________________
३०४
बृहत्कल्प-छेदसूत्रम् -१-१/६ ग्रहीतुं न शक्नोति तदा यदि सम्यग्दर्शनमनुपदिश्य मद्य-मांसविरतिं कथयति तदा चत्वारो गुरवः तपसा लघवः कालेन गुरवः । यदा सम्यग्दर्शनमप्यङ्गीकर्तुं न शक्यते तदा यदि मद्य-मांसविरतिमप्ररूप्यैहिकमामुष्मिकं वा तद्विरतिफलं कथयति तदाऽपि चत्वारो गुरवः तपसा कालेन च लघवः । “चउजमला कालगा चउरो" त्ति चत्वारि यमलानि तपः-कालयुगललक्षणानि येषु ते चतुर्यमलाः, चत्वारः कालकाश्चत्वारश्चतुर्गुरुका इत्यर्थः, आज्ञाभङ्गादयश्च दोषाः ।। अपि च[भा.११४०] जीवा अब्मुहिता, अविहीकहणाइ रंजिया संता।
अभिसंछूढा होंती, संसारमहन्नवं तेनं ॥ वृ- ते जीवाः प्रव्रज्यायामभ्युत्तिष्ठन्तोऽपि तदीयया अबिधिकथनया रञ्जिताः सन्तश्चिन्तयन्ति- यदि श्रावकधर्मेणापि कामभोगान् भुञ्जानैः सुगतिरवाप्यते ततः किमनया सिकताकवलनिरास्वादयाप्रव्रज्यया? एवं यदिसम्यगदर्शनमात्रेणापि सुगतिरासाद्यते तर्हि को नामात्मानं वितिश्रङ्खलायां प्रक्षेप्स्यति? इत्यादि; एवं ते विपरिणामिताः प्रव्रज्यामगृह्णन्तः षट् कायान् विराधयेयुः, अतः 'तेन' कथकेन संसारमहार्णवम् अभि-आभिमुख्येन प्रक्षिप्ता भवन्ति, चिरेण मुक्तिपदप्राप्तेः ॥ [भा.११४१] एसेव य नून कमो, वेरग्गगओन रोयए तं च ।
दुहतोय निरनुकंपा, सुणि-पयस-तरच्छअदुवमा॥ वृ-तेजीवा इत्यं चिन्तयेयुः-नूनमेष एवात्र ‘क्रमः' पारिपाटियत्पूर्वं श्रावकधर्मं स्पृष्ट्वा पश्चाद् यतिधर्मप्रतिपद्यते, अथवा पूर्वं सम्यग्दर्शनमात्रमुररीकृत्य ततो देशविरतिरुपादीयते, यद्वा मद्य-मांसविरतिं स्पृष्टवा पश्चात् सम्यकत्वं गृह्यतेइति । स चारम्भबहुलतया गृहवासस्योपरि वैराग्यमुपगतः प्रव्रज्यां प्रतिपत्तुमायातः, स च धर्मकथी श्राद्धधर्मं प्ररूपयितुंलग्नः, तं चासौ वैराग्याधिरूढमानसत्वाद्न रोचयति, ततो विपरिणम्य तच्चन्निकादिषु गच्छेत् । ते चैवमविधिना धर्मं कथयन्तः 'द्विधाऽपि निरनुकम्पाः' षण्णांकायानांतस्यचोपर्यनुकम्पारहिताः। “सुणि"त्ति वीरशुनिकाष्टान्तः-यथा सा वीरशूनिका पूर्वमासमालैः परिखेदिता पश्चात् सद्भूतमपि नेच्छति, एवमत्रापि पूर्वं श्राद्धधर्मे कथिते पश्चाद् यलतोऽभिधीयमानमपि श्रममधर्ममसौन प्रतिपद्यते। तथा “पयस"त्ति यथा कस्यापिप्राघूर्णकस्यपूर्ववासितभक्तं दत्तंततःस उदरपूरंतद्भुक्तवान्, पश्चाद् घृत-मधुसंयुक्तं पायसमपिदीयमानंतस्य न रोचते । “तरच्छअट्ठवम" त्ति यथा तरक्षःव्याघ्रविशेषः स पूर्वमस्थां ध्राणः पश्चादामिषमपि न रोचयति, एवमस्यापि श्रावकधर्मध्राणस्य यतिधर्मो न प्रतिभासते। यत एते दोषा अतो विधिनैव कथनीयम् ॥के पुनर्विधिकथने गुणाः? उच्यते[भा.११४२] तित्थानुसज्जणाए, आयहियाए परं समुद्धरति ।
मग्गप्पभावणाए, जइधम्मकहा अओ पढमं ॥ वृ- यतिधर्मकथा प्रथमतः क्रियमाणा तीर्थस्यानुसजनायै भवति, बहूनां जन्तूनां प्रव्रज्यापत्तिपत्तेः । तीर्थानुषजना च कृता आत्महिताय जायते । परं च प्रव्रज्यापदानेन संसारसागरादसौ समुद्धरति । अत एव मार्गस्य-सम्यग्दर्शनादेः प्रभावनायै सा प्रभवति । यत एते गुणा अतो यतिधर्मकथा प्रथम स्वरूपतोगुणतश्च कर्तव्या।तत्र स्वरूपतो यथा-"खंतीय मद्दवऽज्जव,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org