________________
२८०
वा येनैवमभिधीयते ? उच्यते
बृहत्कल्प-छेदसूत्रम् - १-१/५
[भा. १०४६] न वि छम्महव्वया नेव दुगुणिया जह उ भिक्खुणीवग्गे । बंभवयरक्खणट्ठा, न कप्पती तं तु समणीणं ।।
वृ- नापि निर्ग्रन्थीनां षड् महाव्रतानि, नैव साधूनां सम्बन्धिभ्यः पञ्च महाव्रतेभ्यः 'द्विगुणितानि ' दशेत्यर्थः, यथा सौगतानां मते भिक्षुणीवर्गे द्विगुणानि शिक्षापदानि भवन्ति न तथाऽत्रकिन्तु पञ्चेवेति भावः । यद्येवं तर्हि किमर्थमत्र निर्ग्रन्थीनामभिन्नं न कल्पते ? उच्यते ब्रह्मव्रतरक्षणार्थं 'तत्तु' अभिन्नं श्रमणीनां न कल्पते, मा करकर्मादिकमनेन कार्षुरिति कृत्वा ॥
न केवलमत्रैव प्रलम्बे श्रमणीनां विशेषः किन्त्वन्यत्रापीति दर्शयति[ भा. १०४७] अन्नत्य वि जत्थ भवे, एगयरे मेहुनुब्भवो तं तु । तस्सेव उपडि, बिइयस्सऽन्त्रेण दोसेणं ॥
वृ- अन्यत्रापि यत्र भुक्ते स्पृष्टे वा "एगयरे" इति षष्ठी - सप्तम्योरर्थं प्रत्यभेदात् 'एकतरस्य' साधुपक्षस्य साध्वीपक्षस्य वा मैथुनौद्भवो भवति 'तत्तु' वस्तु 'तस्यैव' विवक्षितपक्षस्य, तुशब्दो मैथुनोद्भवदोषपरिहारार्थमित्यस्यार्थस्य सूचनार्थ, 'प्रतिक्रुष्टं' प्रतिषिद्धम् । द्वितीयस्य तु पक्षस्य तदेव 'अन्येन' असंयमलक्षणेन दोषेण प्रतिषिध्यते ।। निदर्शनमाह
[भा. १०४८] निल्लोम- सलोमऽजिने, दारुगदंडे सर्बेट पाए य । बंभवयरक्खणट्ठा, वीसुं वीसुं कया सुत्ता ॥
वृ- यथा निर्ग्रन्थानां निर्लोमाजिनं स्मृतिकरण-कौतुकादिदोषपरिहारार्थं प्रतिषिद्धम्, निर्ग्रन्थीनां पुनः प्राणिदयानिमित्तमतिरिक्तोपधिभारपरिहारार्थं च तदेव प्रतिषिध्यते; एवं सलोमाजिनं निर्ग्रन्थीनां स्मृतिकरणादिदोषनिवारणार्थम्, निर्ग्रन्थीनां पुनस्तदेव प्राणिदयानिमित्तं प्रतिषिद्धम् । दारुदण्डकं पादप्रोञ्छनं सवृन्तपात्रं च च निर्ग्रन्थीनां ब्रह्मव्रतानुपालनार्थं निर्ग्रन्थानां पुनरतिरिक्तोपधिदोषपरिहरणार्थं नानाज्ञातम् । एवं ब्रह्मव्रतरक्षणार्थं निर्ग्रन्थानां निर्ग्रन्थीनांच 'विष्वग् विष्वक्' पृथक् पृथक् सूत्राणि कृतानि ।। आह कर्मोदयादेव प्राणिनां मैथुनोद्भवो भवति, ततः किमेवं सलोमादिपरिहारः क्रियते ? उच्यते
[भा. १०४९] नत्थि अनिदानओ होइ उब्भवो तेन परिहर निदानं । ते पुनतुल्ला-तुल्ला, मोहनिदाणा दुपक्खे वि ।।
वृ- निदानं कारणमित्येकोऽर्थः तच्चेहेष्टशब्द-रूप-रस- गन्ध-स्पर्शात्मकं यत् प्रतीत्य पुरुषवेदादिमोहनीयमुदयमासादयति । तदुक्तम्
दव्वं खेत्तं कालं, भावं च भवं तहा समासज्ज ।
तस्स समासुद्दिट्ठो, उदओ कम्मस्स पंचविहो ।
ततश्च 'नास्ति' न विद्यते एतद् यद् 'अनिदानकः' निदानमन्तरेण मोहनीयोद्भवो भवति, 'तेन' कारणेन परिहर 'निदानम्' इष्टशब्दादिरूपम् । 'ते पुनः' शब्दादयो मोहनिदानभूता द्वयोः पक्षयोः समाहारो द्विपक्षं पुरुषवर्गद्वयं तस्मिन् द्विपक्षेऽपि मोहोद्भवं प्रति केचित् तुल्याः केचित् त्वतुल्याः ॥ तानेवाह
[ भा. १०५०] रस-गंधा तहि तुल्ला, सद्दाई सेस भय दुपक्खे वि ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org