________________
उद्देशक : १, मूलं-१, [भा. ९८८ ]
[भा. ९८८ ] न वि खाइयं न वि वई, न गोण-पहियाइए निवारेइ । इति करणभई छिन्नो, विवरीय पसत्थुवणओ य ।।
२६५
वृ- एगेन कुटुंबिणा उच्छुकरणं रोवियं । तस्स परिपेरंतेण तेण न वि खाइया कया, न वि वईए फलिहियं, न वि गोणाई निवारेइ, नावि पहिए खायंते वारेइ । ताहे तेहिं गोणाईहिं अवारिज्जमाणेहिं तं सव्वं उच्छाइयं । एवंकरितो सो कम्मकराण भईए छिन्नो । जं च पराययं खेत्तं वार्वितेणं वुत्तं 'एत्तियं ते दाहं' ति तं पि दायव्वं । एवं सो उच्छुकरणे विणट्ठे मूलच्छिन्ने जं जस्स देयं तं अदेंतो बद्धो विनट्ठो य । एस अप्पसत्थो । अन्त्रेण वि उच्छुकरणं कयं । सो विवरीओ भाणियव्वो । खाइयादि सव्वं कयं । जे य गोणाई पडंति ते तहा उत्रासयति जहा अन्ने विन दुक्कंति । एस पसत्थो ।। अथाक्षरार्थः कश्चित् कुटुम्बी इक्षुकरणं रोपयित्वा नापि स्वातिकां नापि वृतिं कृतवान्, न वा गो-पथिकादीन् स्वादतो निवारयति । 'इति' एवंकुर्वन् इक्षुकरणस्य सम्बन्धिनी या भृतिः-कर्मकरादिदेयं द्रव्यं तया 'छिन्नः' त्रुटितः सन् विनष्टः । एतद्विपरीतश्च प्रशस्तदृष्टान्तो वक्तव्यः । उपनयश्च द्वयोरपि दृष्टान्तयोर्भवति ॥ स चायम्
[ भा. ९८९ ] को दोसो दोहि भिन्ने, पसंगदोसेण अणरुई भत्ते । भिन्नाभिन्नग्गहणे, न तरइ सजिए वि परिहरिउं ।।
वृ- कश्चिद् निर्धर्मा प्रलम्बानि ग्रहीतुकामः “ को दोषः स्यात् 'द्वाभ्यां' द्रव्य-भावाभ्यां भिन्ने प्रलम्बे गृह्यमाणे ?” इति परिभाष्य द्रव्य-भावभिन्नानि प्रलम्बान्यानीतवान् । यदि च तस्य प्रायश्चित्तं न दीयते तदा स निर्विशङ्कं भूयो भूयस्तानि गृह्णाति । ततश्च लब्धप्रलम्बरसास्वादस्य प्रसङ्गदोषेण तैः प्रलम्बैरलभ्यमानैस्तस्य भक्ते 'अरुचिः' अरोचको भवति । ततो यानि भावतो भिन्नानि द्रव्यतोऽभिन्नानि तेषां ग्रहणे प्रवर्त्तते । यदा तान्यपि न लभते तदाऽसौ प्रलम्बरसगृद्धः सजीवान्यपि प्रलम्बानि न शक्नोति परिहर्तुमिति । विशेषयोजना त्वेवम्-कुटुम्बिस्थानीयः साधुः, इक्षुकरणस्थानीयं चारित्रम्, परिखास्थानीया अचित्तप्रलम्बादिनिवृत्ति, वृतिस्थानीया गुर्वाज्ञा, गो-पथिकादिस्थानीया रसगौरवादयः, तैरुपद्रूयमाणं प्रलम्बग्राहिणश्चारित्रमचिरादेव विनश्यति, यथा चासौकर्षक एकभविकं मरणं प्राप्तस्तथाऽयम्पयनेकानि जन्म-मरणानि प्राप्नोतीत्येष अप्रशस्त उपनयः । प्रशस्तः पुनरयम्-यथा तेन द्वितीयकर्षकेण कृतं सर्वमपि परिखादिकम्, उत्त्रासिता गवादयः, रक्षितं स्वक्षेत्रम्, सञ्जातोऽसावैहिकानां कामभोगानामाभागी ; एवमत्रापि केनापि साधुना द्रव्यभावभिन्नं प्रलम्बमानीतमाचार्याणामालोचितम्, तैराचार्यै स साधुरत्यर्थं खरण्टितः ॥
ततश्च
[भा. ९९०] छड्डाविय-कयदंडे, न कमेति मती पुणो वि तं घेत्तुं । नय से वढइ गेही, एमेव अनंतकाए वि ॥
वृ- स साधुराचार्यै प्रलम्बानि च्छर्दापितः त्याजितः प्रायश्चित्तदण्डश्च तस्य कृतः, ततश्च च्छर्दापित-कृतदण्डस्य पुनरपि 'तत्' प्रलम्बजातं ग्रहीतुं मति 'न क्रमते' नोत्सहते, 'न च' नैव “से” तस्य प्रलम्बे गृद्धिर्वर्धते, ततश्चासौ विरतिरूपया परिखया गुर्वाज्ञारूपया वृत्त्या परिक्षिप्तभिक्षुकरणकल्पं चारित्रं रसगौरवादिगो पथिकैरुपद्रूयमाणं सम्यक् परिपालयितुमीष्टे, जायते चैहिकाऽऽमुष्मिककल्याणपरम्पराया भाजनम् । एवं तावत् प्रत्येके भणितम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org