________________
पीठिका - [भा. ९६ ]
वृ-करणवशात् सम्यग्दर्शनलाभे एतान्यष्टावुदाहरणानि । तद्यथा-“नदि’”त्ति गिरिनदीप्रस्तरोदाहरणम् १ पथदृष्टान्तः २ ज्वरोदाहरमम् ३ वस्त्रोदाहरणम् ४ जलोदाहरणम् ५ पिपीलिकोदाहरणम् ६ पुरुषोदाहरणम् ७ कोद्रवोदाहरणम् ८ ॥ तत्र प्रथमतो गिरिसरिव्यस्तरोदाहरं भावयति[भा. ९७] गिरिसरिसपत्थरेहिं, आहरणं होइ पढमए करणे ।
एवमनाभोगियकरणसिद्धितो खवणजा गंठी ॥
वृ-गिरिसरित्प्रस्तरैः ‘आहरणं' ध्ष्टान्तः 'प्रथमे' यथाप्रवृत्ताख्ये करणे भवति । तच्चैवम्यथा गिरिसरित्प्रस्तरा गिरिसरिजलावेगतो घर्षण - घोलनादिना केचिद्वर्तुला भवन्ति केचित्त्र्यस्राःकेचिच्चतुरस्राः, एवम्‘अनाभोगकरणसिद्धितः’ यथाप्रवृत्तकरणप्रभावतः सुदीर्घाया अपि कर्मस्थितेस्तावत् क्षपणं यावद्ग्रन्थिरिति ॥ अथ 'अनिवृत्तिकरणं सम्यक्त्पुरस्कृते जीवे भवति' इत्युक्तं तत् सम्यक्त्वं कथं लभते ? उच्यते-उपदेशतः स्वयं वा । तथा चात्र पथदृष्टान्तः[भा. ९८/१] उवएसेण सयं वा, नट्ठपहो कोइ मग्गमोतरति ।
वृ- नष्टपथः कोऽपि पुरुषः 'उपदेशेन' अन्यं पृष्ट्वा तस्योपदेशेन मार्गमवतरति, कश्चिन्मार्गानुसारिप्रज्ञतया स्वयमेवेहा-पोहं कृत्वा । एवमिहापि कोऽपि सम्यग्दर्शनमाचार्यादीनामुपदेशतो लभते, कश्चित्स्वयमेव जातिस्मरणादिना ॥ अत्रैव ज्वरदृष्टान्तमाह
[भा. ९८/२] जरितो य ओसहेहिं, पउणइ कोई विना तेहिं ।।
वृ-ज्वरितोऽपि कश्चिदौषधैः 'प्रगुणति' प्रगुणीभवति, कश्चित्पुनः 'तैः' औषधैः 'विना' एवमेव । एवमत्तापि कस्यचिद्दर्शनमोह आचार्याद्युपदेशतोऽपगच्छति, कस्यचित्पुनरेवमेव मार्गानुसारितया तत्त्वपर्यालोचनतः । इह ज्वरस्थानीयो दर्शनमोहः, औषधस्थानीय आचार्याद्युपदेशः ।। इह यत्सत्प्रथमतया क्षायोपशमिकसम्यग्दृष्टिरुपजायते सोऽपूर्वकरणवशान्मिथ्यात्वदलिकं त्रिधा करोति । तद्यथा-मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वं च । अत्र वस्त्रध्ष्टान्तं जलदृष्टान्तं चाऽऽह
[भा. ९९] मइल दरसुद्ध सुद्धं, जह वत्थं होइ किंचि सलिलं वा । एसेव यदिट्ठतो, दंसणमोहमम्मि तिविहम्मि ॥
२९
वृ-यथा किञ्चिद् वस्त्र सलिलं वा मलिनं भवति, किञ्चिद् 'दरशुद्धम्' ईषद्विशुद्धम्, किञ्चित् शुद्धम् । एष एव दृष्टान्तो दर्शनमोहे त्रिविधे भावनीयः- तदप्यपूर्वकरणवशात् किञ्चित् शुद्धं सम्यकत्वरूपम्, किञ्चिदीषद्विशुद्धं सम्यग्मिथ्यात्वरूपम्, किञ्चित्तथैव मलिनं मिध्यात्वरूपं स्थितमिति भावः ।। अत्राह कथमभव्यास्तस्मिन् ग्रन्थिदेशेऽवतिष्ठन्ते ? कथं वा ततः प्रतिपतन्ति ? भव्या वा कथं ग्रन्थि विभिद्य ततः परतो गच्छन्ति ? उच्यते-पिपीलिकाध्ष्टान्तात् । तमेवाह[भा. १००] अहभावेण पसरिया, अपुव्वकरणेण खाणुमारूढा । चिट्ठति तत्थ काई, पिपीलिया काइ उड्डुंति ॥
वृ- काश्चित्पिपीलिकाः 'यथाभावेन' अनाभोगतः 'प्रसरिताः' बिलान्निर्गत्य इतस्ततो गन्तुं प्रवृत्ताः । काश्चित्पुनरपूर्वकरणेन स्थाणुमारूढाः । तासामपि मध्ये काश्चित् 'तत्र' स्थाणावेव तिष्ठन्ति याः पक्षविहीनाः । काश्चित्सञ्जातपक्षास्ततः 'उड्डयन्ते' ऊर्ध्वमाकाशेन गच्छन्ति ॥ [ भा. १०१] पञ्चोरुहणट्ठा खाणुआतो चिट्ठति तत्थ एवावि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org