SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् - १ क्षीणमोहाः क्षीणं मोहनीयमित्यक्षीणसप्तप्रकृतिकाः, सयोग्य ऽयोगिकेवलिनः क्षीणघातिकर्माणः ।। अथ कस्य कर्मण उत्कृष्टायां स्थितौ कस्य नियमत उत्कृष्टा स्थिति ? कस्य वा भजनया? इति, अत आह २८ [भा. ९२] आउयवज्जा उठिई, मोहोक्कोसम्म होइ उक्कोसा । मोहविवकोसे, मोहो सेसा य भइयाउ ॥ वृ- 'मोहोत्कर्षे' मोहनीयस्योत्कृष्टायां स्थितौ सत्यां नियमत आयुर्वर्जयित्वा शेषाणां कर्मणामुत्कृष्टा स्थितिर्भवति । मोहविवर्जस्य-ज्ञानावरणीयादेरुत्कर्षे - उत्कृष्टायां स्थिती 'मोहः’ मोहनीयं शेषाश्च प्रकृतयः 'भक्ताः' विकल्पिताः कदाचिदुत्कृष्टस्थितिका भवन्ति कदाचिन्नेति भावः । तत्र सर्वेषां कर्मणामुत्कृष्टस्थितौ वर्त्तमानः प्रबलमोहाच्छादितत्वान्न किमपि सम्यग्दर्शनं लभते, उक्तञ्च अह वि पगडीणं, उक्कोसठिईए वट्टमाणो उ । भति सम्मद्दंसण, मिच्छत्तेणं विमोहाओ ॥ किन्तु सप्तानामायुर्वर्जानामभ्यन्तरकोटीकोटयां वर्त्तमानाः । तथा चाह[ भा. ९३०] अंतिमकोडाकोडीए होइ सव्वासि कम्मपगडीणं । पलिया असंखभागे, खीणे सेसे हवइ गंठी ॥ वृ- आयुर्वर्जानां सर्वासां कर्मप्रकृतीनामन्तिमायां कोटीकोट्यां स्थितायां तत्रापि पल्योपमस्यासङ्घयेयतमे भागे क्षीणे शेषे स्थितिदलिके सति सम्यग्दर्शनलाभो भवति । केवलं तदानीं सम्यग्दर्शनलाभान्तरायभूतः कर्कश - घन- रूढ - गुपिलवल्कग्रन्थिरिव दुर्भेदो घनरागद्वेषपरिणामरूपो ग्रन्थिर्भवति, ततस्तस्मिन् भिन्ने प्रतिपत्तव्यः ॥ तस्य च भेदः करणवशात्, अतः करणवक्तव्यतामाह [भा. ९४] तिविहं च होइ करणं, अहापवत्तं तु भव्व-ऽभव्वाणं । भवियाण इमे अन्ने, अपुव्वकरणाऽनियट्टी य ॥ वृ- 'करणं' नाम परिणामविशेषः । तत् 'त्रिविधम् ' त्रिप्रकारं भवति । तद्यथा- प्रथमं यथाप्रवृत्ताख्यं भव्यानामभव्यानां च साधारणम् । भव्यानां पुनः इमे द्वे अन्ये करणे, अपूर्वकरणम् 'अनिवृत्तिश्च' अनिवृत्तिकरणं च । साम्प्रतमेतेषामेव त्रयाणां करणानां कालविभागमाहजागंठी ता पढमं गठिं समतिच्छतो अपुव्वं तु । [भा. ९५] अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥ वृ- यावद् ग्रन्थिस्तावत् 'प्रथमम्' यथाप्रवृत्ताख्यं करणम् । ग्रन्थि 'समतिक्रामतः ' भिन्दानस्येत्यर्थः पुनः ‘अपूर्वम्' अपूर्वकरणम् । अनिवृत्तिकरणं तु सम्यक्त्वं पुरुस्कृतं येन स सम्यक्त्वपुरस्कृतः तस्मिन् जीवे, सम्यक्त्वाभिमुखे इत्यर्थः ॥ अथ यावद्वन्थिस्तावन्निर्गुणस्य सतः कथं कर्मराशेः क्षपणम् ? उच्यते - गिरिसरिव्यस्तरध्ष्टान्तात् । ततस्तमेव दृष्टान्तं तत्प्रसङ्गतः शेषकरणयोरपि दृष्टान्तानभिधित्सुर्द्वारगाथामाह [भा. ९६] नदि पह जर वत्थ जले, विवीलिया पुरिस कोद्दवा चेव । सम्मद्दंसणलंभे, एते अट्ठ उ उदाहरणा ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy