SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-६, [भा. ११४२ ] मुत्ती ०" इत्यादि । गुणतो यथा नो दुष्कर्मप्रयासो न कुयुवति-सुत-स्वामिदुर्वाक्यदुःखं, राजादौन प्रणामोऽशन - वसन-धन-स्थानचिन्ता न चैव । ज्ञानाप्तिर्लोकपूजा प्रशमसुखरसः प्रेत्य मोक्षाद्यवाप्ति, श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयः किं न यलं कुरुध्वम् ? ॥ इत्यादि । यदा यतिधर्मभङ्गीकर्त्तु न शक्नोति तदा सम्यक्त्वमूलः श्राद्धधर्म कथयितव्यः, यदा तमपि न प्रतिपद्यते तदा सम्यग्दर्शनम्, तस्याप्यप्रतिपत्तौ मद्य-मांसविरति । एवं चानुपासकस्य पुरतो धर्मकथायां विधिः । उपासकस्य तु यथास्वरुचि धर्मकथां करोतु, न कश्चिद्दोषः ॥ गतं प्रव्रज्याद्वारम् । अथ शिक्षापदद्वारमाह [भा. ११४३] पव्वइयस्स य सिक्खा, गयण्हाय सिलीपती य दिट्टंतो । तइयं च आउरम्मी, चउत्थगं अंधले थेरे ॥ वृ - प्रव्रजितस्य च सतोऽस्य शिक्षा दातव्या । सा च द्विधा-ग्रहणशिक्षा आसेवनशिक्षाच । तत्र ग्रहणशिक्षा सूत्राध्ययनरूपा, आसेवनाशिक्षा प्रत्युपेक्षणादिका । तत्र कोऽपि प्रव्रजितः सन् आसेवनाशिक्षां सम्यगम्यस्यति न पुनर्ग्रहणशिक्षाम् । तत्राचार्यै स्नातेन गजेन श्लीपदिना च दृष्टान्तः क्रियते, तृतीयं चोदाहरणमातुरविषयं चतुर्थमन्धस्थविरविषयं कर्त्तव्यमिति गाथासमासार्थः।। अथ विस्तरार्थोऽभिधीयते तत्रासौ गुरुभिरादिष्टः- सौम्य ! गृहाण त्वमेनां ग्रहणशिक्षाम्, अधीष्व विधिवद् यथाक्रममाऽऽचारादिश्रुतम् । स प्राह [भा. ११४४] पव्वइओऽहं समणो, निक्खित्तपरिग्गहो निरारंभो । इति दिक्खियमेकमणो, धम्मधुराए दढो होमि ॥ वृ- भदन्त ! परव्रजितोऽहं 'श्रमणः' तपस्वी निक्षिप्तपरिग्रहो निरारम्भश्च सञ्जात इत्यतः 'दीक्षिते' दीक्षायां मकारोऽलाक्षणिकः एकाग्रमना 'धर्मधुरायां' धर्मचिन्तायां 'दृढः ' निष्कम्पो भवामि ॥ किञ्च [भा. ११४५] समितीसु भावनासु य, गुत्ती पडिलेह - विनयमाईसु । लोगविरुद्धेसु य बहुविसु लोगुत्तरेसुं च ॥ ३०५ [भा. ११४६] जुत्त विरयस्स सययं, संजमजोगेसु उज्जयमइस्स । किं मज्झं पढिएणं, भण्णइ सुण ता इमे नाए ॥ वृ- 'समितिषु' ईर्यादिषु 'भावनासु' द्वादशसु पञ्चविंशतिसङ्ख्याकासु वा 'गुप्तिषु' मनोगुप्तयादिषु प्रत्युपेक्षणायां प्रतीतायां 'विनये' अभ्युत्थानादिरूपे आदिशब्दाद् वैयावृत्यादिषु व्यापारेषु 'युक्तस्य' प्रयत्नवतः, तथा 'लोकविरुद्धेषु' जुगुप्सितकुलभिक्षाग्रहणादिषु 'बहुविधेषु' नानाप्रकारेषु 'लोकोत्तरविरुद्धेषु' नवनीत - चलितान्नग्रहणादिषु चशब्दाद् उभयविरुद्धेषु मद्यादिषु 'विरतस्य' प्रतिनिवृत्तस्य 'संयमयोगेषु च' आवश्यकव्यापारेषु उद्यतमतेः एवंविधस्य किं मम 'पठितेन' पाठेन कार्यम् ? न किञ्चिदिति भावः । भण्यते गुरुभिरत्रोत्तरम्-वत्स ! यदर्थं भवान् प्रव्रजितः स एवार्थेन सेत्स्यतीति । तथा चात्र शृणु तावदम् 'ज्ञाते' द्वे निदर्शने ॥ ते एव यथाक्रममाह 18 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy