________________
उद्देश : १, मूलं-५, [भा. ११३५]
३०३
मिथ्यात्वादिनिद्राविद्रावणलक्षणेन बोधकः सम्यग्दर्शनादिविकाशकारी, ईशो जिनप्रज्ञप्तो धर्म 'प्रकल्पयतिना' निशीथाध्ययनसूत्रार्थधारिणा साधुना कथयितव्यः । स हि संविग्नगीतार्थतयोत्सर्गाऽपवादपदानि स्वस्थाने स्वस्थाने विनियुञ्जानो न विपरीतप्ररूपणयाऽऽत्मानं परं वा दीर्घभवभ्रमणभाजनमातनोतीति ।। परः प्रा-किमेवंविधोऽपि भागवतो धर्म उपदिश्यमानः केषाञ्चिद् बोधं न जनयति येनैवमभिधीयते "भव्यपुण्डरीकाणां विबोधकः " ? इति अत्रोच्यते[भा. ११३६] जह सूरस्स पभावं, दङ्कं वरकमलपोंडरीयाई । बुंज्झति उदयकाले, तत्थ उ कुमुदा न बुज्झति ॥
वृ यथा सूर्यस्य 'प्रभाव' प्रभापटलरूपं दृष्ट्वा सरसि स्थितानि वरकमलपुण्डरीकाणि 'उदयकाले' प्रभाते बुध्यन्ते । तत्रैव च सरसि कुमुदान्यपि सन्ति परं तानि न बुध्यन्ते ॥ [भा. ११३७] एवं भवसिद्धीया, जिणवरसूरस्सुतिप्पभावेणं । बुज्झति भवियकमला, अभवियकुमुदा न बुज्झति ॥
वृ- 'एवम्' अनेनैव ध्ष्टान्तेन जिनवरसूर्यस्य या श्रुति-आगमः प्रभापटलकल्पस्तत्प्रभावेन भव्यकमलानि 'बुध्यन्ते' सम्यक्त्वादिविकाशमासादयन्ति । तानि च “भव्वा वि ते अनंता, जे मुत्तिसुहं न पावंति।" इति वचनादसम्भावनीयसिद्धिगमनान्यपि भवेयुरित्यत्तध्यवच्छेदार्थमाहभवा- भाविनी सिद्धिर्येषां तानि भवसिद्धिकानि । यस्मिंश्च जीवलोकसरसि भगवतः प्रभावेन भव्यकमलानि बोधमश्नुवते तस्मिन् अभव्यकुमुदान्यपि कालसौकरिकप्रभृतीनि सन्ति परं तानि न प्रतिबुध्यन्ते, तथास्वाभाव्यात् । यदवादि वादिमुख्येन
सद्धर्मबीजवपनानधकौशल्यस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः
- अत्र पर: प्राह
[भा. ११३८] पुव्वंत्ति होइ कहओ, पच्छा धम्मो उ उक्कमो किन्नु । तेन वि पुव्वं धम्मो, सुओ उ तम्हा कमो एसो ॥
वृ- पूर्वं तावत् 'कथकः' धर्मोपदेष्टा भवति, पश्चात् तदुपदेशं श्रुत्वा धर्म उत्पद्यते, अतः किमेवं 'स कीशः' इति प्रथमं धर्मस्वरूपमुद्दिश्य 'केन वा कथयितव्यः' इति कथकस्वरूपं पश्चादुद्दिशद्भिरुत्क्रमः क्रियते ? । गुरुराह तेनापि कथकेन पूर्वं गुरूणां समीपे धर्म श्रुत एव तस्मात् क्रम एषः नोक्रम इति । अयं च धर्म उपायेनैव कथयितव्यो नानुपायेन । आह के दोषान अनुपायकथने ? उच्यते
[भा.११३९] जइधम्मं अकहेत्ता, अनुदिविदं सम्म मंसविरई वा । अनुवासए कहिंते, चउजमला कालगा चउरो ।
वृ- यः खलु मिथ्यादृष्टिरनुपासकस्तत्प्रथमतया धर्मश्रवणार्थमुपतिष्ठते तस्य यतिधर्मः कथयितव्यः । यदि यतिधर्ममकथयित्वा श्रावकसम्बन्धिनमणुधर्म कथयति तदा चत्वारो गुरवः तपसा कालन च द्वाभ्यामपि गुरुकाः । यदा यतिधर्मं प्रतिपत्तुं नोत्सहते तदा मूलोत्तरगुणभेदाद् द्विविधः श्राद्धधर्म कथनीयः, सम्यक्त्वमूलानि द्वादश व्रतानीत्यर्थः । यदि शाद्धधर्मकथयित्वा सम्यग्दर्शनमात्रं कथयति तदाऽपि चत्वारो गुरवः तपसा गुरवः काले लघवः । यदा श्राद्धधर्मं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org