________________
२७०
प्रतिपत्तेः । तथाहि
बृहत्कल्प-छेदसूत्रम् - १- १/२
[भा. १००४] जइ दिट्टंता सिद्धी, एवमसिद्धी उ आणगेज्झाणं । अह ते तेसि पसिद्धी, पसाहए किन्नु दिट्टंतो ॥
वृ- यदि दृष्टान्तादर्थानां सिद्धिस्तर्हि 'आज्ञाग्राह्याणां ' निगोद-भव्या-ऽभव्यादीनामर्थानामसिद्धि प्रसज्येत । अथ 'ते' तव आज्ञया तेषां प्रसिद्धिस्ततः 'किन्नु' इति वितर्के 'हुः' एवमर्थे किमेवं दृष्टान्ततोऽर्थसिद्धि क्रियते ? ॥ किञ्चान्यत्
[भा.१००५]कप्पम्मि अकप्पम्मि य, दिट्ठता जेन होंति अविरुद्धा । तहान तेसि सिद्धी, विहि-अविहिविसोवभोग इव ॥
वृ- दृष्टान्तेन यद् यद् आत्मन इष्टं तत् तत् सर्वं यद्दच्छ्या प्रसाध्यते, यथा-कल्पते हिंसा कर्त्तु विधिनेति प्रतिज्ञा १, निष्प्रत्यपायत्वादिति हेतुः २, यथा विधिना विषोपभोग इति दृष्टान्तः, अस्य च भावना यथा विधिना मन्त्रपरिगृहीतं विषं खाद्यमानमदोषाय भवति, अविधिना पुनः खाद्यमानं महान्तमनर्थमुपढौकयति ३, एवं हिंसाऽपि विधिना विधीयमाना न दुर्गतिगमनाय प्रभवति, अविधिना तु विधीयमाना दुर्गतिगमनायोपतिष्ठते ४, यतश्चैवमतो निष्प्रत्यपायत्वात् कल्पते कर्तु हिंसेति निगमनम् ५ । एवं कल्प्येऽ कल्प्ये च येन कारणेन दृष्टान्ता अविरुद्धा भवन्ति, कल्प्यमप्यकल्प्यम् अकल्प्यमपि कल्प्यं यच्च्छया दृष्टान्तबलेन क्रियत इति भावः, तस्माद् नैतेभ्यो ष्टान्तेभ्योऽर्थानां सिद्धिर्भवति । गाथायां पञ्चम्यर्थे षष्ठी । विधिना अविधिना च विषोपभोग इवेति ॥ इत्थं नोदकेन स्वपक्षे स्थापिते सति सूरिराह
[भा. १००६]
असिद्धी जइ नाएणं, नायं किमिह उच्यते ।
अह ते नातो सिद्धी, नायं किं पडिसिज्झती ॥
वृ-यदि 'ज्ञातेन' दृष्टान्तेनार्थानमसिद्धिस्ततस्त्वया 'ज्ञातं ' विषदृष्टान्तः इह 'किमुच्यते' किमेवमभिधीयते ? | अथ 'ते' तव 'ज्ञाततः' दृष्टान्ततः सिद्धि ततोऽस्माभिरुच्यमानं ज्ञातं किं प्रतिषिध्यते ? ।। किञ्च[ भा. १००७]
अंधकारो पदीवेण, वज्रए न उ अन्नहा । तहा दिट्ठतिओ भावो, तेणेव उ विसुज्झई ॥
अन्धकारशब्दस्य पुंनपुंसकलिङ्गत्वाद् यथाऽन्धकारो रात्रौ प्रदीपेनैव 'वर्ज्यते' विशोध्यते 'नतु' नैवान्यथा, विशोधिते च तस्मिन् घटादिकं वस्तु परिस्फुटमुपलभ्यते; तथाऽत्रापि 'दार्थन्तिकः’ दृष्टान्तग्राह्यः ‘भावः' पदार्थोऽन्धकारवदतिगहनोऽपि 'तेनैव' दृष्टान्तेन प्रदीपकल्पेन 'विशुध्यते' निर्मलीभवति, विशुद्धे च तस्मिन् परिस्फुटा विवक्षितार्थप्रतिपत्तिर्भवतीति दृष्टान्तोपदर्शनमत्र क्रियते । किञ्च सौम्य ! प्रीणिता वयं स्ववाक्येनैव भवता यद् ध्ष्टान्तेनार्थप्रसाधनमभ्युपगतम् । असमाकमपि त्वदीय एव द्दष्टान्तः सूत्रस्य सार्थकत्वं प्रसाधयिष्यति ।। कथम् ? इति चेद् उच्यते[भा. १००८] एसेव य दिट्टंतो, विहि-अविहीए जहा विसमदोसं ।
होइ सदोसं च तथा कज्जितर जया - Sजय फलाई ॥
वृ- 'एष एव त्वदुक्तो दृष्टान्तोऽस्माभिः प्रस्तुतसूत्रार्थेऽवतार्यते यथा विधिना विषमुपभुज्यमानमदोषम्, अविधिना भुज्यमानं तदेव सदोषम् ; तथा कार्ये यतनया फलादीनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org