________________
२९९
उद्देशक ः १, मूलं-६, [भा. १११८]
मिच्छत्तहयसईया, तहावि तेवजणिज्जा उ॥ वृ-यद्यपि हि निह्नवानपि दृष्ट्वा कस्यचित्सम्यग्दर्शनोत्पादो भवेत् तथापिते मिथ्यात्वम्अतत्त्वे तत्त्वाभिनिवेशः तेन हता-दूषिता स्मृति-सर्वज्ञवचनसंस्कारलक्षणा दुर्वातेन सस्यवद् येषां ते मिथ्यात्वहतस्मृतिका एवंविधाश्च बह्वीभिरसद्भावोद्भावनाभिरस्तोकलोकचेतांसि विपरिणामन्यन्तः पूर्वलब्धमपि बोधिबीजमात्मनोऽपरेषां चोपघ्नन्तो दूरंदूरेण वर्जनीया इति । यश्चैवमतोनैतेभावग्रामतया भवितुमर्हन्तीतिप्रकृतम्॥अथात्र कतरेण ग्रामेणाधिकारः? उच्यते [भा.१११९]आहारउवहि-सयणा-ऽऽसणोवभोगेसुजो उ पाउग्गो
एवं वयंति गाम, जेनऽहिगारो इहं सुत्ते॥ वृ-आहारोपधीप्रतीतौ, शयन-संस्तारकः,आसनं-पीठादि, एतेषामुपभोगेषुयःप्रायोग्यः। किमुक्तं भवति ?-एतानि यत्र कल्प्यानि प्राप्यन्ते तमेनं ग्रामं वदन्ति' प्ररूपयन्ति सूरयः, येन 'अत्र' सूत्रे 'अधिकारः' प्रकृतमिति ।। व्याख्यातं ग्रामपदम् । अथ नगरादिपदान्यतिदिशन्नाह[भा.११२०] एमेव य नगरादी, नेयव्वा होति आनुपुवीए।
___जंजंजुञ्जइ जत्थ उ, जोएअव्वंतगंतत्थ ।। वृ-यथा ग्रामपदं प्ररूपितम् एवमेव नगरादीन्यपि पदान्यानुपूर्व्या नेतव्यानि । एतदेव व्याचष्टे-यत्यद् नाम-स्थापना-द्रव्य-भावादिकंयत्रनगरादौ युज्यतेतत्तत्र योजयितव्यमिति।। अथ परिक्षेपपदं निक्षिपनाह[भा.११२१] नामं ठवणा दविए, खित्ते काले तहेव भावे य।
एसो उ परिक्खेवे, निक्खेवो छव्विहो होइ॥ वृ-नामपरिक्षेपः स्थापनापरिक्षेपो द्रव्यपरिक्षेपः क्षेत्रपरिक्षेपःकालपरिक्षेपोभावपरिक्षेपः। एष परिक्षेपे निक्षेपः षड्विधो भवति ॥तत्र नाम-स्थापने गतार्थे । द्रव्यपरिक्षेपं प्रतिपादयति[भा.११२२] सच्चित्तादी दव्वे, सच्चित्तो दुपयमायगो तिविहो।
मीसो देसचियादी, अच्चित्तो होइमो तत्थ ॥ वृ-द्रव्यपरिक्षेपस्त्रिविधः-'सच्चित्तादि' सच्चित्तोऽचित्तो मिश्रश्चेत्यर्थः । सच्चित्तस्त्रिविधो द्विपदचतुष्पदा-ऽपदभेदात् । तत्र ग्राम-नगरादेर्यद् मनुष्यैः परिवेष्टनं स द्विपदपरिक्षेपः, यत्तु तुरङ्गमहस्त्यादिभिः स चतुष्पदपरिक्षेपः, यत्पुनर्वृक्षैः सोऽपदपरिक्षेपः। मिश्रोऽप्येवमेव त्रिविधः, परं “देसचितादि" ति देशे-एकदेशे उपचितः-सचेतनः, आदिशब्दाद् देशे अपचितः-व्यपगतचैतन्यः । किमुक्तं भवति?-यत्रैके मनुष्या-ऽश्व-हस्त्यादयो जीवन्ति, अपरेतुमृताः परंग्रामादिकं परिक्षिप्य व्यवस्थिताः, स मिश्रपरिक्षेपः । अचित्तपरिक्षेपस्त्वयं भवति । तमेवाह[भा.११२३] पासाणिट्टग-मट्टिय-खोड-कडग-कंटिगा भवेदव्वे ।
. खाइय-सर-नइ-गड्डा-पव्य-दुग्गाणि खेत्तम्मि॥ वृ-पाषाणमयःप्राकारो यथा द्वारिकायाम्, इष्टकामयःप्राकारोयथा नन्दपुरे, मृत्तिकामयो यथा सुमनोमुखनगरे, “खोड"त्ति काष्ठमयः प्राकारः कस्यापि नगरादेर्भवति, कटकाः-वंश- . दलादिमयाः कण्टिकाः-बुब्बूलादिसम्बन्धिन्यः तन्मयो वा परिक्षेपो ग्रामादेर्भवति, एष सर्वोऽपि द्रव्यपरिक्षेपः । क्षेत्रपरिक्षेपस्तु खातिका वा सरो वा नदी वा गर्ता वा पर्वतो वा दुर्गाणि वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org