________________
२६९
उद्देशक : १, मूलं-१, [भा. ९९९]
वृ-एवमेव चह्नदे निर्जीवे' यथायुष्कक्षयादचित्तीभूतेऽचित्तपृथिव्यांचस्थितेत्रसवर्जिते च 'दके पानीयेह्रदस्वामिना च दत्तेतृषार्दितानांचसाधूनांस्थितिक्षयकरणेऽपिभगवान्नानुजानीते स्म ‘मा भूत् प्रसङ्गः' इति । तथा स्वामी तृतीयपौरुष्यां जिमितमात्रैः साधुभिः सार्धमेकामटवीं प्रपन्नः, “सन्न"त्ति संज्ञाया आबाधा, यद्वा “आसन्न"त्ति भावासन्नता साधूनां समजनि, तत्रच समभौमंग"-गोष्पद-बिलादिवर्जितंयथास्थितिक्षयव्युत्क्रान्तयोनिकपृथिवीकं त्रसप्राणविरहितं स्थण्डिलं वर्तते, अपरंच शस्त्रापहतंस्थण्डिलं नास्तिनवा प्राप्यते, अपिचतेसाधवः संज्ञाबाधिताः स्थितिक्षयं कुर्वन्ति तथापि भगवान् नानुज्ञांकरोति यथा अत्र व्युत्सृजत' इति, ‘मा भूदशस्त्रहते प्रसङ्गः' इति।एषअनुधर्मप्रवचनस्येति सर्वत्रयोज्यम्॥एष सर्वोऽपिविधिनिर्ग्रन्थानाश्रित्योक्तः। अथ निर्ग्रन्थीरधिकृत्यामुमेवातिदिशन्नाह[भा.१०००] एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्यो।
सविसेसतरा दोसा, तासिं पुन गिण्हमाणीणं ।। वृ-एष एव सर्वोऽपि 'गमः' प्रकारो निर्ग्रन्थीनामपि भवति ज्ञातव्यः। तासांपुनर्गृह्णतीनां प्रलम्बन हस्तकर्मकरणादिना सविशेषतरा दोषा वक्तव्या इति ।। सूत्रम्
मू. (२) कप्पइ निग्गंधाण वा निग्गंथीण वा आमे तालपलंबे भिन्ने पडिगाहित्तए ।
वृ-अस्य व्याख्या प्राग्वत् । नवरं 'भिन्नं' भावतो व्यपगतजीवम् द्रव्यतो भिन्नमभिन्नं वा, तृतीय-चतुर्थभगवर्तीत्यर्थः । एवं च सूत्रेणानुज्ञातम्, यथा-आमं भिन्नं कल्पते, अर्थतः पुनः प्रतिषेधयति-न कल्पते ।। आह यदि न कल्पते ततः किं सूत्रे निबद्धं “कल्पते" इति? उच्यते[भा.१००१] जइ वि निबंधो सुत्ते, तह विजईणं न कप्पई आमं।
जइ गिण्हइ लग्गति सो, पुरिमपदनिवारिए दोसे ।। वृ-यद्यपि सूत्रे निबन्धः “कल्पते भिन्नम्" इतिलक्षणस्तथापि यतीनां न कल्पते आमं भिन्नमपि यदि गृह्णाति ततः स पूर्वपदे-पूर्वसूत्रे निवारिताये दोषास्तान् ‘लगति' प्राप्नोति ॥आह यदि सूत्रेऽनुज्ञातमपि न कल्पते तर्हि सूत्रं निरर्थकम्, सूरिराह[भा.१००२] सुत्तंतू कारणियं, गेलन-ऽद्धाण-ओममाईसु।
जह नाम चउत्थपदे, इयरे गहणं कहं होज्जा ।। वृ-सूत्रं कारणिकम् । तानि च कारणान्यमूनि-ग्लानत्वम् अध्वा अवमौदर्यम्, एवमादिषु कारणेषु कल्पते । तत्र प्रथमतश्चतुर्थभङ्गे तदलाभे तृतीय-द्वितीय-प्रथमभङ्गेष्वपि । आह यथा नाम 'चतुर्थपदे' चतुर्थभङ्गे ग्रहणं तथा 'इतरस्मिन् भङ्गत्रये कथं ग्रहणं भवेत् ? उच्यते-तत्रापि कारणतो ग्रहणं भवत्येव । यथा च भवति तथोत्तरत्राभिधास्यते ॥अथ पुनरप्याह
पुव्वमभिन्ना भिन्ना, य वारिया कहमियाणि कप्पंति।
सुण आहरणं चोयग!,न कमति सव्वत्थ दिवंतो॥ पूर्वसूत्रेभवद्भिरभिन्नानिभिन्नानि च 'वारितानि' प्रतिषिद्धानि, कथम् ‘इदानीम्' अस्मिन् सूत्रे “कल्पन्ते" इति भणत? न युक्तंपूर्वापरव्याहतमीद्दशं वक्तुमिति भावः । अत्राचार्य प्राह'शृणु' निशमय ‘आहरणं' दृष्टान्तं हे नोदक ! यथा कल्पन्ते । अत्र नोदको गुरुवचनमनाकर्ण्य दुर्विदग्धतादध्मातःप्रतिवक्ति-आचार्य! न सर्वत्राप्यर्थे दृष्टान्तः क्रमते, दृष्टान्तमन्तरेणाप्यर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org