SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २७७ उद्देशक ः १, मूलं-२, [भा. १०३२] [भा.१०३२]भावियकुलेसु गहणं, तेसऽसति सलिंगे गेण्हमाऽवन्नो । विकरणकरणालोयण, अमुगगिहे पच्चओ गीते॥ वृ-अथ पूर्वच्छिन्नं न लभ्यते तत आत्मानऽपि च्छिन्दन्ति । तच्च पूर्वच्छिन्नं भावितकुलेषु ग्रहीतव्यम् । तत्र यानि श्राद्धकुलानि माता-पितृसमानानि साधूनामपवादपदेऽप्राशुकादिकं गृह्णतामनुड्डाहकारीणितानि भावितकुलान्युच्यन्ते। तेषामसति यद्यभावितकुलेषु स्वलिङ्गेनगृह्णाति ततो महानवर्णो भवति, अतस्तेषवन्यलिङ्गेन ग्रहीतव्यमिति लिङ्गद्वारमपि व्याख्यातम् । अथवा भावितकुलानामभावे यानि सुप्रज्ञापनीयानि कुलानि तानि प्रज्ञाप्य मार्गयति गृह्णाति च, एषा प्रज्ञापनामन्तव्या।एतानि पुनःप्रथम-द्वितीयभङ्गवर्तीनिप्रलम्बानियत्रगृहीतानितत्रैव विकरणानि कृत्वाआनीय गुरुसमीपेआलोचयतिअगीतार्थप्रत्ययनिमित्तम्, यथा-अमुकस्यगृहे स्वार्थंकृतानि मया लब्धानीत्येषा आलोचना । यतना तु-सर्वथा पूर्वच्छिन्नानामलाभे स्वयमपि च्छेत्तव्यानि, तानि च प्रथमं परीत्तानि, ततोऽनन्तान्यपि, पूर्वं स्वलिङ्गेन, तत इतरेणापि॥ एतच्च निर्ग्रन्थानाश्रित्य भणितम् । अथ निर्ग्रन्थीनां विधिमतिदिशन्नाह[भा.१०३३] एतेव अमी नियमा निग्गंथीण। आमे भिन्नाऽभिन्ने, जाव उ पउमुप्पलाईणि ॥ वृ-एष एव गमो नियमाद् निर्ग्रन्थीनामपि ज्ञातव्यो यावत् पद्मोत्पलादीनि “पउमुप्पल माउलिंगे" इत्यादिगाथां यावत् । एतच्च नियुक्तिमङ्गीकृत्योक्तम्, भाष्यमाश्रित्य तु-"अमुगगिहे पच्चओ गीए" त्ति पर्यन्तं द्रष्टव्यम् । नवरं तासामामे प्रलम्बे भिन्ना-ऽभिन्नपदाभ्यां विधिभिन्नाऽविधिभिन्नपदसहिताभ्यां षड् भङ्गाः कर्त्तव्याः, ते चानन्तरसूत्रे स्वस्थान एव भावयिष्यन्ते ।। सूत्रम् मू. (३) कप्पइ निग्गंथाणं पक्के तालपलंबे भिन्ने वा अभिने वा पडिगाहित्तए। मू. (४) नो कप्पइ निग्गंथीणं पक्के तालपलंबे अभिन्ने पडिगाहित्तए॥ मू. (५) कप्पइ निग्गंथीणं पक्के तालपलंबे भिन्ने पडिगाहित्तए से विय विहिभिन्ने नोचेव णं अविहिभिन्ने ॥ वृ- एतानि त्रीणि सूत्राणि समकमेव व्याख्यायन्ते-कल्पते निर्ग्रन्थानां पक्वं तालप्रलम्बं द्रव्यतो भिन्नं वा अभिन्नं वा प्रतिग्रहीतुम् ३ । नो कल्पते निर्ग्रन्थीनां पक्वं तालप्रलम्बमभिन्नं प्रतिग्रहीतुम्४।कल्पतेनिर्ग्रन्थीनां पक्कं तालप्रलम्बंद्रव्यतो भिन्नंप्रतिग्रहीतुम्, तदपिच विधिभिन्नं' विधिना-वक्ष्यमाणलक्षणेन भिन्न-विदारितम्, नैव ‘णं' वाक्यालङ्कारे अविधिभिन्नमिति सूत्रार्थः ५॥अथ नियुक्तिविस्तरः[भा.१०३४] नामं ठवणा पक्कं, दव्वे भावे य होइ नायव्वं । उस्सेइमाइतं चिय, पक्किंधणजोगतो पक्कं ।। वृ-नामपक्वं स्थापनापक्वं द्रव्यपक्वं च भवति ज्ञातव्यम् । तत्र नाम-स्थापने गतार्थे । द्रव्यपक्वं तदेवोत्स्वेदिमादिकं यद् आमं भणितम् । किमुक्तं भवति ?-यद् द्रव्यामं उत्स्वेदिमसंस्वेदिमोपस्कृतपर्यायामभेदात् चतुर्द्धा भणितम् तदेव यदा इन्धनसंयोगात् पक्वमुपजायते तदा द्रव्यपक्वं मन्तव्यम् ॥ गतं द्रव्यपक्कम् । भावपक्वमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy