________________
उद्देशकः १, मूलं-५, [भा. १०४१]
२७९
____ गुरुगा होति अनंते, पच्छित्ता संजईणं तु ॥ वृ-आयेषु त्रिषु भङ्गेषु परीत्तवनस्पती चत्वारो लघुकाः प्राग्वत् तपः-कालविशेषिताः, भावतोऽभिन्नत्वात् । उत्तरेषु त्रिषु भङ्गेषु परीत्तवनस्पतावेव लघुको मासस्तपः-कालविशेषितः प्राग्वत्, भावतोभिन्नत्वात् ।अनन्तवनस्पतौतुत एवगुरुकाःकर्तव्याः, चत्वारोगुरवोगुरुमासाश्चेति भावः । इत्थं षट्स्वपि भङ्गेषुसंयतीनांप्रायश्चित्तानिद्रष्टव्यानि ।।अथ हस्तकर्मसम्भवा-ऽसम्भवौ चेतसि व्यवस्थाप्य प्रकारान्तरेणात्रैव प्रायश्चित्तमाह[भा.१०४२]अहवा गुरुगा गुरुगा, लहुगा गुरुगाय पंचमे गुरुगा।
छट्ठम्मिहवति लहुतो, लहुगत्थाणे गुरूऽणंते॥ वृ-अथवा प्रथमे भङ्गे गुरुकाः, अभिन्नत्वात् । द्वितीयेऽपि गुरुकाः, अविधिभिन्नत्वात् । तृतीयेलघुकाः, विधिभिन्नत्वात्।चतुर्थे गुरुकाः, अभिन्नत्वात् । पञ्चमेऽपिगुरुकाः,अविधिभिन्नत्वात्। षष्ठे लघुको मासः, विधिभिन्नत्वात् । एतच्च परीत्ते भणितम्। अनन्ते तु लघुकस्थाने गुरुकम्, यत्र चतुर्लघवस्तत्र चतुर्गुरवो यत्र लघुमासस्तत्र गुरुमास इत्यर्थः ॥ [भा.१०४३]आयरिओ पवत्तिणीए, पवित्तिणी भिक्खूणी न कहेइ। .
गुरुगा लहुगा लहुओ, तत्थ विआणाइणो दोसा। वृ-एतत् प्रलम्बसूत्रमाचार्य प्रवर्त्तिन्या न कथयति चत्वारो गुरवः । प्रवर्तिनी भिक्षुमीनां नकथयति चत्वारो लघवः ।यदि भिक्षुण्योनशृण्वन्तिततोलघुमासः। तत्रापि' अकथनेऽश्रवणे वा आज्ञादयो दोषाः ।। [भा.१०४४] गेण्हंतीणं गुरुगा, पवत्तिणीए पवत्तिणी जइ वा।
नसुती गुरुगाती, मासलहू भिक्खुणी जाव ॥ वृ-यदि भिक्षुणीनांप्रलम्बंगृह्णतीनांप्रवर्तिनी सारणादिकंनकरोतितदाप्रवर्त्तिन्याश्चत्वारो गुरवः । प्रवर्तिनी यद्याचार्याणां कथयतां न श्रणोति तदा चत्वारो गुरवः । प्रवर्त्तिन्याः पार्वे गणावच्छेदिनीन शृणोतिचत्वारो लघवः । अभिषेकान श्रणोतिमासगुरु । भिक्षुणी न शृणोति मासलघु ।। अथ निर्ग्रन्थीरधिकृत्य द्वारगाथामाह[भा.१०४५]अभिन्ने महब्बयपुच्छा, मिच्छत्त विराधना य देवीए।
किं पुण ता दुविहाओ, भुत्तभोगी अभुत्ता य॥ वृ-अभिन्ने महाव्रतपृच्छ्या कर्तव्या । तथा अङ्गादानसशमभिन्न प्रलम्ब गृह्णती निर्ग्रन्थीं दृष्ट्वा कश्चिद् मिथ्यात्वं व्रजेत्-यदेषा अङ्गादानाकारमेवंविधं फलं गृह्णाति तद्नूनमेतेषांतीर्थकृता नैष दोषो दृष्टः, असर्वज्ञ एवामीषां गुरुरित्यादि । विराधना भवेत् । तत्र च देव्या दृष्टान्तो वक्तव्यः । यदि च तस्या अपि देव्याः प्रतिसेवनाकौतुकं समजनि किं पुनः श्रमणीनाम् ? इति वक्तव्यम्। ताश्च श्रमण्यो द्विविधाः-भुक्तभोगिन्योऽभुक्तभोगिन्यश्चेति समासार्थः॥अथ विस्तरार्थोऽभिधीयते-तत्र प्रथममभिन्ने महाव्रतपृच्छाद्वारम्, शिष्यः पृच्छति-निग्रन्थानां भिन्नमभिन्नं वापक्वं कल्पते, निर्ग्रन्थीनांपुनर्भिन्नमेव कल्पतेनामिन्नम्तदपि विधिभिन्नमित्यत्र यथा भेदस्तथा किमेवं महाव्रतेष्वपि तासां भेदः ?; यथा किल तच्चन्निकानां मते भिक्षूणामर्द्धतृतीयानि शिक्षापदशतानि भिक्षुणीनां पञ्च शिक्षापदशतानि, एवं किं निर्ग्रन्थीनामपि षण्महाव्रतानि दश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org