________________
२९२
बृहत्कल्प-छेदसूत्रम् -१-१/६ गृहपद्धतिरित्यर्थः, न विद्यते बाहिरिका यत्रतद् अबाहिरिकंतस्मिन् कल्पते निर्ग्रन्थानां हेमन्तग्रीष्मेषु' ऋतुबद्धकालसम्बन्धिषुअष्टसुमासेष्वित्यर्थः, एकंमासं वस्तुम्' अवस्थातुम्।वाशब्दाः सर्वेऽपिविकल्पास्वगतानेकभेदसूचकावाद्रष्टव्या इति सूत्रसमासार्थ ॥अथ विस्तरार्थप्रतिपदं भाष्यकृदाह[भा.१०८८] आदिपदं निद्देसे, वा उ विभासा समुच्चये वा वि।
गम्मो गमणिज्जो वा, कराण गसए व बुद्धादी॥ वृ- "से" इत्येतद् आदिपदं 'निर्देशे' उपन्यासे वर्तते । वाशब्दो । विभाषायां स्वगतानामनेकभेदानां समुच्चयार्थे वा । गम्यो गमनीयो वा अष्टादशानां कराणामिति व्युत्पत्त्या ग्रसेत वा बुध्यादीन् गुणानिति व्युत्पत्या वा पृषोदरादित्वाद् निरुक्तविधिना ग्राम उच्यते॥ [भा.१०८९] नत्थेत्थ करो नगरं, केडं पुन होइ धूलिपागारं ।
कब्बडगंतु कुनगरं, मडंबगंसव्वतो छिन्नं ।। वृ. 'नास्ति' न विद्यतेऽत्राष्टादशकराणामेकोऽपि कर इति नकरम्, नखादित्वाद् नजोऽकाराभावः । खेटं पुनवूलीप्राकारपरिक्षिप्तम् । कर्बटं तु कुनगरमुच्यते । मडम्बं नाम यत् 'सर्वतः' सर्वासु दिक्षु 'छिन्नम्' अर्द्धतृतीयगव्यूतमर्यादायामविद्यमानग्रामादिकमिति भावः । अन्ये तु व्याचक्षते-यस्यपार्श्वतोऽर्द्धतृतीययोजनान्तर्दामादिकं न प्राप्यते तद् मडम्बम् ॥१ [भा.१०९०] जलपट्टणंच थलपट्टणं च इति पट्टणं भवे दुविहं ।
अयमाइआगरा खलु, दोणमुहं जल-थलपहेणं॥ वृ-पत्तनंद्विधा-जलापत्तनंचस्थलपत्तनंच।यत्रजलपथेन नावादिवाहनारूढं भाण्डमुपैति तद्जलपत्तनं, यथा द्वीपम् । यत्रतुस्थलपथेन शकटादौ स्थापितंभाण्डमायातितत्स्थलपत्तनम्, यथाआनन्दपुरम्।अयः-लोहंतदादय आकराउच्यन्ते। यत्रपाषाणधातुधमनादिनालोहमुत्पाद्यते सअयआकरः, आदिशब्दात्ताम्र-रूप्याद्याकरपरिग्रहः । यस्यतुजलपथेनस्थलपथेनचद्वाभ्यामपि प्रकाराभ्यां भाण्डमागच्छति तद् द्वयोः पथोर्मुखमिति निरुक्त्या द्रोणमुखमुच्यते, तच्च भृगुकच्छं ताम्रलिप्ती वा॥ [भा.१०९१]निगमं नेगमवग्गो, वसइ जहिं रायहानि जहि राया।
तावसमाई आसम, निवेसो सत्थाइजत्ता वा ।। वृ-निगमं नाम यत्र नैगमाः-वाणिजकविशेषास्तेषां वर्ग-समूहो वसति, अत एव निगमे भवा नैगमा इति व्यपदिश्यन्ते । यत्र नागरादौ राजा परिवसति सा राजधानी । आश्रमो यः प्रथमतस्तापसादिभिरावासितः, पश्चादपरोऽपि लोकस्तत्र गत्वा वसति। निवेशो नाम यत्र सार्थ आवासितः, आदिग्रहणेन ग्रामो वा अन्यत्र प्रस्थितः सन् यत्रान्तरवासमधिवसति; यात्रायां वा गतो लोको यत्र तिष्ठति एष सर्वोऽपि निवेश उच्यते ॥ [भा.१०९२] संवाहो संवोढुं, वसति जहिं पव्वयाइविसमेसु ।
___ घोसो उ गोउलं अंसिया उ गामद्धमाईया॥ कृसम्बाधोनामयत्र कृषीवललोकोऽन्यत्रकर्षणंकृत्वावणिग्वर्गोवावाणिज्यंकृत्वाऽन्यत्र पर्वतादिषु विषमेषु स्थानेषु संवोढुम्' इति कणादिकं समुह्य कोष्ठागारादौ च प्रक्षिप्य वसति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org