________________
बृहत्कल्प-छेदसूत्रम् - १-१/१
खर्जूर-मुद्रिकादयः पुनरनाचीर्णा इति न गृह्यन्ते ॥ अथ सर्वेषां सामान्येन परिणमनकारणमाह[भा. ९७५ ] आरुहणे ओरुहणे, निसियण गोणादिणं च गाउम्हा । भुम्माहारच्छेदे, उवक्क मेणं च परिणामो ।।
२६२
वृ- शकटे गवादिपृष्ठेषु च लवणादीनां यद् भूयो भूय आरोहणमवरोहणं च, तथा यत् तस्मिन् शकटादी लवणादिभरोपरि मनुष्या निषीदन्ति तेषां गवादीनां चयः कोऽपि पृष्ठादिगात्रोष्मा तेन च परिणामो भवति । तथा यो यस्य भौमादिकः पृथिव्यादिक आहारस्तद्यवच्छेदे तस्य 'परिणामः' उपक्रमः शस्त्रम्, उपक्रम्यन्ते जीवानामायूंषि अनेनेति व्युत्पत्तेः । तच्च शस्त्र त्रिधा-स्वकायशस्त्र वा पाण्डुभूमस्येति । परकायशस्त्र यथा- अग्निरुदकस्य, उदकं वा अग्नेरिति । तदुमयशस्त्र यथाउदकमृत्तिका शुद्धोदकस्येत्यादि । एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मन्तव्यानि ॥ [भा. ९७६ ] चोएई वनकाए, पगए लोणादियाण किं गहणं । आहारेणऽहिगारो, तस्सुवकारी अतो गहणं ।।
वृ-शिष्यो नोदयति-'वनस्पतिकाये' प्रलम्बलक्षणे प्रकृते लवणादीनां पृथिवीकायिकानां किमर्थमत्र ग्रहणं क्रियते ? इति । सूरिराह - आहारेण तावदत्र सूत्रेऽधिकारः, तस्य चाहारस्य लवणमतिशयेनोपकारि, तद्विरहितस्याऽऽहारस्य नीरसत्वात्, अतस्तद्ग्रहणमिति ॥ यद्येवं
ततः
[भा. ९७७] छहि निप्फज्जइ सो ऊ, तम्हा खलु आनुपुव्वि किं न कया । पाहनं बहुयत्तं, निप्पत्ति सुहं च तो न कमो ॥
वृ- 'षड्भिः' पृथिवीकायादिभि 'सः' आहारो निष्पद्यते अतः षडपि कायाः किं नानुपूर्व्या सूत्रे 'कृताः' गृहीताः ?, यथा- "नो कप्पइ निग्गंथाण वा निग्गंधीण वा पुढविकाइए गिण्हित्तए" इत्यादि । आचार्य प्राह-तस्मिन्नाहारे वनस्पतेः प्राधान्यम्, मुख्यतया तस्यैवाऽऽहरणीयत्वात् । तथा 'बहुत्वम्' उपयोगबाहुल्यं वनस्पतिरागच्छति । वनस्पतिकायेन च यथा सुखमाहारस्य निष्पत्तिर्न तथा पृथिव्यादिभिः कायैः । तत एभि कारणैर्न 'क्रमः' पृथिव्यादीनामानुपूर्वीग्रहणलक्षणः कृतः, किन्तु केवलस्यैव वनस्पतेः सूत्रे ग्रहणं कृतमिति ।। गतं क्षेत्रतो लक्षणम् । अथ कालत आह[भा. ९७८] उप्पल-पउमाई पुण, उण्हे दिनाइँ जाम न धरिती । मोग्गर- जूहियाओ, उन्हे छूढा चिरं होंति ।
बृ-उत्पलानि पद्मानिच 'उष्णे' आतपे दत्तानि "यामं प्रहरमात्रं कालं 'न ध्रियन्ते' नावतिष्ठन्ते किन्तु प्रहरादर्वागेवाचित्तीभवन्ति । 'मुद्गरकाणि' मगदन्तिकापुष्पाणि यूथिकापुष्पाणि चोष्णयोनिकत्वाद् उष्णे क्षिप्तानि चिरमपि कालं भवन्ति, सचित्तान्येव तिष्ठन्तीति भावः ॥ [भा. ९७९ ] मगदंतियपुप्फाई, उदए छूढाइँ जाम न धरिती । उप्पल-पउमाइं पुण, उदए छूढा चिरं होंति ।।
वृ-मगदन्तिकापुष्पाणि उदके क्षिप्तानि 'यामं प्रहरमपि न म्रियन्ते । उत्पल-पद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति, उदकयोनिकत्वात् ॥ गतं कालतो लक्षणम् । अथ भावत आहपत्ताणं पुप्फाणं, सरडुफलाणं तहेव हरियाणं । विंटम्मि मिलाणम्मी, नायव्वं जीवविप्पजढं ॥
[भा. ९८० ]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org