________________
२९४
बृहत्कल्प-छेदसूत्रम् -१-१/६ ग्रामो भवतु ?, अपि च एवंब्रुवतो भवतो भूयसामि परस्परमतिदवीयसां ग्रामाणामेकग्रामतैव प्रसजति, न चैतदुपपन्नम्, तस्माद् नैतावान् ग्रामः किन्तु 'यत्तु यावन्मानं क्षेत्रं तृणहारककाष्ठहारकादयः सूर्येउत्थितेतृणाद्यर्थंगताःसन्तः सूर्येअस्तमयति तृणादिभारकंबद्धवापुनरायान्ति एतावत् क्षेत्रं ग्रामः २॥ [भा.१०९८]परसीमं पिवयंति हु, सुद्धतरो भणति जा ससीमातु।
उजाण अवत्ता वा, उक्कीलता उसुद्धयरो। वृ-शुद्धतरो नैगमो भणति-यद्यपि गवां गोचरक्षेत्रादासन्नतरं भूभागं तृण-काष्ठहारका व्रजन्ति तथापिते कदाचित् परसीमानमपिव्रजन्ति तस्माद्नैतावान्ग्रामउपपद्यते, अहं ब्रवीमियावत् स्वा-आत्मीया सीमा एतावान् ग्रामः ३। ततोऽपि विशुद्धतरः प्राह-मैवमतिप्रचुर क्षेत्रं ग्राम इति वोचः, किन्तु यावत् तस्यैव ग्रामस्य 'उद्यानम्' आरामस्तावद् ग्राम इति भण्यते ४ । विशुद्धतमः प्रतिभणति-एतदपि भूयस्तरं क्षेत्रम्, न ग्रामसंज्ञां लब्धुमर्हति, अहं भणामि- यावद् 'उदपानं तस्यैव ग्रामस्यसम्बन्धीकूपःतावद्ग्रामइति५।ततोऽपिविशुद्धतरोब्रूते-इदमप्यतिप्रभूतं क्षेत्रम् अतो यावत् क्षेत्रं 'अव्यक्तानि चेटरूपाणिरममाणानि गच्छन्तितावद् ग्रामः ६ । ततोऽपि विशुद्धतरः प्रतिवक्ति-एतदप्यतिरिक्ततयानसमीचीनमाभातिततोयावन्तंभूमागमतिलघीयांसो बालकाः 'उत्क्राडन्तः' रिङ्गन्तः प्रयान्ति तावान् ग्राम इति७॥ [भा.१०९९] एवं विसुद्धनिगमस्स वइपरिक्खेवपरिवुडो गामो।
ववहारस्स वि एवं, संगहो जहि गामसमवाओ॥ वृ-‘एवं विचित्राभिप्रायाणांपूर्वनैगमानासर्वाअपिप्रतिपत्तीळपोह्य सर्वविशुद्धनैगमस्य यावान् वृतिपरिक्षेपपरिवृतो भूभागस्तावान् ग्राम उच्यते।अथ सङ्गहं व्यतिक्रम्य लाघवार्थमत्रैव व्यवहारमतमतिदिशति-“ववहारस्सविएवं"तियथा नैगमस्यानेकेप्रतिपत्तिप्रकाराःप्ररूपितास्तथा व्यवहारस्याप्येवमेवप्ररूपणीयाः, तस्य व्यवहाराभ्युपगमपरायणत्वात्। सङ्ग्रहस्तुसामान्यग्राहित्वाद् यत्र ग्रामस्य-ग्रावास्तव्यलोकस्य समवायः-एकत्र मीलनं भवति तद्वानमन्तदेवकुलादिकं ग्राम इति ब्रूते ।। इदमेव प्रकारान्तरेणाह[भा.११००] जंवा पढमं काउं, सेसग गामो निविस्सइस गामो।
तंदेउलं सभा वा, मज्झिम गोट्ठोपवा वा वि॥ वृ-यद् वा प्रथमं कृत्वा' निवेश्य शेषः सर्वोऽपि ग्रामो निविशते स सङ्ग्रहनयाभिप्रायेण ग्रामः । तच्च देवकुलं वा भवेत् सभा वा ग्राममध्यवर्ती वा गोष्ठः प्रपावा॥
अथावग्रहपदं विवृण्वन् ऋजुसूत्रनयमतमाह[भा.११०१] उज्जुसुयस्स निओओ, पत्तेयघरंतु होए एक्वेक्कं ।
उठेति वसति व वसेण जस्स सद्दस्स सो गामो॥ वृ-ऋजुसूत्रस्य स्वकीयार्थग्राहकत्वात् परकीयस्य च सतोऽप्यनभ्युपगमाद् यस्य यत् प्रत्येकमात्मीयांवग्रहरूपेकैकंगृहं तनियोगइति प्रतिपत्तव्यम् । नियोग इतिग्रामइतिचैकोऽर्थः। आह च विशेषचूर्णिकृत्-गामोत्तिवानिओउ त्ति वाएगहूँ। “तत्तोयआहिवई" इति व्याख्यानयन् शब्दनयमतमाह-"उद्वेति" इत्यादि । 'शब्दस्य' शब्दाख्यनयस्य यस्य कस्यापि वशेन ग्रामः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org