________________
२६०
बृहत्कल्प-छेदसूत्रम् -१-१/१ किं वाऽभ्यधिकः? इति चिन्तायां निर्वचनं तुल्यो वा हीनो वा अभ्यधिको वा । यदि तुल्यस्तदा तुल्यत्वादेव नास्ति विशेषः । अथ हीनस्ततो यदपेक्षया हीनस्तमुद्दिश्याऽनन्तभागहीनो वा असङ्ख्येयभागहीनो वा सङ्ख्येयभागहीनो वा सङ्ग्येयगुणहीनो वा असङ्ख्येयगुणहीनो वा अनन्तगुणहीनो वा । अथाभ्यधिकस्ततो यदपेक्षयाऽभ्यधिकस्तं प्रतीत्याऽनन्तभागाभ्यधिको वा असङ्ख्येयभागाभ्यधिको वा सङ्ख्येयभागाभ्यधिको वा सङ्ग्येयगुणाभ्यधिको वा असङ्ख्येयगुणाभ्यधिको वाअनन्तगुणाभ्यधिकोवा। आह समाने सर्वेषामप्यक्षरलाभेषट्स्थानपतितत्वमेव कथं जाघटीति? उच्यते-एकस्मात् सूत्रादनन्ता-ऽसङ्ख्येय-सङ्ग्येयगम्यार्थगोचरा येमतिविशेषाः श्रुतज्ञानाभ्यन्तरवर्त्तिनस्तैः परस्परं षट्स्थानपतितत्वं न विरुध्यते । तदुक्तम्
___ अक्खरलंभेण समा, ऊणहिया हुंति मइविसेसेहिं ।
ते पुन मईविसेसे, सुयनाणमंतरे जाण ॥ एवंविधंचषट्स्थानपतित्वंप्रज्ञापनीयानामनन्ततमभागमात्र एव श्रुतनिबद्धे घटमानकं भवति । यदि हि सर्व एव प्रज्ञापनीया भावाः श्रुते निबद्धा भवेयुस्तर्हि चतुर्दशपूर्विणोऽपि परस्परं तुल्या एव भवेयुर्न षट्स्थानपतिता इति । अत एवाह-'तेन' कारणेन यत् किमपि 'श्रुतं' चतुर्दशपूर्वरूपं तत् प्रज्ञापनीयानामनन्ततमो भागो वर्त्तते इति ॥
अथ यदुक्तं "प्रज्ञापनया द्वावपि तुल्यौ" तद्भावनामाह[भा.९६६] केवलविन्नेयत्थे, सुयनाणेणं जिनो पगासेइ ।
सुयनाणकेवली विहु, तेनेवऽत्थे पगासेइ ॥ वृ-केवलेन विज्ञेया येऽस्तिान्यावतः श्रुतज्ञानेन 'जिनः' केवली प्रकाशयति । इह च केवलिनःसम्बन्धी वाग्योगएव श्रोतृणांभावश्रुतकारणत्वात्कारणेकार्योपचारात्श्रुतज्ञानमुच्यते, नपुनस्तस्य भगवतः किमप्यपरं केवलज्ञानव्यतिरिक्तं श्रुतज्ञानं विद्यते, “नट्ठम्मि उछाउमथिए नाणे" इति वचनात् । श्रुतज्ञानकेवल्यपि तानेव तावतः ‘तेनैव' श्रुतज्ञानेन ‘अर्थान् जीवादीन् प्रकाशयति । अतः "श्रुतकेवलि-केवलिनौ द्वावपि प्रज्ञापनयातुल्यौ" इति स्थितम् । तदेवंयथा केवली द्रव्य-क्षेत्र-काल-भावैर्वस्तुजानाति तथागीतार्थोऽपिजानीते॥अत्र पुनः प्रलम्बाधिकाराद् द्रव्यतः परीत्तमनन्तं वा येन लक्षणेन जानाति तदभिधित्सुराह[भा.९६७] गूढछिरागंपत्तं, सच्छीरं जंच होइ निच्छीरं ।
जंपिय पणट्ठसंधिं, अनंतजीवं वियाणाहि ।। वृ-यत्पत्रंसक्षीरं निक्षीरंवा 'गूढशिराकंभवति' गूढाः-गुप्ता अनुपलक्ष्याः शिराः-स्नायवो यस्य तद् गूढशिराकम्, तथा यदपि च 'प्रनष्टसन्धिकं' सर्वथाऽनुपलक्ष्यमाणपत्रार्द्धद्वयसन्धिः, तदेवंविधं पत्रम् ‘अनन्तजीवम्' अनन्तकायिकं विजानीहीति ।।
अथ मूल-स्कन्धादीनां सर्वेषामप्यनन्तकायत्वे लक्षणमाह[भा.९६८] चक्कागं भज्जमाणस्स, गंठी चुण्णघनो भवे ।
पुढविसरिसेण भेएणं, अनंतजीवं वियाणाहि ॥ वृ-यस्य मूलादेर्भज्यमानस्य चक्राकारो भङ्गो भवति सम इत्यर्थः । तथा 'ग्रन्थि' पर्व सामान्यतो भङ्गस्थानं वा स यस्य चूर्णघनो भवति । कोऽर्थः? -यस्य भज्यमानस्य ग्रन्थेनचूर्ण
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only