________________
पीठिका - [भा.७६]
२५
विवक्षितार्थप्रतिपत्तिर्भवात, नच तदक्षरात्मकम्, अताऽनक्षरश्रुतम्। तत्रयथाऽनक्षरादप्यर्थप्रतिपत्तिरुपजायते तथा निदर्शनेन प्रतिपादयति[भा.७७] टिट्टि त्ति नंदगोवस्सबालिया वच्छए निवारेइ ।
टिट्टित्ति य मुद्धडए, सेसे लट्ठीनिवाएणं ।। वृ- नन्दगोपस्य बालिका क्षेत्रादिकं रक्षन्ती 'वत्सकान्' बालगोरूपान् ‘टिट्टि' इति अनुकरणानुरूपमनुकार्यमुच्चरन्ती निवारयति। तथा ये मुग्धाः-हरिणादयः तानपि 'टिट्टे' इत्येवं निवारयति । 'शेषांस्तु' षण्डप्रभृतीन् यष्टिनिपातेन निवारयति । अत्र 'टिट्टि' इत्येतदनक्षरमपि वत्सादीनां प्रतिषेधलक्षणार्थप्रतिपत्तिहेतुरुपजायत इत्यनक्षरश्रुतं निदर्शितम् । एवं शेषमपि भावनीयम् । उक्तमनक्षरश्रुतम् ॥अधुना संज्ञिश्रुतमाह[भा.७८] सन्नाणेणं सण्णी, कालिय हेऊ य दिट्ठिवाए य ।
आदेसा तिन्नि भवे, तेसिंच परूवणा इणमो॥ वृ-संज्ञानेन संज्ञी, 'संज्ञानं संज्ञा, सा यस्यास्ति स संज्ञी' इति व्युत्पत्तेः । तत्र तत्र आदेशा भवन्ति, तद्यथा-“कालिय"ति पदैकदेशेपदसमुदायोपचारात कालिक्युपदेशेन हेतूपदेशेन दृष्टिवादोपदेशेन च ।। तत्र कालिक्युपदेशेन संज्ञा यस्य ईहा-ऽपोह-मार्गण-गवेषणादयो मनोव्यापारास्ते कथं भवन्ति? इत्यत आह[भा.७९] खंधेऽनंतपसे, मणजोगे गिज्झ गणणतोऽनंते।
तल्लद्धि मणेति तहा, भासादव्वे व भासते॥ वृ-यथा भाषालब्धिसमेतो भाषाद्रव्याण्युपादायभाषते, तथा तस्मिन्-मनसि लब्धिर्यस्य सः 'तल्लब्धि' मनोलब्ध्युपेतो मनोयोग्यान् स्कन्धाननन्तप्रदेशान् ‘गणनया' सङ्ख्यानेनानन्तान् गृहीत्वा मनुते । किमुक्तंभवति ? -तैर्मनोद्रव्यैरीहा-ऽपोह-मार्गणातस्तांस्तान् भावान्जानाति।। कथम्? इत्याह[भा.८०] रूवे जहोवलद्धी, चक्खुमतो दंसिए पगासेण |
इय छव्विहमुवओगो, मनदव्वपगासिए अत्थे । वृ-यथाचक्षुष्मतः ‘रूपे घटादौ प्रकाशेन' प्रदीपादिना ‘दर्शिते प्रकाशितेचक्षुषा उपलब्धिः 'इति' एवम्-उक्तेन प्रकारेण मनोद्रव्यैः प्रकाशिते-मनितेऽर्थे 'षड्विधः' शब्द-रूप-रसगन्धस्पर्शाऽतीता ऽनागतभावविषयः स्पष्टतर उपयोगो भवति । यश्चईहा-ऽपोहादिकरणतः स्पष्टतर उपयोगः सदीर्घकालिक्युपदेशेन संज्ञिश्रुतम् । यस्यतु मनोद्रव्याभावतो नेहादि सोऽसंज्ञी।। अथ मनोद्रव्याभावे कथमसंज्ञिनामावगमः ? तत आह[भा.८१] एसेव य दिर्सेतो, नातिफुडे खलु जहा पगासेणं।
होउवलद्धी रूवे, असण्णीणं तहा विसए॥ वृ-'एष एव' चक्षुर्लक्षणो दृष्टान्तोऽसंज्ञिनोऽर्थावगमे द्रष्टव्यः । यथा खलु चक्षुष्मतो रूपे 'प्रकाशेन' प्रदीपादिना मन्दतया नातिस्फुटे प्रकाशितेउपलब्धिर्मन्दा भवति तथा 'विषये' शब्दादौ असंज्ञिनां विशिष्टमनोद्रव्यलब्ध्यभवे उपयोगो मन्दो भवति ।। अथवाऽन्यो दृष्टान्तः
[भा.८२] अहवा मुच्छित मत्ते, पासुत्ता वा वि होइ उवलंभो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org