________________
उद्देशक : १, मूलं - ५, [भा. ११२८ ]
३०१
शत- भिषगनामानि षड् नक्षत्राणि पञ्चदशमुहूर्त्तभोगीनि, तिस्रो उत्तराः पुनर्वसू रोहिणी विशाखा चेति षट् पञ्चचत्वारिंशन्मुहूर्तभोगीनि, शेषाणि तु पञ्चदश नक्षत्राणि त्रिंशन्मुहूर्त्तानीति जातानि सर्वसङ्ख्यया मुहूर्त्तानामष्ट शतानि दशोत्तराणि; एतेषां च त्रिंशन्मुहूर्त्तेरहोरात्रमिति कृत्वा त्रिंशता भागो ह्रियते लब्धानि सप्तविंशतिरहोरात्राणि, अभिजिभोगश्चैकविंशति सप्तषष्टा भागा इति तैरभ्यधिकानि सप्तविंशतिरहोरात्राणि सकलनक्षत्रमण्डलोपभोगकालो नक्षत्रमास उच्यते १ ॥ [भा. ११२९] अउनत्तीसं चंदो, बिसट्ठि भागा य हंति बत्तीसा । कम्मो तीसइदिवसो, तीसा अद्धं च आइचो ॥
वृ-चन्द्रे भवश्चान्द्रः कृष्णपक्षप्रतिपद आरभ्य यावत् पौर्णमासीपरिसमाप्तिस्तावत्कालमानः; सच एकोनत्रिंशदहोरात्राणि द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य २ । कर्ममासः ऋतुमास इत्येकोऽर्थ., स त्रिंशद्दिवसप्रमाणः ३ । आदित्यमासस्त्रशदहोरात्राणि रात्रिन्दिवस्य चार्द्धम्, दक्षिणायनस्योत्तरायणस्य वा षष्ठभागमान इत्यर्थः ४ ॥
[भा. ११३०] अभिवढि इक्कतीसा, चउवीसं भागसयं च तिगहीणं । भावे मूलाइजुओ, पगयं पुन कम्ममासेणं ॥
वृ- अभिवर्द्धितो नाम मुख्यतः त्रयोदशचन्द्रमासप्रमाणः संवत्सरः, परं तद्वादशभागप्रमाणो मासोऽप्यवयवे समुदायोपचाराद् अभिवर्द्धितः स चैकत्रिंशदहोरात्राणि चतुर्विंशत्युत्तरशतभागीकृतस्य चाहोरात्रस्य त्रिकहीनं चतुर्विंशं शतं भागानां भवति, एकविंशशतमिति भावः ५ । एतेषां चानयनाय इयं करणगाथा
जुगमासेहि उ भइए, जुगम्म लद्धं हविज्ज नायव्वं । मासाणं पंचण्ह वि, एयं राईदियपमाणं ॥
इह सूर्यस्य दक्षिणमुत्तरं वा अयनं त्र्यशीत्यधिकदिनशतात्मकम् । द्वे अयने वर्षमिति कृत्वा वर्षे षट्षष्ट्यधिकानि त्रीणि शतानि भवन्ति । पञ्च संवत्सरा युगमिति कृत्वा तानि पञ्चभिर्गुण्यन्ते जातान्यष्टादश शतानि त्रिंशानि दिवसानाम् । एतेषां नक्षत्रमासदिवसानयनाय सप्तषष्टिर्युगे नक्षत्रमासाइति सप्तषष्टया भागो ह्रियते, लब्धाः सप्तविंशतिरहोरात्रा एकविंशतिरहोरात्रस्य सप्तषष्टिभागाः १ । तथा चन्द्रमासदिवसानयनाय द्वाषष्टिर्युगे चन्द्रमासा इति द्वाषष्टया तस्यैव युगदिनराशेर्भागो हियते, लब्धान्येकोनत्रिंशदहोरात्राणि द्वात्रिंशच्च द्वाषष्टिभागाः २ । एवं युगदिवसानामेवैकषष्टिर्युगे कर्ममासा इत्येकषष्टया भागे हृते लब्धानि कर्ममासस्य त्रिंशद्दिनानि ३। तथा युगे षष्टि सूर्यमासा इति षष्ट्या युगदिनानां भागे हृते लब्धाः सूर्यमासदिवसास्त्रिंशदहोरात्रस्यार्द्ध च ४ । तथा युगदिवसा एव अभिवर्द्धितमासदिवसानयनाय त्रयोदशगुणाः क्रियन्ते जतानि त्रयोविंशतिसहस्राणि सप्त शतानि नवत्यधिकानि, एषां चतुश्चत्वारिंशैः सप्तभि शतैर्भागो हियते लब्धा एकत्रिंशद्दिवसाः, शेषाण्यवतिष्ठन्ते षड्विंशत्यधिकानि सप्तशतानि चतुश्चत्वारिंशसप्तशतभागानाम्, तत उभयेषामप्यङ्कानां षड्भिरपवर्त्तना क्रियते जातमेकविंशं शतं चतुर्विंशत्युत्तरशतभागानामिति ५ ॥
उक्ताः पञ्चापि कालमासाः । भावमासो नोआगमतः 'मूलादियुतः ' मूल- कन्दस्कन्धादिरूपतया माषप्रायोग्याणि कर्माणि वेदयन् माषजीवोऽवगन्तव्यः प्रकृतं पुनरत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org