विका ‘अर्हत्ता' तीर्थकरता, नखलु भवान्तरेषुश्रुताभ्यासमन्तरेण भगवत एवमेवाऽऽर्हन्त्यलक्ष्मीरुपढौकते।तथापूजितस्य पूजा पूजितपूजा, साचतीर्थस्य कृता भवति, पूजितपूजको हि लोकः, ततो यद्यहं तीर्थं पूजयामि ततस्तीर्थकरस्यापि पूज्यमिदमिति कृत्वा लोकोऽपिपूजयिष्यति।तथा विनयमूलं धर्मंप्ररूपयिष्यामि, अतः प्रथमतो विनयं प्रयुझे, येनलोकः सर्वोऽपिमद्वचनं सुतरांश्रद्दधीत।अथवा कृतकृत्योऽपि भगवान् यथा कथां कथयति तथा तीर्थमपि नमति । आह नन्वेतदप्यसमीचीनं यत् कृतकृत्यः सन् धर्मदेशनां करोति, नैवम्, अभिप्रायापरिज्ञानाद्, भगवता हि तीर्थकरनामगोत्रं कर्मावश्यवेदयितव्यम्, तस्य च वेदनेऽयमेवोपायो यद् अग्लान्या धर्मदेशनादिकरणम्, “तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणनाईहिं" ति वचनात् ॥ गतं समवसरणद्वारम् । अथ “केवइय" त्ति द्वारम् । कियतो भूभागादवश्यं समवसरणे आगन्तव्यम् ? इत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy