SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-१, [भा. ९६८] २६१ उड्डीयमानो दृश्यते । पृथिवी नाम केदाराद्युपरिवर्तिनी शुष्ककोप्पटिका श्लक्ष्णखटिकानिर्मिता वा, यथा तस्या भिद्यमानायाः समो भेदो भवति एवं समभेदेन भिद्यमानं तदेवंविधं मूलादिकमनन्तजीवं विजानीहि । इदमेव स्पष्टयन्नाह[भा.९६९] जस्स मूलस्स भग्गस्स, समो भंगो पदीसई। अनंतजीवे उसे मूले, जे याऽवऽन्ने तहाविहे। वृ-यस्य मूलस्य भग्नस्यसमो भङ्गःप्रद्दश्यते अनन्तजीवंतु तद् मूलम् । यश्च ‘अन्योऽपि' स्कन्धादिकस्तथाविधः समभङ्गेन भज्यते सोऽप्यनन्तजीवो ज्ञातव्य इति ।। [भा.९७०] जस्स मूलस्स भग्गस्स, हीरो भंगे पदिस्सए। परित्तजीवे उसे मूले, जे याऽवऽन्ने तहाविहे ।। वृ-यस्य मूलस्य भग्नस्य हीरः' तन्तुकविशेषो भङ्गे वंशस्येवप्रदृश्यते परीत्तजीवं तु तद् मूलम् । यश्च ‘अन्योऽपि' स्कन्धादिकस्तथाविधो भङ्गे दृश्यमानहीरः सोऽपि प्रत्येकजीव इति॥ [भा.९७१] जस्स मूलस्स कट्ठातो, छल्ली बहलतरी भवे । अनंतजीवा उ सा छल्ली, जा याऽवऽन्ना तहाविहा॥ वृ-यस्य मूलस्य सम्बन्धिनः 'काष्ठात्' सारात् 'छल्ली' बाह्या त्वक् ‘बहलतरा' स्थूलतरा भवेत्, यथाशतावर्या, अनन्तजीवातुसाछल्ली।याचान्याऽपितथाविधा। काष्ठमपितस्यानन्तजीवं द्रष्टव्यम् ॥ [भा.९७२] जस्स मूलस्स कट्ठातो, छल्ली तणुयतरी भवे । परित्तजीवा तु सा छल्ली, जा याऽवडण्णा तहाविहा॥ वृ-यस्य मूलस्य काष्ठात् छल्ली 'तनुकतरा' श्लक्ष्णतरा भवेत् परीत्तजीवा तु सा छल्ली, यथा सहकारादेः, या चान्याऽपि तथाविधा ।। गतं द्रव्यतो लक्षणम् । अथ क्षेत्रत आह[भा.९७३] जोअनसयं तु गंता, अनहारेणंतु भंडसंकंती । वाया-ऽगनि-धूमेण य, विद्धत्थं होइ लोणाई। -लवणादिकंस्वस्थानाद्गच्छत्प्रतिदिवसंबहुबहुतरादिक्रमेण विध्वस्यमानंयोजनशतात् परतो गत्वा सर्वथैव 'विध्वस्तम्' अचित्तं भवति । आह शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवति? इत्याह-अनाहारेण, यस्य यद्उत्पत्तिदेशाधिकंसाधारणंतत्ततो व्यवच्छिन्नं स्वोपष्टम्भकाहारव्यवच्छेदा विध्वस्यते । तच्च लवणादिकं भाण्डसङ्क्रान्त्या पूर्वस्मात् पूर्वस्माद् भाजनादपरापरभाजनेषु, यद्वा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां सङ्क्रम्यमाणं विध्वस्यते । तथा वातेन वा अग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति॥ "लोणाई" इत्यत्र आदिशब्दादमी द्रष्टव्याः[भा.९७४] हरियाल मनोसिल पिप्पली य खजूर मुद्दिया अभया। आइन्नमणाइन्ना, ते विहु एमेव नायव्वा ॥ वृ-हरितालंमनःशिला पिप्पलीचखजूरः एतेप्रतीताः, ‘मुद्रिका' द्राक्षा अभया' हरीतकी। एतेऽपि ‘एवमेव' लवणवद् योजनशतगमनादिभिः कारणैरचितीभवन्तो ज्ञातव्याः । परमेकेऽत्राचीर्णा अपरेऽनाचीर्णा । तत्र पिप्पली-हरीतकीप्रभृतय आचीर्णा इति कृत्वा गृह्यन्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy