________________
२७८
बृहत्कल्प-छेदसूत्रम् -१-१/५ [भा.१०३५] संजम-चरित्तजोगा, उग्गमसोही य भावपक्वंतु।
अन्नो वि य आएसो, निरुवक्कमजीवमरणंतु ॥ वृ-संयमयोगाः-प्रत्युपेत्रक्षणादयश्चारित्रंच मूलोत्तरगुणरूपंसुविशुद्ध भावपक्व मुच्यते। गाथायांबन्धानुलोम्येन चारित्रशब्दस्यव्यत्यासेन निर्देशः।यद्वायाउद्गमादीनांदोषाणांशुद्धिस्तद् भावपक्वम् । अन्योऽप्यादेशो वर्तते-येन यद् आयुष्कं निर्वर्तितं तत्सर्वमनुपाल्य म्रियमाणस्य निरुपक्रमायुर्जीवस्य यद्मरणंतद्भावपक्कम्।अत्रच द्रव्यपक्वेणाधिकारः, तत्रापिपर्यायपक्वेण, तत्रापि वृक्षपर्यायपक्वेणेति ॥ गतं पक्वपदम् । अथ भिन्ना-ऽभित्रपदे व्याचष्टे[भा.१०३६]पक्के भिन्ना-ऽभिन्ने, समणाण वि दोसो किं तु समणीणं ।
समणे लहुओ मासो, विकडुभमाई य ते चेव ॥ वृ- ‘पक्कं' यद् निर्जीवं तद् द्रव्यतो भिन्नं वा स्यादभिन्नं वा, तत्रोभयेऽपि श्रमणानामपि दोषो भवति 'किं तु' किं पुनः श्रमणीनाम् ? । श्रमणा यदि गृह्णन्ति ततो मासलघु द्वाभ्यामपि तपः-कालाभ्यां लघुकम्, विकटुभ-पलिमन्थादयश्च त एव दोषाः । इदमेव स्फुटतरमाह[भा.१०३७] आणादि रसपसंगा, दोसा ते चेवजे पढमसुत्ते।
इह पुनसुत्तनिवाओ, ततिय-चउत्थेसु भंगेसु ।। वृ-आज्ञादयो रसप्रसङ्गादयश्च दोषास्त एव पक्वप्रलम्बग्रहणेऽपि भवन्ति ये प्रथमसूत्रे अभिहिताः। यद्येवंततः सूत्रमपार्थकमित्याह-इह पुनःसूत्रनिपातस्तृतीय-चतुर्थयोभङ्गयोर्भवति, भावतो भिन्नमिति कृत्वा तृतीय-चतुर्थरूपं भङ्गद्वयमधिकृत्य सूत्रं प्रवृत्तमिति भावः ॥ [भा.१०३८] एमेव संजईण वि, विकडुभ-पलिमंथमाइया दोसा।
कम्माईया य तहा, अविभिन्ने अविहिभिन्ने य॥ वृ-एवमेव संयतीनामपि विकटुभ-पलिमन्थादयो दोषाः। तथा अविभिन्नेऽविधिभिन्ने चप्रलम्बे हस्तकर्मादयः सविशेषादोषामन्तव्याः, अतस्तासांविधिभिन्नमेवकल्पतेनाविधिभिन्नम्।। अत्र च षड्भङ्गीमाह[भा.१०३९]विहि-अविहीभिन्नम्मि य, समणीणं होंतिमे उ छ भंगा।
पढमं दोहि अभिन्नं, अविहि-विही दव्व बिइ-तइए। वृ-“से वि य विहिभिन्ने नो चेव णं अविहिभिन्ने" इत्यत्र श्रमणीनां सूत्रे इमे षड् भङ्गा भवन्ति । “पढम" इत्यादि,प्रथमं द्वाभ्यामपि भावतोऽपिद्रव्यतोऽप्यभिनन्म, द्वितीयं भावतोऽभिन्नं द्रव्यतोऽविधिभिन्नम्, तृतीयं भावतोऽभिन्नं द्रव्यतो विधिभिन्नम् ॥ [भा.१०४०] एमेव भावतो विय, भिन्ने तत्थेक्क दव्वओ अभिनं ।
पंचम-छठे दोहि वि, नवरं पुन पंचमे अविही। वृ- एवमेव भावतो भिन्नेऽपि भङ्गत्रयम् । तत्रैकं चतुर्थ भावतो भिन्नं द्रव्यतोऽभिन्नम्, पञ्चमषष्ठौ भनौ द्वाभ्यामपि भिन्नौ, 'नवरं' केवलं पञ्चमेऽविधिभिन्नम्, भावतो भिन्नं द्रव्यतोऽविधिभिन्नमिति भावः । अर्थादापन्नं षष्ठे भावतो भिन्नं द्रव्यतो विधिभिन्नमिति ।।
अथ षट्स्वपि भङ्गेषु यथाक्रमं प्रायश्चित्तमाह[भा.१०४१] लहुगा तीसुपरिते, लहुओ मासो उ तीसु भंगेसु ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org