________________
उद्देशकः १, मूलं-१, [भा. ९८०]
२६३ वृ-पत्राणांपुष्पाणां सरडुफलानाम्' अबद्धास्थिकफलानांतथैव हरितानां वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनांवा 'वृन्ते' मूलनाले म्लाने सति ज्ञातव्यम्, यथा-जीवविप्रमुक्तमेतत् पत्रादिकम् ।। उक्तं भावतोऽपि लक्षणम् । तदुक्तौ च समर्थितं चतुर्विधज्ञानद्वारम् ।
अथ ग्रहणद्वारमाह[भा.९८१] चउभंगो गहण पक्खेवए अएगम्मि मासियं लहुयं ।
गहणे पक्खेवम्मिं, होति अनेगा अनेगेसु ॥ वृ-चतुर्भङ्गी ग्रहणेप्रक्षेपके च द्रष्टव्या। तद्यथा-एकंग्रहणंएकःप्रक्षेपकः १ एकंग्रहणमनेके प्रक्षेपकाः २ अनेकानि ग्रहणानि एकः प्रक्षेपकः ३अनेकानि ग्रहणानि अनेके प्रक्षेपकाः ४।अत्र च हस्तेन यत् प्रलम्बानामादानं तद् ग्रहणम्, यत् पुनर्मुख प्रवेशनं स प्रक्षेपकः । तत्र प्रथमभङ्गे एकस्मिन् ग्रहणे प्रक्षेपके च प्रत्येकं मासलघु । द्वितीयभङ्गे एकस्मिन् ग्रहणे मासलघु, प्रक्षेपस्थाने यावतःप्रक्षेपकान् करोति तावन्ति मासलघूनि । तृतीयभङ्गे तु यावन्ति ग्रहणानि तावन्ति मासलघुकानि, प्रक्षेपविषयस्त्वेकोलघुमासः।चतुर्थभङ्गेऽनेकेषुग्रहणेष्वनेकेषुप्रक्षेपकेषुचानेकान्येव मासलघुकानि । एतच्चासामाचारीनिष्पन्नं मन्तव्यम् । यत् पुनर्जीवघातनिष्पन्नं चतुर्लघुकादिकं तत् स्थितमेव । एतच्च ग्रहण-प्रक्षेपकनिष्पन्नंप्रायश्चित्तं यथा केवलीजानाति तथागीतार्थोऽपीति।। गतं ग्रहणद्वारम् । अथ तुल्ये राग-द्वेषाभाव इति द्वारम् । तत्र शिष्यः प्राह[भा.९८२] पडिसिद्धा खलु लीला, बिइए चरिमेय तुल्लदव्वेसु ।
निद्दयता वि हु एवं, बहुधाए एगपच्छित्तं ॥ वृ- अहो ! भगवन्तो राग-द्वेषाध्यासितमनसः । तथाहि-'तुल्यद्रव्येषु' समानेऽपि प्रलम्बद्रव्याणां जीवत्वे इत्यर्थः द्वितीयभङ्गे एकफलस्य चरमभङ्गे तुबहूनां फलानां बहून् वारान् प्रक्षेपं करोतीति बहूनि मासिकानि दत्थ, तृतीयभङ्गे तुबहूनि वनफलनि गृहीत्वा छित्वा वा एकः प्रक्षेपक इति कृत्वैकंमासिकंददध्वे, तमममनसिप्रतिभासतेनूनं लीलयैवयुष्माभिप्रतिषिद्धा न पुनर्जीवोपघातः । एवं च भगवतां द्वितीयभङ्गे प्रलम्बजीवानामुपरि रागो बहुमासिकदानात्, तृतीयभङ्गे तु द्वेषः एकस्यैव मासिकस्य दानात्; यद्वा द्वितीयभङ्गे गृह्णतां शिष्याणामुपरि द्वेषः, तृतीये तु रागः, कारणं प्राग्वदेव । किञ्चयुष्माकमेवं बहुघाते' युगपद् बहूनां मुखे प्रक्षिप्य भक्षणे एकमेव मासिकं प्रायश्चित्तं ददता निर्दयता भवति ।
अथ राग-द्वेषाभावं समर्थयन् सूरि परिहारमाह[भा.९८३] चोयग! निद्दयतं चिय, नेच्छंता विडसणं पि नेच्छामो।
निव मिच्छ छगल सुरकुड, मता-ऽमताऽऽलिंप भक्खणता ।। वृ-हे नोदक ! निर्दयतामेवानिच्छन्तो वयं विदशनमपि नेच्छामः, विविधं दशनं-भक्षणं विदशनं लीला इत्यर्थः । अत्र चाचार्या म्लेच्छद्वयदृष्टान्तं वर्णयन्ति-जहा एगस्स रन्नो दो मिच्छा
ओलग्गगा । तेन रन्ना तेसिं मिच्छाणं तुटेण दो सुरकुडा दो यछगला दिन्ना । ते तेहिं गहिया । तत्थ एगेणं छगलो एगप्पहारेणं मारितूण खइओ दोहिं तिहिं वा दिनेहिं । बितिओ एक्कक्कं अंगं छेत्तुं खायति, तंपिसोछेदथामंलोणेणंआसुरीहिंवा छगणेणवा लिंपइ।एवं तस्सछगलस्सजीवंतस्सेव गाताणि छेत्तुंखइयाणि, मतो य । पढमस्स एगप्पहारेण एक्को वधो । बितियस्स जत्तिएहिं छेदेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org