________________
३००
बृहत्कल्प-छेदसूत्रम् -१-१/६
जलदुर्गादीनि पर्वता एव दुर्गाणि वा, एतानि नगरादिकं परिक्षिप्य व्यवस्थितानि क्षेत्रपरिक्षेप उच्यते ॥ कालपरिक्षेपमाह[भा.११२४] वासारत्ते अइपाणियं ति गिम्हे अपाणियं नच्चा ।
___ कालेन परिक्खित्तं, तेन तमन्ने परिहरंति ॥ वृ-वर्षारात्रेऽतिपानीयमितिकृत्वा 'ग्रीष्मे उष्णकालेअपानीयमिति कृत्वा रो«नशक्यत इतिज्ञात्वा तेन कारणेन तद्नगरादिकम् 'अन्ये परराष्ट्रराजानः परिहरन्तितत्कालपरिक्षिप्तम्।। भावपरिक्षेपमाह[भा.११२५] नच्चा नरवइणो सत्त-सार-बुद्धी-परक्कमविसेसे।
भावेन परिक्खित्तं,तेन तमन्ने परिहरंति ॥ वृ-सत्त्वं-धैर्यम्; सारो द्विधा-बाह्य आभ्यन्तरश्च, बाह्यो बल-वाहनादि, आभ्यन्तरोरलसुवर्णादि; बुद्धिरौत्पत्तिक्यादिभेदाच्चतुर्विधा यथाअभयकुमारस्य; पराक्रमः-औरसबलात्मकः, एतान् सत्त्व-सार-बुद्धि-पराक्रमविशेषान् विवक्षितनरपतेः सम्बन्धिनो ज्ञात्वा 'यद्यनेन सार्द्ध विग्रहमारप्स्यामहे तत उत्खनिष्यन्ते सपुत्रगोत्राणामस्माकमनेन कन्दाः' इति परिभाव्य तदीयं नगरंयद् ‘अन्ये राजानः परिहरन्तितत् तदीयेन सत्त्व-सारादिना भावेन परिक्षिप्तं प्रतिपत्तव्यम्।। व्याख्यातं परिक्षेपपदम् । अत्र द्रव्यपरिक्षेपेण प्रकृतम् । अथ मासपदनिक्षेपमाह[भा.११२६] नामंठवणा दविए, खित्ते काले तहेव भावे य ।
मासस्स परूवणया, पगयं पुण कालमासेणं ॥ कृ-नाममासः स्थापनामासोद्रव्यमासः क्षेत्रमासःकालमासोभावमासश्चेतिषड्विधामासस्य प्ररूपणा कर्त्तव्या । प्रकृतं पुनरत्र सूत्रे कालमासेन ।।
तत्र नाम-स्थापने क्षुण्णत्वाद् व्युदस्य द्रव्यमासमाह[भा.११२७]दव्वे भवितो निव्वत्तिओ उ खेत्तं तुजम्मिवण्णणया।
कालो जहि वण्णिजइ, नक्खत्तादी व पंचविहो॥ वृ- द्रव्यमासः “भविउ"त्ति माषत्वेन य उत्पत्स्यते, स चैकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति त्रिधा, एष त्रिविधोऽपि प्राकृतशैल्या द्रव्यमासो भण्यते, एवमुत्तरत्रापि ।
अथवा द्रव्यमासोदविधा मूलोत्तरगुणनिर्वर्तितभेदात्। तत्रयोजीवविप्रमुक्तोमाषः स मूलगुणनिवर्तितः, यस्तु चित्रकर्मादौ माषस्तम्ब आलिखितः सउत्तरगुणनिर्वर्तितः । क्षेत्रमासस्तु यस्मिन् क्षेत्रे मासकल्पस्य वर्णना क्रियते माषो वा वाप्यते । कालमासः पुनर्यस्मिन् काले माषो वाप्यते मासकल्पो वा वप्रये ।अथवा कालमासः श्रावणादि । यद्वा कालमासो नक्षत्रादिकः पञ्चविधः । तद्यथा- नक्षत्रमासश्चन्द्रमासः ऋतुमासः आदित्यमासः अभिवर्द्धितमासः ।।
अमीषामेव परिमाणमाह[भा.११२८] नक्खत्तो खलु मासो, सत्तावीसं हवंतऽहोरत्ता ।
___ भागा य एक्कवीसं, सत्तट्ठिकएण छेएणं ।। वृ-नक्षत्रेषु भवो नाक्षत्रः, स खलु मासः सप्तविंशतिरहोरात्राणि सप्तषष्टीकृतेन च्छेदेन च्छिन्नस्याहोरात्रस्यैकविंशति सप्तषष्टा भागाः। तथाहि-चन्द्रस्य भरण्याा-ऽश्लेषा-स्वाति-ज्येष्ठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org