________________
२५०
बृहत्कल्प-छेदसूत्रम् -१-१/१ जनवया ! य' त्ति । एयं घोसणयं सोऊण ते पउरा जनवया य दंडमीता ते पुरिसे पयत्तण वन्नरूवाईहिं चिंधेहिं आगमिऊणंपीडापरिहारकयबुद्धी तेसिंछण्हं पुरिसाणं पीडंपरिहरंतितेनिहोसा। जेपुन अनायारमंतानपरिहरंतितेरन्नासव्वस्सावहारदंडेणं दंडिया।एसदिटुंतो। अयमत्थोवणओरायत्थानीया तित्थयरा । पुरत्थानीओ लोगो । छप्पुरिसत्थानीया छक्काया । घोसणत्थानीया छक्कायरक्खणपरूवणपरा छज्जीवणियादओ आगमा । छिवणाइत्थानीया संघट्टणादी । पउरजणवयत्थाणीया साहू। दंडत्थाणीओसंसारो। तत्थ जे पयत्तेणछण्हंकायाणंसरूवं रक्खणोवायं चआगमेऊणजहुत्तविही पीडं परिहरंति ते कम्बंधदंडेणं न दंडिजंति, इयरे पुन संसारे पुणोपुणो सारीर-माणसेहिं दुक्खसयसहस्सेहिं दंडिजंति त्ति॥
अथाक्षरगमनिका-“षट् पुरुषा मम पुरे वर्तन्ते, यस्तानजानन्नपि 'आशातयेत्' स्पर्शादिनाऽपि पीडयेत्तमहं दण्डयामि ‘अकाण्डे' अकाले,श्रण्वन्तुएतत् 'पौराः!' पुरवासिनः! 'जानपदाश्च' ग्रामवासिनो लोकाः!" इति राज्ञा कारितां घोषणां श्रुत्वा तान् पुरुषान् 'आगम्य' उपलक्ष्य परिहरन्तः सन्तो निर्दोषाः, शेषाः' पुनर्ये पीडांन परिहरन्तितेन निर्दोषा इतिदण्डिताः। एवमत्रापि जिनाज्ञया यः षट्कायानामागमः-परिज्ञानं तत्पूर्वकचारिणः-संयमाध्वगामिनः सन्तोऽदोषाः, इतरेषां भवे' संसारे शारीर-मानसिकदुःखलक्षणो दण्डः ॥ गतमाशाद्वारम् । अथानवस्थाद्वारमाह[भा.९२८] एगेन कयमकजं, करेइ तप्पच्चया पुणो अन्नो।
सायाबहुल परंपर, वोच्छेदो संजम-तवाणं । वृ-इहप्रायः सर्वेऽपिप्राणिनः कर्मगुरुकतया दृष्टमात्रसुखाभिलाषिणः, नदीर्घसुखदर्शिनः, ततः सातलम्पटतया एकेन' केनचिदाचार्यादिना किमपि 'अकार्यं प्रमादस्थानं कृतं प्रतिसेवितं ततोऽन्योऽपि तत्प्रत्ययाद् “एष आचार्यादि श्रुतधरोऽप्येवं करोति नूनं नास्त्यत्र दोषः' इति तदेवाकार्यं करोति, ततोऽपरोऽपि तथैव करोति, तदन्योऽपि तथैव इत्येवं 'सातबहुलानां' सातगौरवप्रतिबद्धानां प्राणिनां परम्परया प्रमादस्थानमासेवमानानां संयम-तपसोर्व्यवच्छेदः प्राप्नोति । यद्धि संयमस्थानं तपःस्थानं वा पूर्वाचार्येण सातगौरवगृध्नुतया वर्जितं तत् पाश्चात्यैरइष्टमिति कृत्वाव्यवच्छिन्नमेवेति ।। गतमनवस्थाद्वारम् । अथ मिथ्यात्वद्वारं विवृणोति[भा.९२९] मिच्छत्ते संकाई, जहेय मोसं तहेव सेसं पि।
मिच्छत्तथिरीकरणं, अब्भुवगम वारणमसारं॥ वृ-मिथ्यात्वे विचार्यमाणे शङ्कादयो दोषा वक्तव्याः । शङ्का नाम-किं मन्ये अमी यतावादिनस्तथाकारिणो न भवन्ति येन प्रलम्बानि गृह्णन्ति?, आदिशब्दात् काङ्क्षादयो दोषाः । तथा यथैतद् मृषा तथैव 'शेषम्' अन्यदप्येतेषां मिथ्यारूपमेवेति चित्तविप्लुतिस्यात्। मिथ्यात्वाद् वाचलितभावस्य सम्यक्त्वाभिमुखस्य प्रलम्बग्रहणदर्शनात् पुनरपिमिथ्यात्वे स्थिरीकरणं भवति। अभ्युपगमवाप्रव्रज्यायाअणुव्रतानांसम्यग्दर्शनस्य वा कर्तुकामस्यापरः कश्चिद्वारणं कुर्यात्मा एतेषां समीपे प्रतिपद्यस्वे, 'असारं' निस्सारममीषां प्रवचनम्, मयेदं चेदं दृष्टमिति ॥ गतं मिथ्यात्वद्वारम् । अथ विराधना, सा च द्विविधा-संयमे आत्मनि च । द्वे अपि प्रागेव सप्रपञ्चं भाविते, तथापि विशेषमुपदर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org