________________
उद्देशक : १, मूलं-५, [भा. १०५०]
२८१ सरिसे वि होइ दोसो, किं पुन ता विसम वत्थुम्मि॥ वृ-स्त्रीणां पुरुषाणां च 'तत्र' मोहोद्भवे रस-गन्धास्तुल्याः । किमुक्तं भवति ? -यथा स्निग्ध-मधुरादिरसैः स्रक्-चन्दनादिगन्धैश्च पुरुषाणामिन्द्रियाणि मोहोद्रेकभाजि भवन्ति तथा स्त्रणांमपीतिमोहोद्भवं प्रति रस-गन्धास्तुल्याः । 'शेषान्' शब्द-रूप-स्पर्शान् “भज' विकल्पय "द्विपक्षेऽपि' उभयपक्षयोरपि । यतः पुरुषस्य पुरुषसम्बन्धिनि शब्दे श्रुते रूपे द्दष्टे स्पर्शे च स्पृष्टे मोहोदयो भवेद् वा न वा, यदि भवेन्न ताद्दशस्तीव्रः, स्त्रसम्बन्धिनि तु प्रायो भवत्येव तीव्रश्च जायते; स्त्रियास्तु स्त्रिसम्बन्धिषु शब्द-रूप-स्पर्शेषु गोचरमुपागतेषु मोहोद्रेको भवेद् वा न वा, यदि भवेन ताशस्तीव्रः, पुरुषसम्बन्धिषु तु प्रायो भवत्येव तीव्रश्च भवति । तदेवं सहशेऽपि स्पर्शादौ वस्तुनि दोषो भवति, किं पुनस्तावद् 'विषमे' विसशे वस्तुनि ? इति । यतश्चैवमतः सलोम-निर्लोमादीन्यतुल्यनिदानानि विशेषतः परिहियन्ते; अत एव चात्राभिन्नमविधिभिन्नंचन कल्पते। गतमभिन्ने महाव्रतपृच्छेति द्वारम् । मिथ्यात्वद्वारंतुसुबोधत्वाभाष्यकृतान भावितम्। अथ विराधनाद्वारम्-अभिन्नं गृह्णतीनां निर्ग्रन्थीनामात्मनो ब्रह्मव्रतस्य वा विराधना भवेत् । अत्र च देव्या दृष्टान्तः । तमेवाह[भा.१०५१]चीयत्त कक्कडी कोउ कंटक विसप्प समिय सत्थे य ।
___ पुनरवि निवेस फाडण, किमु समणि निरोह भुत्तितरा ।। वृ-एगस्स रन्नो महादेवी। तीसे कक्कडियाओ पियाओ।ताओअएगो निउत्तपुरिसो दिने दिने आनेति । अन्नया तेन पुरिसेन अहापवित्तीए अंगादानसंठिया कक्कडिया आनिता । तीसे देवीएतं कक्कडियं पासेत्ता कोतुयं जायं-पेच्छामि ताव केरिसो फासो त्ति एयाए पडिसेवियाए? ताहे ताए सा कक्कडिया पादे बंधिउंसागारियट्ठाणं पडिसेविउमाढत्ता । तीसे कक्कडियाए कंटओ आसी, सो तम्मि सागारिए लग्गो । विसप्पियं च तं । ताहे वेज्जस्स सिटुं । ताहे वेज्जेणं समिया मद्दिया, तत्थ निवेसाविया, उट्ठवेत्ता सुसियप्पदेसं चिंधियं । तम्मि पदेसे तीए अपेच्छमाणीए सत्थयं उप्परामुहधारं खोहियं । पुणो तेनेवागारेण निवेसाविया । फोडियं । पूएण समं निग्गओ कंटओ। पउणा जाया। जति ताव तीसे देवीए दंडिएण पडिसेविजमाणीए कोउयं जायं, किमंग पुन समणीणं निच्चणिरुद्धाण भुत्तभोगीणं अभुत्तभोगीण य? ॥
अथ गाथाक्षरार्थ-राज्ञः कस्यचिद् देव्याः कर्कटिकाः “चीयत्ता" इति प्रीतिकराः, रुच्या इत्यर्थः । अङ्गादानाकारं च कर्कटिकां दृष्ट्वा कौतुकमुत्पन्नम् । ततः प्रतिसेवमानायास्तस्याः कण्टकः सागारिके लग्नः । विसर्पितं च तत् सागारिकम् । ततो वैद्येन ‘समिता' कणिक्का तस्यां मर्दितायां निवेशिता । ततः शुष्कप्रदेशे शस्त्रकं प्रक्षिप्तम् । ततः पुनरपि तथैव निवेश्य तेन शस्त्रकेण सागारिकस्यपाटने कृते पूयेन समंकण्टके निर्गते प्रगुणीकृता । यदि तस्या अप्येवंविधं कौतुकमजनिष्ट, किं पुनः श्रमणीनां नित्यनिरोधानां भुक्तानाम् ‘इतरासां वा' अभुक्तानाम् ॥ ... इदमेव स्पष्टयन्नाह[भा.१०५२]कसिणाऽविहिभिन्नम्मि य, गुरुगा भुत्ताण होइ सइकरणं।
__इयरासि कोउगाई, धिप्पते जं चउ उड्डाहो ॥ । वृ- कृत्सम्-अभिन्नं तत्र अविधिभिन्ने च श्रमणीनां चत्वारो गुरुकाः, भुक्तभोगिनीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org