________________
३०
बृहत्कल्प-छेदसूत्रम् -१
पक्खविहूणातो पिवीलियातो उड्डुंति उ सपक्खा ।।
वृ- उत्तरार्द्धस्यैव व्याख्यानार्थमनन्तरगाथा “पञ्च्चोरुहणट्टा' इत्यादि । काश्चित् पक्षविहीनाः पिपीलिकाः स्थाणोःप्रत्यवरोहणार्थं 'तत्रैव' स्थाणावेव तिष्ठन्ति, अपिशब्दात् प्रत्यवरोहन्ति च । यास्तु सपक्षास्ता उड्डीयन्ते । इह पिपीलिकानामितस्ततः प्रसरणं यथाप्रवृत्तकरणतः, स्थाण्वारोहणमपूर्वकरणतः, उड्डयनमनिवृत्तिकरमेन; एवमत्तापि ग्रन्थिदेशगमनं यथाप्रवृत्तिकरणेन, ग्रन्थिभेदनमपूर्वकरणतः स्थित्वा च ततः प्रत्यवतीर्णा, तथा कोऽपि मन्दाध्यवसायतया तीव्रविशोधिरहितोऽपूर्वकरणेन ग्रन्थिभिदामाधातुमुद्यतः समुच्छलितघनरागद्वेषपरिणामस्तत्रैव तिष्ठति, स्थित्वा च पुनः पश्चात्ततः प्रतिनिर्वर्त्तते ।। अत्रैवार्थे पुरुषदृष्टान्तमाह[ भा. १०२] जह वा तिन्न मनूसा, सभयं पंथं भएण वच्चंता । वेलाइकमतुरिया, वयंति पत्ता य दो चोरा ॥
वृ- वाशब्दो दृष्टान्तान्तरसमुच्चये । यथा त्रयो मनुष्याः सभयं पन्थानं भयेन पाठान्तरं क्रमेणं व्रजन्तः 'वेलातिक्रमत्वरिताः' सन्ध्यासमापतनेन गमनवेलातिक्रमतस्त्वरमाणा व्रजन्ति । अत्रान्तरे चोभयपार्श्वतः प्राप्ती पाणिकृपाणकरालौ द्वौ चौरौ तौ च हक्कयन्तावेवमाक्षिपतः क यास्यथ यूयम् ? मरणमेव युष्माकमिदानीं समापतितमिति ॥
[ भा. १०३] तत्थेगो उ नियत्तो, एगो थद्धो अतिच्छितो एक्को । कमगति अहापवत्तं, भिन्नेयर धावणं तइए ॥
वृ- तत्र 'एकः' पुरुषस्तौ समापतन्तौ दृष्ट्वा प्रथमएव निवृत्तः । 'एकः' पुनर्द्वितीयो हक्काश्रवणत उद्गीर्णकृपाणदर्शनतश्च भयेन 'स्तब्धः ' तत्रैव स्थितः । 'एकः' तृतीयः पुनः परमसाहसिकः प्रत्युद्गीर्णखङ्गस्तौ द्वावपि चौरौ पश्चात्कृत्य तत्स्थानमतिक्रान्तः । इह या त्रयाणामपि पुरुषाणां प्रथमतः क्रमेण गति सा यथाप्रवृत्तिकरणम्, यत् पुनस्तद्भयं भिन्नं तद् 'इतरद्' अपूर्वकरणम्, यत्तु ततः परतो धावनं तत् 'तृतीये' अनिवृत्ताख्ये करणे द्रष्टव्यम् || तदेवं दृष्टान्तद्वयमभिधाय साम्प्रतमुपनयन्नाह
[भा. १०४ ] एवं संसारीणं, जोए सव्वाइं तिन्नि करणाई ।
"
भवसिद्धिसलद्धीण य, पंखालपिवीलिया उवमा ॥
वृ- 'एवम्' अमुना दृष्टान्तगतेन प्रकारेण यानि त्रीणि करणानि प्रागभिहितानि तानि सर्वाणि संसारिणां योजयेत् । तत्र पिपीलिका द्दष्टान्तमधिकृत्य प्रागेव योजिताः । नवरं याः पक्षवत्यः पिपीलिका उक्तास्ताभिरुपमा भवसिद्धिसलब्धिकानां द्रष्टव्या । भवैः सिद्धिर्येषां ते भवसिद्धिकाः कतिपयभवमोक्षगामिन इत्यर्थः, तेऽपि कदाचित् प्रतिपतन्ति तत आह-सलब्धिउत्तरोत्तरविशुद्धाध्यवसायप्राप्तिर्येषां ते सलब्धिकाः, ततो विशेषणसमासस्तेषाम् । किमुक्तं भवति ? -सपक्षपिपीलिका इव केचित् संसारिणो भवसिद्धिकाः सलब्धिकाः स्थाणोरिव ग्रन्थिदेशादपि परतो गच्छन्ति, केचित् पुनरभव्या भव्या वा केचन पक्षविहीनपिपीलिका इव स्थाणोरिव ग्रन्थिदेशात् प्रतिपतन्ति । पुरुषध्ष्टान्तमधिकृत्यैवं योजना- पुरुषस्थानीयाः संसारिजीवाः, कर्मक्षपणस्थानीयः पन्थाः, भयस्थानीयो ग्रन्थि, द्वौ चौरौ राग द्वेषौ यस्तु मन्दपराक्रमो न पुरतो न मार्गतः किन्तु भयेन तत्रैव स्थितस्तत्सध्शो ग्रन्थिदेशे वर्त्तमानो भव्योऽभव्यो वा, स च तत्र सङ्घयेयमसङ्घयेयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org