________________
उद्देशक : १, मूलं-६, [भा. १०९२]
२९३
तथा 'घोषस्तु' गोकुलमभिधीयते । 'अंशिका तु' यत्र ग्रामस्यार्धम् आदिशब्दात् त्रिभागो वा चतुर्भाव वा स्थितः सा ग्रामस्यांश एवांशिका ॥
[भा. १०९३] नाणादिसागयाणं, भिज्ञ्जंति पुडा उ जत्थ भंडाणं । पुडभेयणं तगं संकरो य केसिंचि कायव्वो ।
वृ- नानाप्रकाराभ्यो दिग्भ्य आगतानां 'भाण्डानां' कुडुमादीनां पुटा यत्र विक्रयार्थं भिद्यन्ते तत् पुटभेदनमुच्यते । केषाञ्चिदाचार्याणां मतेन सङ्करश्च कर्तव्यः, “संकरंसिवा" इत्यधिकं पदं पठितव्यमित्यर्थः । सङ्करो नाम-किञ्चिद् ग्रामोऽपि खेटमपि आश्रमोऽपीत्यादि ।
एष सूत्रार्थ । अथ निर्युक्ति विस्तरः । तत्र ग्रामपदनिक्षेपमाह
[भा. १०९४] नामं ठवणागामो, दव्वग्गामो य भूतगामो य । आउजिंदियगा, पिउ-माऊ-भावगामो य ॥
वृ-नामग्रामः स्थापनाग्रामो द्रव्यग्रामश्च भूतग्रामश्च आतोद्यग्राम इन्द्रियग्रामः पितृग्रामो मातृग्रामो भावग्रामश्चेति गाथासमुदयार्थः । अथावयवार्थमभिधित्सुर्नाम-स्थापने क्षुण्णत्वादना त्य द्रव्यग्रामं व्याचष्टे
[भा.१०९५]जीवा-ऽजीवसमुदओ, गामो को कं नओ कहं इच्छे ।
आदिनयोऽमेगविहो, तिविकप्पो अंतिमनओ उ ।
वृ- जीवानां - गो-महिषी - मनुष्यादीनाम अजीवानां च गृहादीनां यः समुदयः स द्रव्यग्राम उच्यते । इह च स्वज्ञोपज्ञप्रवचने प्रायः सर्वमपि सूत्रमर्थश्च नयैर्विचार्यते । यत उक्तम्नत्थि नएहि विहूणं, सुत्तं अत्थो य जिनमए किंचि ।
आसज्ज उ सोयारं, नए नयविसारओ बूया ॥
अत एषोऽपि द्रव्यग्रामो नयैर्विचार्यते -को नाम नयः कं द्रव्यग्रामं कथमिच्छति ? इति, तत्र नयाः सामान्यतः सप्त नैगम - सङ्ग्रह - व्यवहार - ऋजुसूत्र - शब्द- समभिरूढैवम्भूतभेदात्; इह तु समभिरूढैवम्भूतयोः शब्दप्राधान्यम्युपगमपरतया शब्दनय एवान्तर्भावो विवक्ष्यते । ततश्च 'आदिनयः' नैगमः सोऽविशुद्ध विशुद्ध-विशुद्धरादिभेदाद् अनेकविधः । 'अनन्तिमनयस्तु' शब्दः सः 'त्रिवक्लपः ' त्रिविधः शब्द- समभिरूढैवम्भूतभेदात् ॥
तत्रानेकविधनैगमानामन्योऽन्यनिरपेक्षाणि यानि वक्तव्यानि तानि नामग्राहं सङ्घ हन्नाह[भा. १०९६] गावो तणाति सीमा, आरामुदपाण चेडरूवाणि । वाडी य वाणमंतर, उग्गह तत्तो य आहिपती ॥
वृ-गावः १ ‘“तणाइ’”त्ति उपलक्षणत्वात् तृणहारकादयः २ सीमा ३ आरामः ४ 'उदपानं' कूपः ५ चेडरूपाणि ६ 'वाटि' वृति ७ 'वानमन्तरं' देवकुलं ८ अवग्रहः ९ ततश्चाधिपति १० इति नियुक्तिगाथाक्षरार्थः । अथ भावार्थ उच्यते, प्रथमनैगमः प्राह-यावन्तं भूभागं गावश्चरितुं व्रजन्ति तावान् सर्वोऽपि ग्राम इति व्यपदेशं लभते १ ॥ ततो विशुद्धनैगमः प्रतिभणति - [भा. १०९७] गावो वयंति दूरं, पिजं तु तण-कट्ठहारगादीया । सूरुट्ठिए गता एंति अत्थमंते ततो गामो ॥
परिस्थूरमते ! गावः 'दूरमपि' परग्राममपि चरितुं व्रजन्ति ततः किमेवं सोऽप्येक एव
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International