________________
२७५
उद्देशक : १, मूलं-२, [भा. १०२५] क्रमेण-पञ्चकपरिहाण्याकरोति ततश्चत्वारो गुरवः, अनागाढेतुयद्यागाढकरणीयं करोति करोति तदा चत्वारो लघवः ।। एतदेव स्पष्टयन्नाह[भा.१०२६] आगाढमनागाढं, पुव्वुत्तं खिप्पगहणमागाढे ।
फासुगमफासुगंवा, चउपरियट्ट तऽनागाढे ।। कृ-आगाढमनागाढंच पूर्वोक्तम्' “अहिडक्क विसविसूइय" इत्यादिनापूर्वमेव व्याख्यातम्। तत्रागाढे शूल-विसूचिकादौ ग्लानत्वे समुत्पन्ने प्राशुकमप्राशुकं वा एषणीयमनेषणीयं वा क्षिप्रमेव ग्रहीतव्यम् । अथागाढे त्रिपरिवर्तनरूपया पञ्चकपरिहाणिरूपया वा यतनया क्रमेण गृह्णाति ततश्चत्वारो गुरवः । अनागाढे पुनस्त्रिकृत्वः परिवर्तने कृतेऽपि यदि शुद्धं न प्राप्यते ततश्चतुर्थे परिवर्तेपञ्चकादियतनया अनेषणीयंगृह्णाति।अथानागाढे त्रि-परिवर्तनंपञ्चकपरिहाणिं वा न करोति ततश्चतुर्लघवः ।। अथ ग्लानत्वविषयां यतनामाह[भा.१०२७] विज्जे पुच्छण जयणा, पुरिसे लिंगेय दव्वगहणे य।
पिट्ठमपिढे आलोयणा य पन्नवण जयणाय ॥ वृ-प्रथमतो वैद्यस्वरूपं वक्तव्यम् । ततस्तस्य पार्वे यथा प्रच्छने यतना क्रियते तथा वाच्यम् । 'पुरुषः' आचार्यादिकोऽभिधातव्यः । "लिंगे य"त्ति स्वलिङ्गेनाऽन्यलिङ्गेन वा यथा प्रलम्बग्रहणं भवति तथा वक्तव्यम् । 'द्रव्यग्रहणंवा' लेपादिद्रव्योपादानमभिधानीयम् । पिष्टस्यापिष्टस्य च प्रलम्बस्य ग्रहणे विधिर्वक्तव्यः । तत आलोचना प्रज्ञापना यतना चाभिधातव्येति नियुक्तिगाथासमासार्थः ।। अथास्या एव भाष्यकृ व्याख्यानमाह[भा.१०२८] वेजट्ठग एगदुगादिपुच्छणेजा चउक्कउवएसो।
इह पुन दव्वे पलंबा, तिन्नि य पुरिसाऽऽयपरियमाई ॥ वृ- 'वैद्याष्टकम्' अष्टौ वैद्याः
संविग्ग १ मसंविग्गा २, लिंगी ३ तह सावए ४ अहाभद्दे ५।
___ अनभिग्गहमिच्छे ६ तर ७, अट्ठमए अन्नतित्थी य ८॥ इति गाथोक्ताः प्रष्टव्याः । एते च मासकल्पप्रकृते ग्लानद्वारे व्याख्यास्यन्ते । एतेषां च प्रच्छने इयं यतना-वैद्यस्य समीपे एकः प्रच्छको न गच्छति, मा 'यमदण्ड आगतः' इति निमित्तं ग्रहीत; द्वावपि न व्रजतः, 'यमदूतावेतौ' इति मननात; आदिशब्दात् चत्वारोऽपि न व्रजन्ति, 'नीहरणकारिण एते' इति कृत्वा; यत एवं ततस्त्रयः पञ्च वा गच्छन्ति इत्यादिको विधिस्तावद् ज्ञेयो यावत् 'किमस्मिन् रोग प्रतिकर्तव्यम् ?' इति पृष्टः सन् स वैद्यश्चतुष्कोपदेशं दद्यात् । तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । एतेच ग्लानद्वार एव व्याख्यास्यन्ते । इह पुनर्द्रव्यतः प्रलम्बानि, पुरुषाश्च त्रयः ‘आचार्यादयः' आचार्योपाध्याय-भिक्षुरूपा द्रष्टव्या इति । तत्र वैद्यः पृष्टः कदाचिदेवमभिदध्यात्-याशं रोगं यूयं कथयत ईद्दशस्योपशमनार्थमिदं वनस्पतिजातं ग्लानस्य दातव्यम्॥ सचवनस्पतिर्यो यस्य रोगस्योपशमनाय प्रभवतितद्विषयंतमभिधित्सुराह..[भा.१०२९] पउप्पले माउलिंगे, एरंडे चेव निंबपत्ते य ।
पित्तुदय सन्निवाए, वायक्कोवेय सिंभे य॥ वृ-पित्तोदयेपद्मोत्पलमौषधम्, सन्निपाते मातुलिङ्गं बीजपूरकम्, वातप्रकोपेएरण्डपत्राणि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org