________________
२७६
बृहत्कल्प-छेदसूत्रम् -१-१/२ "सिंभे"त्ति श्लेष्मोदये निम्बपत्राणि ।।अथ यदुक्तं “तिन्नि य पुरिसाऽऽयरियमाइ" तितदेतद् भावयति[भा.१०३०]गणि-वसभ-गीत-परिणामगा य जाणंतिजं जहा दव्वं ।
इयरे सिंवाउलणा, नायम्मि य भंडि-पोउवमा॥ वृ-योऽसौ ग्लानः स गणी-आचार्यो वृषभः-उपाध्यायो भिक्षुश्चेति त्रयः पुरुषाः । अत्र भिक्षुर्द्विधा-गीतार्थोऽगीतार्थश्च, परिणामकोऽपरिणामको वा । तत्र गणि-वृषभ-गीतार्थभिक्षूणां त्रयाणां पुरुषाणां प्राशुकैषणीयेन द्रव्येणाऽऽलेपनादि कर्त्तव्यम्; यदा प्राशुकमेषणीयं वा न प्राप्यते तदा तदितरेणापि कर्त्तव्यम् । एतेषां च यद् यथा गृहीतं तत् तथैव निवेद्यते, निवेदितेच तेतथैवागमप्रामाण्येन सचित्तमचित्तं वाशुद्धमशुद्धं वा द्रव्यं यद्यस्मिन्नवसरे कल्पते तद् यथावद् जानन्ति । यस्त्वगीतार्थ परं पारिणामिकः सोऽपि यद् यथा क्रियते तत् तथैव परिणामकत्वात् कथितं सद् जानीते । 'इतरे' अपरिणामकाः सन्तो येऽगीतार्थास्तेषां न कथ्यते, यथा 'अप्राशुकमनेषणीयं वा गृहीतम्' किन्तु तेषां व्याकुलना क्रियते, यथा 'अमुकगृहादात्मार्थ कृतमानीतमिदम् । अथ कथमपि तैतिं यथा 'एतदप्राशुकमनेषणीयं वा' ततो ज्ञाते सति भण्डी-गन्त्री पोतः-प्रवहणं तदुपमा कर्तव्या । यथा
जा एगदेसे अदढा उभंडी, सीलप्पए सा उ करेति कज्जं । जा दुब्बला सीलविया वि संती, नतंतु सीलेंति विसिन्नदारूं।
_ 'शीलाप्यते' समारच्यते इत्यर्थः । तथाजो एगदेसे अदढो उ पोतो, सीलप्पए सो उ करेइ कजं ।
जो दुब्बलो सीलविओ वि संतो, न तंतु सीलेंति विसिन्नदारुं॥ एवं त्वमपि यदिजानी-'अहंप्रगुमीमविष्यामि, प्रगुणीभूतश्च प्रायश्चित्तं वोढास्मि, अपरं च स्वाध्याय-वैयावृत्य-तपःप्रभृतिभिरधिकं लाभमुपार्जयिष्यामि' इति तत इदं प्रतिसेवस्व अकल्पनीयम्; अर्थतेषामसमर्थस्ततो मा प्रतिसेवस्वेति ॥ गतं वैद्यप्रच्छन-यतनापुरुषलक्षणं द्वारत्रयम् । अथ लिङ्गादीनि सर्वाण्यपि द्वाराणि गाथाद्वयेन भावयति[भा.१०३१] सो पुन आलेवो वा, हवेज आहारिमं व मिस्सियरं ।
पुव्वं तु पिट्ठगहणं, विगरण जं पुवछिन्नं वा॥ वृ- यो वनस्पतिभेदो व्रणादौ पित्तोदयादौ वा उपयुज्यते स पुनरालेपो वा स्यात्, बहिपिण्डीप्रदानादिक इत्यर्थः, 'आहारिमंवा' बीजपूरादिकम् । तच्चोभयमपिप्रथमतोऽचित्तम्, तदलाभे मिश्रम, तस्याप्यभावे इतरत्' सचित्तम् । अथवा 'मिथ' नाम य आलेप आहारयितव्यं चभवति, 'इतरत्' नामयन्नालेपो नाहारयितव्यम् । तच्च स्पर्शेन स्पर्शनीयं वास्यात्पद्मोत्पलवद्, नासिकया आघ्रातव्यं वा भवेत् पुष्पादिवत् । एतावता द्रव्यग्रहणद्वारं व्याख्यातम् । अथ पिष्टापिष्टद्वारम्-तत्राऽऽलेपादिकंसर्वमपि यत्पूर्वपिष्टं लभ्यतेतस्य ग्रहणंकर्तव्यम्, पूर्वपिष्टस्यालाभे तृतीयेनापि भङ्गेन, तस्याप्यलाभे द्वितीयेन, तस्याप्यसति प्रथमभङ्गेन यत् पूर्वच्छिन्नं तद् विकरणं कृत्वा ग्राह्यम्, विविधम्-अनेकप्रकारं करणं-खण्डनं यस्य तद् विकरणम्, तत् ताशं चानीय पेषणीयम् । एतेन च यदधस्तादुक्तं “इयरे गहणंकहं होजा" इति तद् एवं भवेदितिप्रतिपत्तव्यम्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org