________________
२४
बृहत्कल्प-छेदसूत्रम् -१ज्ञानक्षरमुच्यते । कथमेतदवसीयते 'न कदाचिदपि ज्ञानं जीवात् क्षरति' ? इति, अत आह'तस्य' अक्षरस्यानन्तभागोऽतिप्रबलेनापि ज्ञानावरणोदयेनसंसारस्थानांसर्वजीवानांनाऽऽवियते। उक्तञ्च-सव्वजीवाणं पिय णं अक्खरस्स अनंतो भागो निच्चुग्घाडिओ इति । नित्योद्घाटो नाम नित्यापावृतः ।। केन पुनराच्छाद्यते येन ज्ञानस्यानन्तभागो नित्यापावृतः? इत्याह[भा.७३] एक्केको जियदेसो, नाणावरणस्स हुंतऽनंतेहिं ।
अविभागेहाऽऽवरितो, सव्वजियाणं जिने मोत्तुं॥ वृ-'जिनान्' केवलज्ञानिनोमुक्त्वा शेषाणां सर्वजीवानाम् एकैको जीवप्रदेशोज्ञानावरणीयस्य कर्मणोऽनन्तैः ‘अविभागैः' अविभागपरिच्छेदैः, येषांततोऽप्यधो विबागः कर्तुंन शक्यते तेऽविभागपरिच्छेदाः, नैरावृतः ॥ यद्येवं कथमनन्तभागो ज्ञानस्य नित्यापावृतः ? इत्याह[भा.७४] जति पुन सो वि वरिज्जेज तेन जीवो अजीवयं गच्छे ।
सुटु वि मेहसमुदए, होति पभा चंद-सूराणं॥ वृ-यथा 'सुष्ट्वपि' अतिशयेनापि मेघसमुदये जाते तथास्वभावत्वात् चन्द्र-सूर्याणांप्रभा भवति, तथा प्रत्यक्षत उपलब्धेः; एवमेकैकस्य जीवप्रदेशस्यानन्तैर्ज्ञानावरणाविभागपरिच्छेदैरावणेऽपितथास्वभावत्वाद्ज्ञानस्यानन्तभागोनित्योद्घाटितएव। यदि पुनः सोऽप्याव्रियेत तत एकान्ततो निश्चेतनत्वाज्जीवः ‘अजीवतां गच्छेत्' अजीवो भूयात्, घटवत्॥ननु कथमुच्यते 'अनन्तभागो नित्योद्घाटः' ? याता समस्ति पृथिव्यादीनां सर्वथा ज्ञानमावृतम्, अत आह[भा.७५] अव्वत्तमक्खरं पुन, पंचण्ह वि थीणगिद्धिसहिएणं ।
नाणावरणुदएणं, बिंदियमाई कमविसोही। वृ-'पञ्चानामपि' पृथिवीकायिकादीनां वनस्पतिकायपर्यन्तानां स्त्यानगृद्धिनिद्राहितेन ज्ञानावरणोदयेन ‘अक्षरं ज्ञानम् 'अव्यक्तं' सुप्त-मत्त-मूर्छितादेरिवास्फुटम्, अतो न तत्रापि सर्वथा ज्ञानमावृतम्, तथापि पृथिवीकायिकानामत्यस्फुटम्, ततऽप्कायिक-तेजस्कायिकवायुकायिकवनस्पतिकायिकानांक्रमेण विशुद्धतरम्। इदंचूर्णिकारवचनाल्लिखितम्।ततः क्रमेण द्वीन्द्रियादावक्षरस्य विशुद्धिस्तावद्दष्टव्या यावदनुत्तरोपपातिनाम्, ततोऽपि चतुर्दशपूर्विणाम् । उक्तञ्च
तं चिय विसुज्झमाणं, बिंदियमादी कमेण विन्नेयं ।
जा होतऽनुत्तरसुरा, सव्वविसुद्धं तु पुव्वधरे ॥ वृ- इह यद्यपि प्रागक्षरं सर्वाकाशप्रदेशेभ्योऽनन्तगुणं केवलभिप्रेतम्, नित्यापावृतोऽप्यनन्तभागस्तस्यैव, तथापि केवलज्ञानस्येव श्रुतज्ञानस्याप्यनन्तभागो नित्यापावृत इति तेनान्ते योजना कृता । उक्तमक्षरश्रुतम् । इदानीमनक्षरश्रुतमाह[भा.७६] ऊससियं नीससियं, निच्छूढ़ खासियं च छीयं च ।
निसिंधियमनुसारं, अनक्खरं छेलिआदीयं ॥ वृ-ऊर्ध्वं श्वसनमुच्छ्वसितम्, अधः श्वसनं निश्वसितम्, निष्ठ्यूतंकासितं क्षुतंनिस्सिचितं चप्रतीतम्, ‘अनुस्वारम्' अनुस्वारवत्, ‘अनक्षरम्' 'शेण्टितम्' गोपजनस्य प्रतीतम्।आदिशब्दाद् जृम्मितमणितादिपरिग्रहः । एतद् ‘अनक्षरम्' अनक्षरश्रुतम् । उच्छसितादिभ्योऽपि हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org