________________
२९८
बृहत्कल्प-छेदसूत्रम् -१-१/६ उच्यते- संज्ञासूत्रोपयोगार्थम् । तथा चाऽऽचारप्रकल्पाध्ययने षष्ठोद्देशके सूत्रम्- "जे भिक्खू माउग्गाममेहुणवडियाएविन्नवेइ" इत्यदि।तथा-“जा भिक्खुमी पिउगगामविन्नवेइ"इत्यादि। भावग्रामस्तु नो आगमतः 'ज्ञानादित्रिकं ज्ञान-दर्शन-चारित्रसमवायरूपम्; यतो वा 'तेषां' ज्ञानादीनामुत्पत्तिर्भवति ते भावग्रामतया ज्ञातव्याः॥के पुनस्ते? उच्यते[भा.१११४]तित्थगरा जिन चउदस, दस भिन्ने संविग्ग तह असंविग्गे ।
सारूविय वय दंसण, पडिमाओ भावगामोउ। वृ तीर्थकराः' अर्हन्तः, जिनाः' सामान्यकेवलिनःअवधि-मनःपर्यायजिना वा, चतुर्दशपूर्विणोदशपूर्विणश्चप्रतीताः, “भिने"त्तिअसम्पूर्णदशपूर्वधारिणः, ‘संविग्नाः' उद्यतविहारिणः, 'असंविग्नाः'तद्विपरीताः, सारूपिकाः नाम' श्वेतवाससः क्षुरमुण्डितशिरसोभिक्षाटनोपजीविनः पश्चात्कृतविशेषाः, “वय"त्तिप्रतिपन्नाणुव्रताः श्रावकाः, “दंसण"त्ति दर्शनश्रावकाःअविरतसम्यग्दृष्टय इत्यर्थः, प्रतिमाः' अर्हद्विम्बानि । एषसर्वोऽपिभावग्रामः, एतेषां दर्शनादिना ज्ञानादिप्रसूतिसद्भावात् । अत्र परः प्राह-ननु युक्तं तीर्थकादीनां ज्ञानादिरलत्रयसम्पत्समन्वितानां भावग्रामत्वम्, ये पुनरसंविग्नादयस्तेषां कथमिव भावग्रामत्वमुपपद्यते? नैष दोषः, तेषामपि यथावस्थितरूपणाकारिणां पार्वतोयथोक्तधर्ममाकर्ण्यसम्यग्दर्शनादिलाभउदयते, अतस्तेषामपि भावग्रामत्वमुपद्यत एवेति कृतं प्रसङ्गेन ।तीर्थकरा इति पदं विशेषतो भावयति[भा.१११५] चरण-करणसंपन्ना, परीसहपरायगा महाभागा।
तित्थगरा भगवंतो, भावेण उ एस गामविही॥ वृ-चरण-करणसम्पन्नाः परीषहपराजेतारोमहाभागास्तीर्थकराभगवन्तो दर्शनमात्रादेव भव्यानां सम्यग्दर्शनादिबोधिबीजप्रसूतिहेतवो भावग्रामतया प्रतिपत्तव्याः । एवं जिनादिष्वपि भावनीयम् । एष सर्वोऽपि भावग्रामविधिमन्तव्यः॥प्रतिमा अधिकृत्य भावनामाह[भा.१११६]जा सम्मभावियाओष पडिमा इयरान भावगामो उ।
भावो जइ नस्थि तर्हि, ननु कारण कजउवयारो॥ वृ-याः ‘सम्यग्भाविताः' सम्यग्दृष्टिपरिगृहीताः प्रतिमास्ता भावग्राम उच्यते, न 'इतराः' मिथ्याष्टिपरिगृहीताः। आह सम्यग्भाविता अपि प्रतिमास्तावद् ज्ञानादिभावशून्याः, ततो यदि ज्ञानादिरूपो भावस्तत्र नास्ति ततस्ताः कथं भावग्रामो भवितुमर्हन्ति? उच्यते-ता अपि दृष्ट्वा भव्यजीवस्याऽऽर्द्रककुमारादेरिव सम्यग्दर्शनाधुदीयमानमुपलभ्यते ततो ननुकारणे कार्योपचार इति कृत्वा ता अपि भावग्रामो भण्यन्ते। अत्र परः प्राह[भा.१११७] एवंखु भावगामो, निण्हगमाई विजह मयं तुब्भं ।
एअमवच्चं को नुहु, अविवरीतो वदिजाहिं ।। वृ- यथा सम्यग्भावितप्रतिमानां कारणे कार्योपचाराद् भावग्रामत्वं युष्माकं मतम्' अभिप्रेतम्, एवमे निह्नवादयोऽपि भावग्राम एव भवतां प्राप्नुवन्ति, तेषामपि दर्शनेन कस्यचित् सम्यग्दर्शनोत्पादात् । सूरिराह-एतत्' त्वदुक्तमवाच्यवचनं भवन्तमसमअनसप्रलापिनं विना को नु अविपरीतः' सम्यग्वस्तुतत्ववेदी वदेत् ? अपितु नैवेत्यभिप्रायः॥ कुतः ? इत्याह[भा.१११८] जइ विहु सम्मुप्पाओ, कासइ दह्ण निण्हए होज्जा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org