________________
२६८
बृहत्कल्प-छेदसूत्रम् -१-१/१
च्छत्रत्रयप्रभृतिका प्राभृतिका तेषामेवार्थाय सुरैर्विरचिता यथा समुपजीविता तथा वयमप्यस्मन्निमित्तकृतं किं नोपजीवामः ? । सूरिराह[भा.९९६]कामं खलु अनुगुरुणो, धम्मा तह वि हुन सव्वसाहम्मा।
गुरुणो जंतु अइसए, पाहुडियाई समुपजीवे ॥ वृ- 'कामम्' अनुमतं खल्वस्माकं यद् अनुगुरवो धर्मा, तथापिन सर्वसाधम्यार्त चिन्त्यते किन्तुदेशसाधम्यार्देव। तथाहि-'गुरवः' तीर्थकराः 'यत्तु यत्पुनः अतिशयान्' प्राभृतिकादीन् प्राभृतिका-सुरेन्द्रादिकृता समवसरणरचना आदिशब्दादवस्थितनख-रोमा-ऽधोमुखकण्टकादिसुरकृतातिशयपरिग्रहः तान्समुपजीवन्ति सतीर्थकरजीतकल्पः' इति कृत्वान तत्रानुधर्मता चिन्तनीया । यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वंतत्रैवानुधर्मता चिन्त्यते ।।
सा चेयमनाचीर्णेति दर्श्यते[भा.९९७] सगड-दह-समभोमे, अविय विसेसण विरहियतरागं।
तह वि खलु अणाइन्नं, एसऽनुधम्मोपवयणस्स ॥ वृ- यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगराद् उदायननरेन्द्रप्रव्राजनार्थं सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलाऽपान्तराले बहवः साधवः क्षुधास्तृिषार्दिताः संज्ञाबाधिताश्चबभूवुः। यत्रच भगवानावासितस्तत्र तिलभृतानिशकटानि पानीयपूर्णश्च हूदः ‘समभौमंच' गर्ता-बिलादिवर्जितं स्थण्डिलमभवत् । अपि च विशेषेण तत् तिलोदकस्थण्डिलजातं 'विरहिततरं' अतिशयेनाऽऽगन्तुकैस्तदुत्थैश्चजीवैर्वर्जितमित्यर्थः तथापि खलु भगवता 'अनाचीर्ण' नानुज्ञातम् । एषोऽनुधर्म 'प्रवचनस्य' तीर्थस्य, सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रापहतपरिहारलक्षणएषएवधर्मोऽनुगन्तव्यइतिभावः॥अथैतदेव विवृणोति[भा.९९८] वक्तजोणि थंडिल, अतसा दिन्ना ठिई अविछुहाए।
तह विन गेण्हिसु जिनो, मा हुपसंगो असत्थहए। वृ-यत्र भगवानावासितस्तत्र बहूनि तिलशकटान्यावासितान्यासन् । तेषु च तिलाः 'व्युत्क्रान्तयोनिकाः' अशस्त्रापहता अप्यायुःक्षयेणाचित्तीभूताः । ते च यद्यस्थण्डिले स्थिता भवेयुस्ततोन कल्पेरन्नित्यतआह-स्थण्डिले स्थिताः। एवंविधाअपित्रसैः संसक्ता भविष्यन्तीत्याह'अत्रसाः' तदुद्भवा-ऽऽगन्तुकत्रसविरहिताः। तिलशकटस्वामिभिश्च गृहस्थैर्दत्ता, एतेन चादत्तादानदोषोऽपितेषुनास्तीत्युक्तंभवति ।अपिचतेसाधवः क्षुधापीडिताआयुषः स्थितिक्षयमकार्षु तथापि 'जिनः' वर्द्धमानस्वामी नाऽग्रहीत्, ‘मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थकरेणापि गृहीत्तम्' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्तिनः शिष्या अशस्त्रापहतं मा ग्रहिषुः' इति भावात्, व्यवहारनयबलीयस्त्वख्यापनाय भगवता न गृहीता इति ह्रदयम्; युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् । यत उक्तम्
प्रमाणानिप्रमाणस्थै, रक्षणीयानि यत्नतः।
विषीदन्ति प्रमाणानि, प्रमाणस्थैर्विसंस्थुलैः ।। [भा.९९९] एमेव य निज्जीवे, दहम्मि तसवञ्जिए दए दिन्ने । समभोम्मे य अवि ठिती, जिमिता सन्ना न याऽणुन्ना ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org