SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २६ बृहत्कल्प-छेदसूत्रम् -१ इय होति असन्नीणं, उवलंभो इंदिया जेसिं ॥ वृ- ‘अथवा’ इति दृष्टान्तस्य प्रकारान्तरोपदर्शने । मूर्च्छिते मत्ते प्रसुप्ते वा यथा अव्यक्त उपलम्भो भवति 'इति' एवं यति येषामिन्द्रियाणि तेषामसंज्ञिनां ततिविध उपयोगः स्फुटो भवति ॥ अथ तुल्ये चेतनत्वे किमिति संज्ञिनां प्रागल्भ्येन प्रागलभ्येन चैतन्यम् ? अव्यक्तमसंज्ञिनाम् ? इति, अत आह [भा. ८३] तुल्ले छेयणभावे, जं सामत्थं तु चक्करयणस्स । तं तु जहक्कमहीणं, न होइ सरपत्तमादीणं ॥ वृ- यथा तुल्ये 'छेदनभावे' छेदनत्वे यत् सामर्थ्य चक्ररलस्य तद् यथाक्रमहीनं, हेतौ प्रथमा, यथाक्रमहीनत्वात् शरपत्रादीनाम्, आदिशब्दाद्दर्भादिपरिग्रहः, न भवति ॥ एवं मनविसईणं, जा पडुया होइ उग्गहाईसु । तुल्ले चेयणभावे, न होइ अस्सण्णिणं सा तु ॥ [भा. ८४] वृ. एवम् 'मनोविषयिणां' मनोग्राह्यो विषयो येषामस्ति ते मनोविषयिणस्तेषाम् अवग्रहादिषु या पटुता भवति सा तुल्येऽपि चेतनभावे न भवत्यसंज्ञिनाम्, मनोद्रव्यलब्ध्यभावात् ॥ उक्तः कालिक्युपदेशेन संज्ञी असंज्ञी च । अधुना हेतूपदेशतस्तमाह [भा. ८५] जेसि पवित्ति - निवित्ती, इट्ठा ऽ निट्टेसु होइ विसएसु । ते उवाउ सन्नी, वेहम्मेणं घडो नायं ॥ वृ- 'येषां' द्वीन्द्रियादीनां इष्टेषु विषयेषु प्रवृत्ति अनिष्टेषु निवृत्ति ते हेतुवादतः संज्ञिनः । अत्र वैधम्येर्ण ‘ज्ञातं' दृष्टान्तो घटः, अनेन प्रयोगः सूचितः । स चायम्-द्वीन्द्रियादयः संज्ञिनः, इष्टा ऽनिष्टविषयेषु यथाक्रमं प्रवृत्ति निवृत्तिदर्शनात्, पुरुषवत् ये तु न संज्ञिनस्तेषामिष्टाऽनिष्टविषयेषु प्रवृत्ति - निवृत्ती, तस्मादसंज्ञिनस्त इति । उक्तो हेतुवादतोऽपि संज्ञी असंज्ञी च । सम्प्रति दृष्टिवादोपदेशेनोच्यते-ये सम्यग्दृष्टयस्ते दृष्टिवादोपदेशेन संज्ञिनः, शेषाः सर्वेऽपि मिथ्याध्योऽसंज्ञिनः । उक्तञ्च सम्मद्दिट्ठी सन्नी, दिट्ठीवायरस होंति उवएसा । सेसा होंति असन्नी, कालिय तह हेउसन्नी य ॥ ननु सम्यग्ज्ञानं मिथ्याज्ञानं च द्वे अपि क्षायोशमिके, ततः कस्मादेकः संज्ञी अपरोऽसंज्ञी इति, अत आह [भा.८६] होइ असीला नारी, जा खलु पतिणो न रक्खए सेज्जं । तंपि यहु होति सीलं, असोहणं तेन उ असीला ॥ वृ- या खलु लोके नारी पत्युः शय्यां न रक्षति सा भवत्यशीला, यतो यद्यपि 'तदपि' पत्युः शय्याया अरक्षणं शीलं तथापि तदशोभनमिति कृत्वा सा अशीला ॥ [भा. ८७] एवं खओवसमिएष जे वट्टंते उ नाणविसयम्मि । ते खलु हवंति सण्णी, अण्णाणी होंति अस्सण्णी ।। वृ- एवं तुल्येऽपि क्षायोपशमिके भावे ये 'ज्ञानविषये' सम्यग्ज्ञाने वर्तन्ते ते संज्ञिनः, ‘सम्यग्ज्ञानं संज्ञा, सा येषामस्ति ते संज्ञिनः' इति व्युत्पत्तेः । ये त्वज्ञानिनस्तेऽसंज्ञिनः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy