SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-१, [भा. ९३०] २५१ [भा. ९३०] तं काय परिचय, नाणं तह दंसणं चरितं च । बीयाईपडिसेवग, लोगो जह तेहि सो पुट्ठो ॥ वृ- प्रलम्बं गृह्णन् 'तं कायं' वनस्पतिलक्षणं परित्यजति, तथा ज्ञानं दर्शनं चारित्रं चेति । बीजादिप्रतिसेवको लोको यथा असंयमेन स्पृष्टस्तथा सोऽपि साधुस्तैः प्रलम्बैरासेवितैरसंयमेन स्पृष्ट इति नियुक्तिगाथाक्षरार्थः ।। अथैनामेव विवरीषुराह [ भा. ९३१] कायं परिच्चयंतो, सेसे काए वए वि सो चयई । नाणे नाणुवदेसे, अवट्टमाणो उ अन्नाणी ।। वृ- प्रलम्बानि गृह्णानो वनस्पतिकायं परित्यजति, तं च परित्यजन् शेषानपि कायानसौ भावतः परित्यजति, तत्परित्यागे च प्रथमव्रतपरित्यागः, प्रथमव्रतपरित्यागे च शेषव्रतपरित्यागोऽप्युपजायत इति “व्रतान्यप्यसौ परित्यजति" इत्युक्तम् । तथा 'ज्ञाने' ज्ञानविषये परित्यागे चिन्त्यमाने ज्ञानोपदेशे क्रियाद्वारेणाऽवर्त्तमानोऽसौ ज्ञान्यपि अज्ञानी मन्तव्यः ॥ [भा. ९३२] दंसण-चरणा मूढस्स नत्थि समया वन नत्थि सम्मं तु । विरईलक्खण चरमं, तदभावे नत्थि वा तं तु ॥ वृ- ज्ञानाभावादसौ मूढो भवति, मूढस्य दर्शन-चारित्रे न स्तः । यद्वा प्रलम्बग्रहणादस्य जीवेषु समता न विद्यते । समताया अभावाच्च सम्यक्त्वमपि नास्ति, तस्यापि सामायिकभेदतया समतारूपत्वात् । विरतिलक्षणं चरणं भणितम्, तच्च लक्षण प्रलम्बानि गृह्णतो न विद्यते । 'तदभावे' लक्षणाभावे 'तत्तु' तत् पुनश्चारित्रं नास्ति । वाशब्दः प्रकारान्तरद्योतकः ॥ अथ "वीयाई” इत्यादि व्याख्यावते-फलाद बीजं भवतीति कृत्वा बीजग्रहणम्, आदिशब्दात् फल-पुष्प-पत्रप्रबाल-शाखा-त्वक्-स्कन्ध-कन्द-मूलानि गृह्यन्ते । शिष्यः प्राह- सर्वेऽपि वनस्पतयस्तावद् मूलादय एव भवन्ति अतः “मूलाईपडिसेवग" इति कर्तुमुचितम् किमिति "बीयाईपडिसेवग " त्ति कृतम् ? सूरिराह [भा. ९३३] पाएण बीयभोई, चोयग ! पच्छानुपुव्वि वा एवं । जोनिग्घाते व हतं, तदादि वा होइ वनकाओ ।। वृ-लोकः प्रायेण बीजभोजी, तेन कारणेन बीजमादौ कृतम् । यद्वा हे नोदक ! स्वसमये त्रिविधाऽऽनुपूर्वी प्ररूप्यते, तद्यथा- पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी च । त्रिविधाऽपिच यथावसरं व्याख्याङ्गमित्यत्र पश्चानुपूर्वी गृहीत । अथवा बीजं वनस्पतीनां योनि- उत्पत्तिस्थानम् अतस्तस्य घाते-विनाशे सर्वमपि मूलादिकं निरपेक्षतया हतं भवति । यदि वा तदादिर्वनस्पतिकायो भवति । तद्- बीजमादिर्यस्य स तदादि, सर्वेषामपि वनस्पतीनां तत एव प्रसूतेः । अतो बीजादिग्रहणं कृतम् ॥ ततश्च [भा. ९३४ ] विरइसभावं चरणं, बीयासेवी हु सेसघाती वि । अस्संजमेण लोगो, पुट्ठो जह सो वि हु तहेव ॥ यो बीजासेवी स नियमात् 'शेषाणां' मूलादीनामपि घाती विज्ञेयः । यश्च मूलादीनि घातयति तस्य विरतिस्वभावं यत् 'चरणं' चारित्रं तन्त्र भवति । यथा च बीजादिप्रतिसेवको लोकोऽसंयमेन स्पृष्टस्तथैवासावपि तैः प्रलम्बैरासेवितैरसंयमेन स्पृष्ट इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy