________________
३०२
बृहत्कल्प-छेदसूत्रम् -१-१/६ 'कर्ममासेन' ऋतमासेनेत्यर्थः। ततः “अबाहिरियसि कप्पइ निग्गंथाणं एक्कं मासं वत्थए" त्ति किमुक्तं भवति? -त्रिंशदहोरात्रमानमेकंऋतुमासंकल्पते वस्तुमिति ।।प्ररूपितंमासपदम्।अथ येषां मासकल्पेन विहारो भवति तान् नामग्राहं गृहीत्वा तद्विधिमभिधित्सुराह[भा.११३१] जिन सुद्ध अहालंदे, गच्छे मासो तहेव अजाणं ।
एएसिं नाणत्तं, वोच्छामि अहानुपुब्बीए॥ वृ-जिनकल्पिकानां शुद्धपरिहारकाणां यथालन्दकल्पिकानां 'गच्छवासिनां' स्थविरकल्पिकानामित्यर्थः। तथैव आर्याणां' साध्वीनांयथा येषांमासकल्पोभवति तथैतेषां सर्वेषामपि नानात्वं वक्ष्यामि यथानुपूर्व्या' यथोद्दिष्टपरिपाट्या ॥तत्रप्रथमं जिनकल्पिकानाश्रित्याह[भा.११३२]पव्वज्जा सिक्खापयमत्थग्गहणंच अनियओ वासो।
निष्फत्ती य विहारो, सामायारी ठिई चेव ।। वृ-प्रथमंप्रव्रज्या वक्तव्या, कथमसौ जिनकल्पिकः प्रव्रजितः? इति । ततः 'शिक्षापदं' ग्रहणा-ऽऽसेवनाविषयम् । ततो ग्रहणशिक्षयाऽधीतसूत्रस्यार्थग्रहणम् । ततो नानादेशदर्शनं कुर्वतोयथा अनियतो वासो भवति।ततः शिष्याणां निष्पत्ति। तदनन्तरंविहारः। ततो जिनकल्पं प्रतिपन्नस्य सामाचारी । ततस्तस्यैव स्थिति' क्षेत्र-कालादिकाऽभिधातव्येतिगाथासमुदायार्थः।। अवयवार्थं प्रतिद्वारमभिधित्सुः प्रथमतः प्रव्रज्याद्वारमाह[भा.११३३] सोचाऽभिसमेच्चावा, पव्वज्जा अभिसमागमो तत्थ ।
जाइस्सरणाईओ, सनिमित्तमनिमित्तओ वा वि॥ वृ-'श्रुत्वा तीर्थकर-गणधरादीनांधर्मदेशनां निशम्य अभिसमेत्य वा सह सन्मत्यादिना स्वयमेवावबुध्यप्रव्रज्या भवेत्। तत्राल्पवक्तव्यत्वात्परथममभिसमागम उच्यते-सोअभिसमागमो जातिस्मरणादिकःसनिमित्तकोऽनिमित्तकोवा द्रष्टव्यः । तत्र यद्बाह्यंनिमित्तमुद्दिश्य जातिस्मरणमुपजायते तत् सनिमित्तकम्, यथा वल्कलचीरिप्रभृतीनाम् । यत् पुनरेवमेव तदावारककर्मणां क्षयोपशमेनोत्पद्यते तदनिमित्तकम्, यथा स्वयम्बुद्ध-कपिलादीनाम् । एतेन जातिस्मरणेन आदिग्रहणात् श्रावकस्य गुणप्रत्ययप्रभवेणावधिज्ञानेन अन्यतीर्थिकस्य वा विभङ्गज्ञानेन प्रव्रज्याप्रतिपत्ति सम्भवति॥ गतमभिसमेत्यद्वारम् । अथ श्रुत्वेति द्वारं विवरीषुराह[भा.११३४] सोचा उ होइ धम्मं, स केरिसो केन वा कहेयव्यो।
के तस्स गुणा वुत्ता, दोसा अनुवायकहणाए। वृ-धर्ममाचार्यादीनामन्तिके श्रुत्वा प्रव्रज्या भवति।अत्रशिष्यः पृच्छति-सधर्मकीशः? केन वा कथयितव्यः ? के वा तस्योपायकथने गुणाः प्रोक्ताः ? के वा अनुपायकथने दोषाः ? इति ॥ तत्र कीशः? केन वा कथयितव्यः? इति प्रश्नो निर्वचनमाह[भा.११३५] संसारदुक्खमहणो, विबोहओ भवियपुंडरीयाणं ।
धम्मो जिनपन्नत्तो, पगप्पजइणा कहेयव्वो॥ वृ-संसारएवजन्म-जरा-मरणादिदुःखनिबन्धनत्वाद्दुःखं संसारस्य वादुःखानि-शारीरमानसिकलक्षणानि तस्य तेषांवामथनः-विनाशकः, तथा भव्याएव विनयादिविमलगुणपरिमलयोगाद् ज्ञानादिलक्ष्मीनिवासयोग्यतया च पुण्डरीकाणि-श्वेतसोरुहाणि तेषां विशेषेण Jain Education International
For Private & Personal Use Only
www.jainelibrary.org