________________
पीठिका - [भा. ६८]
२३
जा बायरो जहन्नो, अनंतहानीए हायंता ।। वृ- ते गुरुलघुपर्यायाः प्रज्ञाच्छेदनकेनाऽगुरुलघुपर्यायेभ्यः 'व्युत्कृष्य' पृथक् कृत्वा सर्वोत्कृष्टाद्बादरस्कन्धादधस्तनेषु बादरस्कन्धेष्वनन्तगुणहान्याहीयमानास्तावद्रष्टव्यायावज्जघन्यो बादरस्कन्धः, अगुरुलघुपर्यायास्तुक्रमेणानन्तगुणवृध्या प्रवर्धमानाः । ततः परंसूक्ष्मानन्तप्रदेशादिषु स्कन्धेषु केवला अगुरुलघुपर्याया एव क्रमेणानन्तगुणवृध्या प्रवर्धमाना द्रष्टव्याः, ते च तावद् यावत् परमाणवः । उक्तञ्च
तेन परं सुहुमाओ, अनंतवुड्डीए नवर वटुंता ।
अगुरुलहो च्चिय केवल, जा परमाणू य ता नेया॥ वृ-तदेवं पर्यायपरिमाणमप्यल्पबहुत्वेन चिन्तितम् । साम्प्रतमरूपिद्रव्यं चिन्त्यते। तच्चतुर्धा, तद्यथा-धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः जीवास्तिकायश्च । एतेषां किमगुरुलघुपर्यायपरिमाणम् ? अत आह[भा.६९] केन हवेज विरोहो, अगुरुलहूपज्जवाण उ अमुत्ते।
अच्चंतमसंजोगो, जहियं पुन तव्विवक्खस्स । वृ-'अमूर्ते' धर्मासित्कायादौ 'तद्विपक्षस्य' गुरुलघुपर्यायजातस्य ‘अत्यन्तम्' एकान्तेन 'असंयोगः' अघटना तत्रागुरुलघुपर्यायाणां केन ‘विरोधः' विनाशनं भवेत् ? नैव केनचित् । ततः केनापि विनाशाभावात् सदैव प्रतिप्रदेशमनन्तां अगुरुलघुपर्यायाः॥तथा चाऽऽह[भा.७०] एवं तु अनंतेहिं, अगुरुलहूपज्जवेहिं संजुत्तं ।
__ होइ अमुत्तं दव्वं, अरूविकायाण उ चउण्हं । वृ-एवं तु सति चतुर्णामपि 'अरूपिकायानाम्' अरूपिणामस्तिकायानां धर्मास्तिकायप्रभृतीनामेकैकाख्यं यदमूर्त्तद्रव्यं तद् भवति प्रत्येकमनन्तैरगुरुलघुपर्यायैः संयुक्तम् ।।
तदेवं भावित एकैक आकाशप्रदेशोऽनन्तैरगुरुलघुपर्यवैरुपेतः । सम्प्रति यथा ज्ञानं सर्वाकाशप्रदेशेभ्योऽनन्तगुणं भवति तथा दर्शयति[भा.७१] उवलद्धी अगुरुलहू, संजोग-सरादिणो य पञ्जाया।
एतेण हुंतऽनंता, सव्वागसप्पएसेहिं ।। वृ-चतुर्णामप्यस्तिकायानांपुद्गलास्तिकायस्य च ये अगुरुलघवः पर्यायाः, उपलक्षणमेतत्, बादरस्कन्धानां गुरुलघुपर्यायाश्च, यावन्तश्चाक्षरेषु स्वरूपतोऽभिलाप्यभेदतो वा संयोगाः, यैश्चोदात्तादिभिस्वैररभिलाप्यन्तेभावाः, आदिशब्दाद्येचान्ये शकुनरुतादिगताः स्वरविशेषाः, येच जीव-पुद्गलगताश्चेष्टाविशेषास्ते सर्वेऽपि गृह्यन्ते, एतेषां सर्वेषामप्यपलब्धिर्भवति । न च येन स्वभावेनैकस्य तेनैवान्यस्य किन्तु भिन्नेन । तत एतेन प्रकारेण ज्ञानस्य स्वभावाः सर्वाकाशप्रदेशेभ्योऽनन्तगणाः ।। तदेवमुक्तं सर्वाकाशप्रदेशेभ्योऽनन्तगुणं ज्ञानम् ।
इदानीं यथा तदक्षरमुच्यते तथा भावयति[भा.७२] नाणं तु अक्खरंजेन खरति न कयाइ तंतुजीवातो।
तस्स उ अनंतभागो, न वरिजति सव्वजीवाणं ॥ वृ-'येन' कारणेन न कदाचिदपि 'तद्' ज्ञानं जीवात् 'क्षरति' भ्रंशमुपयाति तेन कारणेन
Jain Education International
For Print
For Private & Personal Use Only
www.jainelibrary.org