________________
२६४
बृहत्कल्प-छेदसूत्रम् - १-१/१ मरति तत्तिया वधा, लोगे य पावो गणिज्जति। एवं जेन पलंबस्स एक्को पक्खेवो कओ तस्स एक्क मासियं, जो विडसंतो खायति तस्स तत्तिया पच्छित्ता, घनचिक्कणाए य पारितावणियाए किरियाए वट्टति । विडसना नाम आसादेंतो थोवं थोवं खायइ । अत एवाह - "निव मेच्छ" इत्यादि । कस्यचिद् नृपस्य द्वौ म्लेच्छाववलगकौ । तेन तुष्टेन तयोः छगलकौ सुराकुटी च दत्तौ । तत्रैकेन च्छगलकस्य मृतस्य द्वितीयेन पुनरमृतस्यैवैकैकमङ्गं छित्वा लवणादिभिरालिम्प्य भक्षणं कृतमिति।। किञ्च
[भा.९८४] अञ्चित्ते वि विडसणा, पडिसिद्धा किमु सचेयणे दव्वे । कारणे पक्खेवम्मिउ, पढमो तइओ अ जयणाए ।
वृ- अचित्तेऽपि द्रव्ये विदशना प्रतिषिद्धा किं पुनः सचेतने द्रव्ये ?, सचित्तं प्रलम्बं सुतरां विदशनया न भक्षणीयमिति भावः । यत्र पुनः कारणे सचित्तं मुखे प्रक्षिपति तत्रापि 'प्रथमभङ्गः ' एकग्रहणैकप्रक्षेपरूपः 'तृतीयभङ्गश्च' अनेकग्रहणैकप्रक्षेपरूपो यतनया सेवितव्यः ॥ अथानन्तकायस्य वर्जनेति द्वारम् । तत्र प्रथमतो द्वारगाथामाह
[भा. ९८५] पायच्छित्ते पुच्छा, उच्छुकरण महिड्डि दारु थली य दिट्ठतो । चउत्थपदं च विकडुभं पलिमंथो चेवऽनाइन्नं ॥
वृ- प्रथमं प्रायश्चित्ते पृच्छा कर्त्तव्या । ततः 'इक्षुकरणेन' इक्षुवाटेन 'महर्द्धिकेन' राज्ञा "दारु” त्ति दारुभारेण 'स्थल्या च' देवद्रोण्याद्दष्टान्तः कर्त्तव्यः । चतुर्थच द्रव्यतोऽपि भावतोऽपि भिन्नमिति यत् पदं तत्र त्रीणि द्वाराणि - विकटुभं परिमन्थः अनाचीर्णमिति समासार्थः ॥ अथ विस्तरार्थमाह
[भा. ९८६ ] चोएइ अजीवत्ते, तुल्ले कीस गुरुगो अनंतम्मि । कीस य अचेयणम्मी, पच्छित्तं दिज्जए दव्वे ॥
वृशिष्यो नोदयति-भावतो भिन्नं द्रव्यतोऽभिन्नं भावतो भिन्नं द्रव्यतोऽपि भिन्नमिति तृतीय- चतुर्थयोर्भङ्गयोः परीत्ते अनन्ते च अजीवत्वे तुल्येऽपि कस्माद् अनन्ते गुरुमासः परीत्ते लघुमासोदीयते ? कस्माच्चाचेतने द्रव्ये परीत्तेऽनन्ते वा जीवोपघातं विनाऽपि प्रायश्चित्तं दीयते ? अपरं च राग-द्वेषवन्तो भवन्तः, यदचेतने परीत्ते मासलघु अनन्तेऽचेतनेऽपि मासगुरु प्रयच्छत ॥ तत्र यत् तावद् नोदितम् “कस्मात् परीत्ते मासलघु अनन्ते मासगुरु ? " तद्विषयं समाधानमाह[भा. ९८७] साऊ जिनपडिकुट्ठो, अनंतजीवाण गायनिप्फन्नो । गेही पसंगदोसा, अनंतकाए अतो गुरुगो ॥
वृ- परीत्ताद् अनन्तकायः स्वादुः स्वादुतरः । तथा जिनैः - तीर्थकरैः प्रतिक्रुष्टः, 'कारणेऽपि परीत्तं ग्रहीतव्यं नानन्तम्' इति जिनोपदेशात् । अनन्तानां च जीवानां गात्रेण स निष्पन्नः । सुस्वादुत्वाच्चाधिकतरा तत्रगृद्धिर्भवति । तस्याश्च प्रसङ्गेनानेषणीयमपि गृह्णीयादित्यादयो बहवो दोषाः, अतोऽनन्तकायेऽचित्तेऽपि गुरुको मासः प्रायश्चित्तम् । एवं च द्रव्यानुरूपं प्रायश्चित्तं ददतामस्माकं राग-द्वेषावपि दूरापास्तप्रसराविति । यच्चोक्तम् “कस्मादचित्ते प्रायश्चित्तं प्रयच्छत ? " इत् तत्रापि समाधीयते - अनवस्थाप्रसङ्गनिवारणार्थं सजीवग्रहणपरिहारार्थं चाचित्तेऽपि प्रायश्चित्तप्रदानमुपपन्नमेव । तथा चात्राचार्या इक्षुकरणदृष्टान्तमुपदर्शयन्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org