SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. ८७] २७ कुत्सितसंज्ञकत्वात् ।। तदेवमुक्तं संज्ञिश्रुतमसंज्ञिश्रुतं च । सम्प्रति सम्यकश्रुत - मिध्याश्रुते द्वे अपि युगपदाह[भा. ८८] अंगा-नंगपविट्टं, सम्मसुयं लोइयं तु मिच्छसुयं । आसज्ज उ सामित्तं, लोइय लोउत्तरे भयणा ।। वृ- स्वरूपेण लोकोत्तरिकम् अङ्गा ऽनङ्गप्रविष्टं सम्यकश्रुतम्, लौकिकं मिथ्याश्रुतम् । स्वात्वमासाद्य पुनर्लोकिके लोकोत्तरे च 'भजना' लौकिकमपि कदाचित् सम्यकश्रुतं लोकोत्तरमपि मिथ्या श्रुतमित्यार्थः । तथाहि - लौकिकमपि सम्यग्धष्टिपरिगृहीतं सम्यकश्रुतम्, मिथ्याष्टिपरिगृहीतं लोकोत्तरमपि मिथ्या श्रुतमिति ।। अथ येन सम्यक्त्वेन परिगृहीतं सम्यकश्रुतं भवति तत् किंप्रत्ययम् ? अत आह [भा. ८९] आभिनिबोहमवायं, वयंति तप्पच्चयाउ सम्मत्तं । जा मनपजवनाणी, सम्मद्दिट्ठी उ केवलिणो ॥ व्र- 'आभिनिबोधिकः' आभिनिबोधिकभेदो योऽपायो यद्वशाद् यथावस्तितार्थविनिश्चयस्तं सम्यक्त्वस्य प्रत्ययं वदन्ति पूर्वरयः, सम्यग्ज्ञाने सम्यक श्रद्धानभावात् । 'तव्यत्ययाच्च' अपायप्रत्ययाच्च सम्यकत्वं तावदवसेयं यावन्मनः पर्यायज्ञानिनः, ततः परमपायस्याभावात् । केवलिनः केवलज्ञानप्रत्ययादेव सम्यग्दृष्टयः ॥ अथ तत् सम्यग्दर्शनं कतिविधम् ? अत आह[भा. ९०] उवसमियं सासायणं, खओवसमियं च वेदगं खइयं । सम्मत्तं पंचविहं, जह लब्भइ तं तहा वोच्छं । वृ- सम्यक्त्वं पञ्चविधम् । तद्यथा-औपशामिकं सासादनं क्षायोपशमिकं वेदकं क्षायिकं च । एतत् पञ्चप्रकारमपि यथा लभ्यते तथा वक्ष्यामि ।। तदेवाहबंधीपमाणं, सामित्तं चेव सव्वपगडीणं । [भा. ९१] को केवइयं बंधइ, खवेइ वा कित्तियं कोइ ॥ वृ-सम्यकत्वं कर्मणां क्षयत उपशमतः क्षयोपशमतश्चोपजायते । क्षयादयश्च त्रयः प्रकारा बद्धानां कर्मणां नाबद्धानामिति प्रथमतो बन्धतः स्थितिप्रमाणं जघन्यत उत्कर्षतश्च वक्तव्यम्, तचैवम् ज्ञानावरण-दर्शनावरण- वेदनीयाऽन्तरायाणां त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टं स्थितिपरिमाणम्, मोहनीयस्य सप्ततिसागरोपमकोटीकोटयः, नाम- गोत्रयोविंशतिसागरोपमकोटीकोटयः, आयुषस्त्रयस्त्रिंशत्सागरोपमाणि; तथा जघन्यं वेदनीयस्य द्वादश मुहूर्त्ताः, नामगोत्रयोरटी, शेषाणामन्तर्मुहूर्तम् । तथा सर्वप्रकृतीनां सत्तामधिकृत्य स्वामित्वं वक्तव्यम्, तच्चैवम्मिथ्याध्ष्टि-सास्वादन-मिश्रा-ऽविरतसम्यग्दृष्टि-देशविरत प्रमत्ता ऽप्रमत्ता ऽपूर्वकरणाऽनिवृत्तिबादर- सूक्ष्मसम्परायो - पशान्तमोहा अष्टानामपि प्रकृतीनां स्वामिनः, मोहनीयवर्णानां सप्तानां क्षीणमोहाः, वेद्या-ऽऽयु-र्नाम - गोत्राणां सयोग्य ऽयोगिकेवलिनः । तथा कः कियद्बध्नाति ? इति वक्तव्यम्, तत्र - मिथ्यादृष्टयोऽप्रमत्तान्ताः सप्तविधबन्धका वाऽष्टविधबन्धका वा, अपूर्वकरणाऽनिवृत्तिबादराः सप्तविधबन्धकाः, सूक्ष्मसम्परायाः षड्विहधबन्धकाः, उपशान्तमोहक्षीणमोहसयोगिकेवलिनः सातवेदनीयैकबन्धकाः, अबन्धका अयोगिकेवलिनः । तथा को वा कियत् क्षपयति ? इति वक्तव्यम्, तत्र-मिथ्यादृष्टय उपशान्तमोहपर्यन्ता अक्षीणाष्टप्रकृतिकाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy