________________
२७१
-
उद्देशक ः १, मूलं-२, [भा. १००८] आसेव्यमानानि न दोषायोपतिष्ठन्ते, “इयरे"त्ति इतरस्मिन्-अकार्ये यतनया वा अयतनया वाऽऽसेव्यमानानि दोषायोपकल्पन्ते ॥ अपि च[भा.१००९] आयुहे दुनिसहम्मि, परेण बलसा हिए।
वेताल इव दुजुत्तो, होइ पच्चंगिराकरो॥ वृ-यथा केनापि शारीरबलदर्पोद्धृतेन परवधायाऽऽयुधं निसृष्टं-मुक्तम्, तच्च दुर्निसृष्टं कृतं येन तदेव परेण 'हृतं' गृहीतम्, यद्वा अनिसृष्टमेवायुधं परेण "बलस"त्ति छान्दसत्वाद् बलात्कारेण हृतम्, ततस्तस्मिन्नायुधे दुर्निसृष्टे परेण बलात्कारेण वाहते सति तस्यैव तेन प्रतिघातः क्रियते । एवं त्वयाऽप्यस्मदभिप्रेतद्दष्टान्तप्रतिघाताय विषष्टान्त उपन्यस्तः, अस्माभिस्तु तेनैव दृष्टान्तेन “नसर्वत्र दृष्टान्तःक्रमते" इति भवप्रतिज्ञायाःप्रतिघातः कृतः, स्वाभिप्रेतश्चार्थप्रसाधित इति।तथाकेनचि मन्त्रवादिना होम-जापादिभिर्वेताल आहूतआगतश्च, सच वेतालः, किञ्चित् तदीयस्खलितं द्दष्टवा 'दुर्युक्तः' दुःसाधितो न केवलं तस्य साधकस्याभीष्टमर्थं न साधयति किन्तु कुपितः सन् 'प्रत्यङ्गिराकरः' प्रत्युत तस्यैव साधकस्योन्मत्ततादिलक्षणापकारकारी भवति; एवं भवताऽपि स्वपक्षसाधनार्थं विषदृष्टान्त उपात्तः स च दुःप्रयुक्तत्वात् प्रत्युत भवत एव प्रतिज्ञोपघातलक्षणमपकारमादधाति स्मेति ॥ किञ्च[भा.१०१०]निरुतस्स विकडुभोगो, अपत्थओ कारणे य अविहीए।
इय दप्पेण पलंबा, अहिया कज्जे य अविहीए। वृ-यथा नीरुजस्य विशेषेण कटुकं विकटुकम्-औषधमित्यर्थः तस्य योभोगः-उपयोगः, तथा 'कारणेच रोगादौ यस्तस्यैवाऽविधिनाभोगः, सउभयोऽपि अपथ्यः' अहितः-विनाशकारणं जायते। 'इति' एवं 'दर्पण' कारणाभावेनाऽऽसेव्यमानानिप्रलम्बानि अहितानि' संसारवर्द्धनानि भवन्ति, 'कार्येच' अवमौदर्यादौ अविधिना' अयतनया गृहीतानीह परत्र चाहितानि जायन्ते॥
अथ दृष्टान्तमेव समर्थयन्नाह[भा.१०११]जइ कुसलकप्पिताओ, उवमाओ न होज जीवलोगम्मि ।
छिन्नब्मं पिव गगने, भमिज लोगो निरुवमाओ॥ वृ-कुशलैः-पण्डितैः कल्पिता:-तेषु तेषु ग्रन्थेषु विरचिताः ‘उपमाः' दृष्टान्ता अस्मिन् जीवलोकेयदिनभवेयुस्तर्हि छिन्नाभ्रमिव' छिन्न-व्यवच्छिन्नमेकीभूतंयद्अभ्रंयद्यथाप्रचण्डपवनेन गगनेइतस्ततो भ्राम्यते एवमयमपि लोकः 'निरुपमाकः' तत्तदर्थप्रसाधकदृष्टान्तविकलो दोलायमानमानसः संशयादिभिरितस्ततो भ्राम्येत, न कस्याप्यर्थस्य निर्णयं कुर्यादिति भावः । उक्तं च
तावदेव चलत्यर्थो, मन्तुर्विषयमागतः।
यावन्नोत्तम्भनेनेव, दृष्टान्तेनावलम्ब्यते। एवं च बहुभिः प्रकारैर्व्यवस्थापितं दृष्टान्तं प्रमाणयन् शिष्यः प्राह-भगवन् ! यद्येवं ततः क्रियतां दृष्टान्तः । उच्यते, कुर्म, आकर्ण्यतां दत्तकर्णेन भवता[भा.१०१२] मरुएहि य दिद्रुतो, कायव्वो चउहि आनुपुव्वीए।
एवमिहं अद्धाणे, गेलन्ने तहेव ओमम्मि । वृ-'मरुकैः' ब्राह्मणैश्चतुर्भिईष्टान्तः कर्तव्य आनुपूर्व्या । एवं' मरुकष्टान्तानुसारेण इह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org